________________
३।३६ ]
तृतीयोऽध्यायः
२०१
शिल्प
षोढा - असि-मषी - कृषि - विद्या- शिल्प-वणिक्कर्मभेदात् । असिधनुरादिप्रहरणप्रयोगकुशला असिकर्मार्याः । द्रव्यायव्ययादिलेखननिपुणा मषीकर्मार्याः । 'हलकुलिदन्तालकादिकृष्युपकरणविधानविदः कृषीबलाः कृषिकर्मार्याः । आलेख्यगणितादिद्विसप्ततिकलावदाता' विद्याकर्मार्याः चतुःषष्टिगुणसम्पन्नाश्च । रजकनापिताऽयस्कारकुलाल सुवर्णकारादयः कर्मार्याः । चन्दनादिगन्धघृतादिरसशाल्यादिधान्यकार्पासाद्याच्छादनमुक्तादिनानाद्रव्यसंग्रह - ५ arrot बहुविधा afणक्कर्मार्याः । षडप्येते अविरतिप्रवणत्वात् सावद्यकर्मार्याः, अल्पसावद्य'कर्मार्याः श्रावकाः श्राविकाश्च विरत्यविरतिपरिणतत्वात्, असावद्यकर्मार्याः संयताः, कर्मक्षयार्थीद्यतविरतिपरिणतत्वात् । चारित्रार्या द्वेधा 'अधिगतचारित्रार्याः 'अनधिगम चारित्रायश्चेिति । तद्भेदः अनुपदेशोपदेशापेक्ष भेदकृतः । चारित्र मोहस्योपशमात् क्षयाच्च बाह्योपदेशापेक्षा आत्मप्रसादादेव चारित्रपरिणामास्कन्दिन उपशान्तकषायाः क्षीणकषायाश्चा' ऽधिगतचारि - १० त्रार्याः । अन्तश्चारित्र मोहक्षयोपशमसद्भावे सति बाह्योपदेशनिमित्तविरतिपरिणामा 'अनधिगमचारित्रार्याः । दर्शनार्या दशधा - आज्ञामार्गोपदेश सूत्रबीजसंक्षेपविस्तारार्थावगाढपरमावगाढरुचिभेदात् । तत्र भगवदर्हत्सर्वज्ञप्रणीताज्ञामात्रनिमित्तश्रद्धाना आज्ञारुचयः । निःसङ्गमोक्षमार्गश्रवणमात्रजनितरुचयो मार्गरुचयः । तीर्थकरबलदेवादिशुभचरितोपदेशहेतुकश्रद्धाना उपदेशरुचयः । प्रव्रज्या मर्यादाप्ररूपणाचारसूत्रश्रवणमात्रसमुद्भूतसम्यग्दर्शनाः सूत्ररुचयः । १५ बीजपदग्रहणपूर्वक सूक्ष्मार्थतत्त्वार्थश्रद्धाना बीजरुचयः । जीवादिपदार्थ समाससंबोधनसमुद्भूतश्रद्धानाः संक्षेपरुचयः । अङ्गपूर्वविषयजीवाद्यर्थ विस्तारप्रमाणनयादिनिरूपणोपलब्धश्रद्धाना विस्ताररुचयः । वचनविस्तारविरहितार्थग्रहणजनितप्रसादा अर्थरुचयः । आचारादिद्वादशाङ्गाऽभिनिविष्टश्रद्धाना अवगाढरुचयः । परमावधिकेवलज्ञानदर्शनप्रकाशितजीवाद्य"र्थविषयात्मप्रसादाः परमावगाढरुचयः ।
ऋद्धिप्राप्तार्या अष्टविधाः - बुद्धि-क्रिया विक्रिया- तपः- बल औषध-रस- क्षेत्रभेदात् |३| ऋद्धिप्राप्तार्या अष्टविधा भवन्ति बुद्धयादिविकल्पात् । तत्र बुद्धिरवगमो ज्ञानं तद्विषया अष्टादशविधाः ऋद्धयः- केवलज्ञानमवधिज्ञानं मनः पर्ययज्ञानं बीजबुद्धिः कोष्ठबुद्धिः पदानुसारित्वं संभिन्नश्रोतृत्वं दूरादास्वादनदर्शनस्पर्श न घ्राणश्रवणसमर्थता दशपूर्वित्वं चतुर्दशपूर्वित्वं अष्टाङ्गमहानिमित्तज्ञता प्रज्ञाश्रवणत्वं प्रत्येकबुद्धता वादित्वं चेति । तत्र केवलाअवधि मनः पर्यया व्या- २५ ख्याताः । सुकृष्टसुमयीकृते क्षेत्रे सारवति कालादिसहायापेक्षं बीजमेकमुप्तं यथा अनेकबीजकोटिप्रदं भवति तथा नोइन्द्रियश्रुतावरणवीर्यान्तरायक्षयोपशमप्रकर्षे सति एकबीजपदग्रहणादनेकपदार्थ प्रतिपत्तिर्बीजबुद्धिः । कोष्ठागारिकस्थापितानामसंकीर्णानामविनष्टानां भू. सां धान्यबीजानां यथा कोष्ठेऽवस्थानं तथा परोपदेशादवधारितानाम् अर्थग्रन्थबीजानां भूसामव्यतिकीर्णानां बुद्धाववस्थानं कोष्ठबुद्धिः । पदानुसारित्वं त्रेधा - अनुस्रोतः प्रतिस्रोतः उभयथा चेति । एकपदस्यार्थं परत उपश्रुत्यादौ अन्ते च मध्ये वा शेषग्रन्थार्थावधारणं
१ हलकुलीवरताल - मू० । हलकुलिशदन्ता- श्रा०, ब०, ५०, मु० । २ कुशलाः । ३ चतुर्णाश्च ० । चतुर्वर्णाश्च प्रा०, ब०, भु०, ४ कर्मार्याश्च भावका रतिविरतिप- मु०, प्रा०, ब० । ५ अभिगतचा- प्रा०, ब०, ब०, मु०, ता०, म० । ६ अनभिगतचा- आ०, ब०, प०, म०, ता० । ७-पेक्षाअ० । ८ - श्वाभिगत- आ०, ब०, ६०, मु० ता० ॥ ६ प्रनभिगतचा- प्रा०, ब, व०, भु०, ता० । १० - समानस- द० । - सामान्यसं- प्रा०, ब०, मु० । ११ - विषयप्रसा- प्रा०, ब, द० मु० । - विषयार्यप्र- ताः । १२ नोइन्द्रियावरणश्रुतावरण- प्रा०, ब०, मु०
२६
Jain Education International
For Private & Personal Use Only
२०
३०
www.jainelibrary.org