________________
३।३६ ]
तृतीयोऽध्यायः
२०३
विसछिद्रमपि प्रविश्याऽऽसित्वा तत्र च चक्रवतपरिवारविभूति सृजेत् । मेरोरपि महत्तरशरीरविकरणं महिमा । वायोरपि लघुतरशरीरता लघिमा । वज्रादपि गुरुतरदेहता गरिमा । भूमौ स्थित्वाऽगुल्यग्रेण मेरुशिखरदिवाकरादिस्पर्शनसामध्यं प्राप्तिः । अप्सु भूमाविव गमनं भूमौ जल इवोन्मज्जननिमज्जनकरणं प्राकाम्यम् । त्रैलोक्यस्य प्रभुता ईशित्वम् । सर्वजीववशीकरणलब्धिर्वशित्वम् । अद्रिमध्ये वियतीव गमनागमनमप्रतीघातः । अदृश्यरूपशक्तितान्तर्धानम् । युगपदने काकाररूपविकरणशक्तिः कामरूपित्वमिति ।
तपोऽतिशर्याद्धः सप्तविधा - उग्र- दीप्त तप्त-महा-घोर तपो-वीरपराक्रम-घोरब्रह्मचर्यं भेदात् । चतुर्थषष्ठाष्टमदशमद्वादशपक्षमासाद्यनशनयोगे ष्वन्यतमयोगमारभ्य आमरणादनिवर्तका उग्रतपसः । महोपवासकरणेऽपि प्रवर्धमानकायवाङ्ङमानसबलाः विगन्धरहितवदनाः पद्मोत्पलादिसुरभि निश्वासा अप्रच्युतमहादीप्तिशरीरा दीप्ततपसः । तप्तायसकटाहपतितजलकणवदाशु- १० शुष्काल्पाहारतया मलरुधिरादिभावपरिणामविरहिताभ्यवहाराः तप्ततपसः । सिंहनिष्क्रीडितादिमहोपवासानुष्ठानपरायणायतयो महातपसः । वातपित्त श्लेष्मसन्निपातसमुद्भूतज्वरकासश्वा• साक्षि शूलकुष्ठप्रमेहादिविविधरोगसन्तापितदेहा अपि अप्रच्युताऽनशनकायक्लेशादितपसो भीमश्मशानाद्रिमस्तकगुहादरीकन्दरशून्यग्रामादिषु प्रदुष्टयक्ष राक्षस पिशाच' प्रनृत्त वेतालरूपविकारेषु परुषशिवारुतानुपरतसिंहव्याघ्रादिव्यालमृगभीषणस्वनघोरचौरादिप्रचरितेष्वभिरुचितावासाश्च १५ घोरतपसः । त एव गृहीततपोयोगवर्धनपरा घोरपराक्रमाः । चिरोषिताऽस्खलितब्रह्मचर्यवासाः प्रकृष्टचारित्रमोहनी यक्षयोपशमात् प्रणष्टदुःस्वप्ना घोरब्रह्मचारिणः ।
बलालम्बना ऋद्धिस्त्रिविधा- "मनोवाक्कायभेदात् । तत्र मनः श्रुतावरणवीर्यान्तरायक्षयोपशमप्रकर्षे सत्यन्तर्मुहूर्ते सकलश्रुतार्थचिन्तनेऽवदाता मनोबलिनः । मनोजिह्वाश्रुतावरणवीर्यान्तरायक्षयोपशमातिशये सत्यन्तर्मुहूर्ते सकलश्रुतोच्चारणसमर्थाः सततमुच्चैरुच्चारणे २० सत्यपि श्रमविरहिता अहीनकण्ठाश्च वाग्बलिनः । वीर्यान्तरायक्षयोपशमाविर्भूताऽसाधारणकायबलत्वात् मासिकचातुर्मासिकसांवत्सरिकादिप्रतिमायोगधारणेऽपि
श्रमक्लमविरहिताः
कायबलिनः ।
औषधद्धरष्टविधा - असाध्यानामप्यामयानां सर्वेषां विनिवृत्तिहेतुरामर्शवेलजल्लमलविसवो षधिप्राप्तास्याविषदृष्ट्यविषविकल्पात् । आमर्शः संस्पर्शः, यदीयहस्तपादाद्यामर्श २५ औषधिप्राप्तो यस्ते आमश षधिप्राप्ताः । क्ष्वेलो निष्ठीवनमौषधिर्येषां ते क्ष्वेलोषधिप्राप्ताः । स्वेदालम्बनो रजोनिचयो जल्लः, स औषधिप्राप्तो येषां ते जल्लोषधिप्राप्ताः । कर्णदन्तनासाक्षिसमुद्भवं मलं औषधिप्राप्तं येषां ते मलौषधिप्राप्ताः । विडुच्चार औषधिर्येषां ते विडोषधिप्राप्ताः । अङ्गप्रत्यङ्गनखदन्तकेशादिरवयवः तत्संस्पर्शी वाय्वादिस्सर्वं औषधि - प्राप्तो येषां ते सर्वोषधिप्राप्ताः । उग्रविषसंपृक्तोऽप्याहारो येषामास्यगतो निर्विषीभवति यदीयास्यनिर्गतवचः श्रवणाद्वा महाविषपरीता अपि निर्विषीभवन्ति ते आस्याविषाः । येषामालोकनमात्रादेवांतितीव्र विषदूषिता अपि सन्तः विगतविषा भवन्ति ते दृष्ट्यविषाः ।
३०
रसद्धिप्राप्तार्याः षड्विधाः - आस्यविषा दृष्टिविषाः क्षीरास्रविणः मध्वास्रविणः सर्पिरात्रविण: अमृतास्रविणश्चेति । प्रकृष्टतपोबला यतयो यं ब्रुवते म्रियस्वेति स तत्क्षण एव महाविष
१ - तरशरीरता प्रा०, ४०, ६०, मु० । २ - गमनमप्र४ - प्रवृतवे- प्रा०, ब०, ब०, मू०, ता० । ५-स्त्रिधा आ०,
Jain Education International
५
For Private & Personal Use Only
भ०, मू० । ३ - दशमय- श्र० । ब०, द०, मु०, ता० ।
www.jainelibrary.org