________________
तत्वार्थवार्तिके
[ ३३६
प्रमाणानि । अमोघे सुस्थिता, सुप्रबुद्धे सुप्रणिधिः, मन्दिरे सुप्रबुद्धा, विमले यशोधरा, रुचके लक्ष्मीमती, रुचकोत्तरे कीर्तिमती, चन्द्रे वसुन्धरा, सुप्रतिष्ठे चित्रा । एता दिक्कुमार्यः इहागत्या मातृसमीपे आदर्शधारिण्योऽवतिष्ठन्ते । अपरस्यां लोहिताक्ष- जगत्कुसुमपद्म- नलिन- कुमुद-सौमनस-यशोभद्राख्यान्यष्टौ कूटानि पूर्वोक्तकूटतुल्यप्रमाणानि । लोहिताक्षे ५ इलादेवी, जगत्कुसुमे सुरादेवी, पद्मे पृथिवी, नलिने पद्मावती, कुमुदे कानना, सौमनसे 'नवमिका, यशसि यशस्विनी, भद्रकूट भद्रा । एता दिक्कुमार्य इहाऽऽगत्याऽर्हन्मातृसमीपे छत्राणि धारयन्त्यो गायन्त्य आसते । उदीच्यां स्फटिक अङ्क अञ्जन - काञ्चन-रजत-कुण्डलरुचिर -सुदर्शन संज्ञान्यष्टौ कूटानि पूर्वोक्तकूटतुल्यप्रमाणानि । स्फटिकेऽलंभूषा, असे मिश्रकेशी, अञ्जने पुण्डरीकिणी, काञ्चने वारुणी, रजत आशा, कुण्डले ह्री, रुचिरे श्रीः, सुदर्शने १० धृतिरिति । एता दिक्कुमार्यः प्रगृहीतचामरा अर्हन्मातृ: सेवन्ते । पूर्वादिषु दिक्षु पुनरपराणि
चत्वारि कूटानि विमल - नित्यालोक-स्वयंप्रभ- नित्योद्योतसंज्ञानि । पूर्वस्यां दिशि विमले चित्रा, दक्षिणस्यां नित्यालोके कनकचित्रा, अपरस्यां स्वयंप्रभे त्रिशिराः, उत्तरस्यां नित्योद्योते सूत्रमणिः । एता विद्युत्कुमार्यः इहाऽऽगत्य जिनमातृसमीपे भास्करवदुद्योतं कुर्वन्त्य आसते । विदिक्षु चत्वारि कूटानि वैड र्य रुचक - मणिप्रभ - रुचकोत्तमनामानि । पूर्वोत्तरस्यां वैड ये १५ रुचका, पूर्वदक्षिणस्यां रुचके रुचकाभा, अपरदक्षिणस्यां मणिप्रभे रुचकान्ता, अपरोत्तरस्यां रुचकोत्तमे रुचकप्रभा एता दिक्कुमारी महत्तरिकाः । विदिक्षु पुनरपराणि चत्वारि कूटानि रत्न - रत्नप्रभ-सर्वरत्न-रत्नोच्चयाख्यानि । पूर्वोत्तरस्यां रत्ने विजया, पूर्वदक्षिणस्यां रत्नप्रभे वैजयन्ती, अपरदक्षिणस्यां सर्वरत्ने जयन्ती, अपरोत्तरस्यां रत्नोच्चये अपराजिता । एता विदिक्कुमारी महत्तरिकाः । एता अष्टावपि महत्तरिका इह आगत्य तीर्थकराणां जातकर्माणि २० कुर्वन्ति । तान्येतानि विदिक्कुमारीणां महत्तरिकाणां च कूटानि द्वादशाप्येकयोजनसहस्रोत्सेधानि मूलमध्याग्रेषु एकसहस्राऽर्धाऽष्टमशतपञ्चशतविस्ताराणि । रुचकनगस्योपरि चतसृषु दिक्षु चत्वार्यर्हदायतनानि प्राङ्मुखान्यञ्जनाद्विजिनालयतुल्यप्रमाणानि । एवं द्विगुणद्विगुणवलयविष्कम्भा असंख्येया दीपसमुद्रा वेदितव्याः ।
२००
यो मानुषोत्तराद्विरुक्तः तस्मात्प्राग्भवन्तः गतिनामापेक्षाभिधानाः पूर्वोदिता द्विविधाः २५ कथमिति चेत् ? उच्यते
आर्या म्लेच्छाश्च ॥३६॥
आर्या द्विविधा ऋद्धिप्राप्तेतरविकल्पात् ॥ १॥ गुणैर्गुणवद्भिर्वा अर्थन्ते सेव्यन्ते इत्यार्याः । ते द्विविधाः ऋद्धिप्राप्तार्याः, अनृद्धिप्राप्तार्याश्चेति ।
अनृद्विप्राप्तार्याः पञ्चविधाः क्षेत्रजातिकर्मचारित्रदर्शनभेदात् |२| ये अनृद्धिप्राप्तार्यास्त ३० पञ्चविधा भवन्ति - क्षेत्रार्याः जात्यार्याः कर्मायाः चारित्रार्याः दर्शनार्याश्चेति । तत्र क्षेत्रार्याः काशीकोशलादिषु जाताः । इक्ष्वाकुज्ञातिभोजादिषु कुलेषु जाता जात्यार्याः । कर्मास्त्रेधा - सावद्यकर्मार्या अल्पसावद्यकर्मार्या असावद्यकर्मायश्चेिति । सावद्यकर्मार्याः
१ - से वनिका- भा० २ । ता०, श्र० । ४ विषकुमार्यः श्र० । श्रा०, ब०, ब० मु० मू० ।
Jain Education International
२ - केशा आ०, ब०, ६०, मु० । ३ रुचके प्रा०, ब० द०, भू०, ५ विद्युत्कुमारमह - प्रा०, ब०, ब०, मु०, मू० । ६ विद्युत्कुमा
For Private & Personal Use Only
www.jainelibrary.org