________________
तत्वार्थवार्तिके
[ ३।३६
पदानुसारित्वम् । द्वादशयोजनायामे नवयोजनविस्तारे चक्रधरस्कन्धावारे गजवाजिखरोष्ट्रमनुष्यादीनाम् अक्षरानक्षररूपाणां नानाविध शब्दानां युगपदुत्पन्नानां तपोविशेषबललाभापादितसर्वजीवप्रदेशश्रोत्रेन्द्रियपरिणामात् सर्वेषामेककालग्रहणं संभिन्नश्रोतृत्वम् । तपः शक्तिविशेषाविर्भावितासाधारणरसनेन्द्रियश्रुतावरण वीर्यान्तरायक्षयोपशमाङ्गोपाङ्गनामलाभापेक्षस्य ५ अवधृतनवयोजनक्षेत्राद् बहिर्बहुयोजनविप्रकृष्टक्षेत्रादायातस्य रसस्याऽऽस्वादन सामर्थ्यम् । एवं शेषेष्वपि इन्द्रियविषयेषु अवधूतक्षेत्राद् बहिर्ब हुयोजनप्रकृष्टदेशादायातेषु ग्रहणसामर्थ्यं योज्यम् । महारोहिण्यादिभिस्त्रिराग' ताभिः प्रत्येकमात्मीयरूपसामर्थ्याविष्करणकथन कुशलाभिर्वेगवतीभिर्विद्यादेवताभिरविचलितचारित्रस्य दशपूर्वदुस्तरसमुद्रोत्तरणं दशपूर्वित्वम् । संपूर्ण श्रुतकेवलिता चतुर्दशपूर्वित्वम् ।
तत्र
अङ्गप्रत्यङ्ग
अष्टौ महानिमित्तानि अन्तरिक्ष- भौम- अङ्ग - स्वर - व्यञ्जन- लक्षण - छिन्न- स्वप्ननामानि । विशशिग्रहनक्षत्र भगणोद्यास्तमयादिभिरतीतानागतफलप्रविभागप्रदर्शनमन्तरिक्षम् । भुवो घनशुषिरस्निग्वरूक्षादिविभावनेन पूर्वादिदिक्सूत्र निवासेन वा वृद्धिहानिजयपराजयादिविज्ञानं भूमेरन्तर्निहितसुवर्णरजतादिसंसूचनं च भौमम् । दर्शनस्पर्शनादिभिस्त्रिकालभाविसुखदुःखादिविभावन 'मङ्गम् । अक्षरानक्षरशुभाशुभशब्दश्रवणेनेष्टानिष्टफलाविर्भावनं महानिमित्तं स्वरम् । शिरोमुखग्रीवादिषु तिलकमशकलक्ष्म'व्रणादिवीक्षणेन त्रिकालहिता हितवेदनं व्यञ्जनम् । श्रीवृक्षस्वस्तिकभृङ्गारकलशादिलक्षणवीक्षणात् त्रैकालिकस्थानमानैश्वर्यादिविशेषज्ञानं लक्षणम् । वस्त्रशस्त्र छत्रोपानदासनशयनादिषु देवमानुषराक्षसादिविभागः शस्त्रकण्टकमूषिकादिकृत छेदनदर्शनात् कालत्रयविषयलाभालाभसुखदुःखादिसूचनं छिन्नम् । वातपित्तश्लेष्मदोषोदयरहितस्य पश्चिमरात्रिभागे चन्द्रसूर्यधराद्विसमुद्रमुखप्रवेशनस कलमही मण्डलोपगूहनादिशुभघृततैलाक्तात्मीयदेहख रक रभारूढापाग्दिग्गमनाद्यशुभस्वप्नदर्शनात् आगामिजीवितमरणसुखदुःखाद्याविर्भावकः स्वप्नः । एतेषु महानिमित्तेषु कौशलमष्टाङ्गमहानिमित्तज्ञता । अतिसूक्ष्मार्थतत्त्वविचारगहने चतुर्दशपूर्विण एव विषयेऽनुयुक्ते अनधीतद्वादशाङ्गचतुर्दशपूर्वस्य प्रकृष्टश्रुतावरणवीर्यन्तिरायक्षयोपशमावि - भूताऽसाधारण प्रज्ञाशक्तिलाभान्निःसंशयं निरूपणं प्रज्ञाश्रवणत्वम् । परोपदेशमन्तरेण स्वशक्तिविशेषादेव' ज्ञानसंयमविधाननिपुणत्वं प्रत्येकबुद्धता । शक्रादिष्वपि प्रतिबन्धिषु सत्स्वप्रतिहततथा निरुत्तराभिधानं पररन्ध्रापेक्षणं च वादित्वम् ।
क्रियाविषया ऋद्धिविधा - चारणत्वमाकाशगामित्वं चेति । तत्र चारणा अनेकविधाः
१०
१५
२०
२५
२०२
जलजङ्घातन्तुपुष्पपत्र श्रेण्यग्निशिखाद्यालम्बनगमनाः । जलमुपादाय वाप्यादिष्वप्कायान् Satara विराधयन्तः भूमाविव पादोद्धारनिक्षेपकुशला जलचारणाः । भुव उपर्याकाशे चतुर३० ङ्गुलप्रमाणे जङघोत्क्षेपनिक्षेपशीघ्रकरणपटवो बहुयोजनशताशुगमनप्रवणा जघाचारणाः । एवमितरे च वेदितव्याः । पर्यङ्कावस्थानिषण्णा वा कायोत्सर्गशरीरा वा पादोद्धारनिक्षेपणविधिमन्तरेण आकाशगमनकुशला आकाशगामिनः ।
विक्रियगोचरा ऋद्धिरनेकविधा - अणिमा महिमा लघिमा गरिमा प्राप्तिः प्राकाम्यमी - शित्वं वशित्वमप्रतिघातोऽन्तर्धानं कामरूपित्वमित्येवमादिः । तत्राणुशरीरविकरणमणिमा,
१ - विभिस्त्रिभिराग- प्रा०, ब०, मु० भ० । २ - माङ्गम् भ०, मू० । ३ -कमब्रह्मणाविप्रा०, ब०, मु० । सामुद्रिकलक्षण । ४ पुष्टे । ५ प्रज्ञाश्रमण- प्रा०, ब०, ब०, मु० भ० । ६ -ज्ञानसंयमविभाग िम०, ब०, ६०, मु०, ता० । ७ -नविरोध- ता० भ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org