________________
३३३५]
तृतीयोऽध्यायः तेषां द्विपञ्चाशदुपरि बहुमध्यदेशभावीनि प्राङमुखानि योजनशतायामतदर्धविष्कम्भाणि पञ्चसप्ततियोजनोत्सेधानि अष्टयोजनोत्सेधतदर्धविस्तारतावत्प्रवेशपूर्वोत्तरदक्षिणद्वाराणि द्विपञ्चाशदहदायतनानि अर्हदायतनवर्णनोपेतानि चातुर्मासिकमहामहिमाहा॑णि । पूर्वोक्तचतु:षष्टिवनषण्डबहुमध्यदेशभाविनो द्विषष्टियोजनोत्सेधा एकत्रिंशद्योजनायामविष्कम्भा अष्टयोजनोत्सेधतदर्धविस्तारद्वाराश्चतुःषष्टिरेव प्रासादाः। एतेष्वशोकवनावतंसकादयः' पल्यो- ५ पमायुषः दशकार्म कोत्सेधाः 'स्वभवननामानो देवा निवसन्ति ।
एवं द्विगुणवलयविष्कम्भेषु द्वीपसमुद्रेषु गतेष्वेकादशमः कुण्डलवरद्वीपः । तद् बहुमध्यदेशभाविवलयाकारः संपूर्णयवराश्युपमानः कुण्डलनगः योजनसहस्रावगाहः द्विचत्वारिंशद्योजनसहस्रोत्सेधः "द्वाविंशदशसहसयोजनमूलविस्तारः त्रयोविंशसप्तसहसयोजनमध्यविस्तारः चतुर्विशचतुर्योजनसहस्राग्रविस्तारः । तस्योपरि पूर्वादिदिग्विभावीनि वज़-वजप्रभ-कनक- १० कनकप्रभ - रजत-रजतप्रभ-सुप्रभ-महाप्रभ-अङ्क-अङ्कप्रभ-मणि - मणिप्रभ-स्फटिक-स्फटिकप्रभहिमवत्-महेन्द्रकूटसंज्ञानि षोडश कूटानि मानुषोत्तरकूटतुल्यप्रमाणानि एकैकस्यां दिशि चत्वारि चत्वार्यवसे यानि । पूर्वस्यां दिशि वजे त्रिशिराः, वज्रप्रभे पञ्चशिराः, कनके महाशिराः, कनकप्रभे महाभुजः। अपाच्यां रजते पद्मः, रजतप्रभे पद्मोत्तरः, सुप्रभे महापद्मः, महाप्रभे वासुकिः। अपरस्यामङ्के स्थिरहृदयः, अङ्कप्रभे महाहृदयः, मणिकूटे १५ श्रीवृक्षः, मणिप्रभे स्वस्तिकः। उदीच्यां स्फटिके सुन्दरः, स्फटिकप्रभे विशालाक्षः, हिमवति पाण्डुरः, महेन्द्र पाण्डुकः । एते त्रिशिरःप्रभृतयः पाण्डुकान्ताः षोडशापि नागेन्द्राः पल्योपमायुषः । पूर्वापरयोर्दिशोः कुण्डलनगे एकयोजनसहस्रोत्सेधे तावन्मूलविष्कम्भे अर्धाष्टमशतमध्यविष्कम्भे पञ्चशताग्रविष्कम्भे कुण्डलवरद्वीपाधिपतेरावासो द्वे कूटे। तस्यैवोपरि पूर्वादिषु दिक्षु चत्वार्यहदायतनानि अञ्जनाद्रिजिनायतनतुल्यप्रमाणानि ।।
कुण्डलवरद्वीपद्विगुणवलयविष्कम्भः कुण्डलवरोदः, तद्विगुणवलयविष्कम्भः शङखवरद्वीपः, तद्विगुणवलयविष्कम्भः शङखवरोदः तद्विगुणवलयविष्कम्भः रुचकवरद्वीपः ।। तहमध्यदेशभावी वलयाकार रुचकवरनगः एकयोजनसहस्रावगाहश्चतुरशीतियोजनसहस्रोत्सेधः, मूलमध्याग्रेषु द्विचत्वारिंशद्योजनसहस्र विस्तारः । तस्योपरि पूर्वादिषु दिक्षु चत्वारि कूटानि नन्द्यावर्त'-स्वस्तिक-श्रीवृक्ष-वर्धमानसंज्ञानि पञ्चयोजनशतोत्सेधानि मूलमध्याग्रेषु २५ योजनसहस्रायामविष्कम्भाणि। प्राच्यां दिशि नन्द्यावर्ते पद्मोत्तरः, अपाच्यां स्वस्तिके सुहस्ती, प्रतीच्या श्रीवृक्षे नीलः, उदीच्यां वर्धमानेऽजनगिरिः। त एते पद्मोत्तरादयः चत्वारो दिग्गजेन्द्राः पल्योपमायुषः । तस्यैवोपरि पूर्वस्यां दिशि वैडूर्य-काञ्चन-कनकअरिष्ट-दिकस्वस्तिक-नन्दन-अञ्जन-अञ्जनमूलकनामान्यष्टौ कूटानि पूर्वोक्तकूटतुल्यप्रमाणानि । वैडूर्ये विजया, काञ्चने वैजयन्ती, कनके जयन्ती, अरिष्टेऽपराजिता, दिक्स्वस्तिके नन्दा, नन्दने नन्दोत्तरा, अञ्जने आनन्दा, अञ्जनमूलके नान्दी वर्धना। एता दिक्कुमार्यः तीर्थकरजन्मकाले इहाऽऽगत्याहन्मातृसमीपे भृङ्गारान् गृहीत्वाऽवतिष्ठन्ते । दक्षिणस्याममोघसुप्रबुद्ध-मन्दिर-विमल-रुचक-रुचकोत्तर-चन्द्र-सुप्रतिष्ठसंज्ञान्यष्टौ कूटानि पूर्वोक्तकूटतुल्य
.
.
१ सप्तपर्णवनावतंसकेत्यादि योग्यम् । २ स्वस्थपना- प्रा०, २०, २०, मु०। ३ वसम्ति । ४द्वात्रिंशत् भा०२। ५ पूर्वाधिषि प्रा०,००म०। ६-तक स्व-प्रा०, २०, मु०, श्र०, मू०।। ७-वर्षमामा ब ता०। -तमच-भ०, म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org