________________
२०४ तत्त्वार्थवार्तिके
[१३७ परीतो म्रियते, ते आस्यविषाः । उत्कृष्टतपसो यतयः क्रद्धा यमीक्षन्ते स तदेवोगविषपरीतो म्रियते ते दृष्टिविषाः। विरसमप्यशनं येषां पाणिपुटनिक्षिप्तं क्षीररसगुणपरिणामि जायते, येषां वा वचनानि क्षीरवत्क्षीणानां सन्तर्पकाणि भवन्ति ते क्षीरास्रविणः । येषां पाणिपुटपतित
आहारो नीरसोऽपि मधुरसवीर्यपरिणामो भवति, येषां वचांसि श्रोतृणां दुखादितानामपि ५ मधुगुणं पुष्णन्ति ते मध्वास्रविणः । येषां पाणिपात्रगतमन्नं रूक्षमपि सीरसवीर्यविपाकानाप्नो
ति, सपिरिव वा येषां भाषितानि प्राणिनां संतर्पकाणि भवन्ति ते सपिरास्रविणः। येषां पाणिपुटप्राप्तं भोजनं यत्किञ्चिदमृततामास्कन्दति, येषां वा व्याहृतानि प्राणिनाम् अमृतवदनुग्राह. काणि भवन्ति तेऽमृतास्रविणः ।
क्षेत्रद्धिप्राप्तार्या द्वेधा-अक्षीणमहानसा अक्षीणमहालयाश्चेति । लाभान्तरायक्षयोपशमप्र१० कर्षप्राप्तभ्यो यतिभ्यो यतो भिक्षा दीयते ततो भाजनाच्चक्रधरस्कन्धावारोऽपि यदि भुजीत
तदिवसे नान्नं क्षीयते ते अक्षीणमहानसाः । अक्षीणमहालयलब्धिप्राप्ता यतयो यत्र वसन्ति देवमनुष्यतैर्यग्योना यदि सर्वेऽपि तत्र निवसेयुः परस्परमबाधमानाः सुखमासते। त एते सर्वे ऋद्धिप्राप्तार्याः ।
__म्लेच्छा द्विविधा अन्तरद्वीपजाः कर्मभूमिजाश्चेति ।४। म्लेच्छा द्विविधा वेदितव्याः-अन्त१५ रद्वीपजाः कर्मभूमिजाश्चेति । तत्रान्तरद्वीपाः लवणोदधेरष्टासु दिक्ष्वष्टो, 'तदन्तरेषु चाष्टो।
हिमवच्छिखरिणोरुभयोश्च विजयाईयोरन्तेष्वष्टौ। तत्र दिक्षु द्वीपा वेदिकायास्तिर्यक्पञ्चयोजनशतानि प्रविश्य भवन्ति । विदिक्ष्वन्तरेषु च द्वीपाः पञ्चाशेषु पञ्चयोजनशतेषु गतेषु भवन्ति । शलान्तेषु द्वीपाः षट्षु योजनशतेषु गतेषु भवन्ति । दिक्ष द्वीपाः शतयोजनविस्तीर्णाः,
विदिक्ष्वन्तरेषु च द्वीपाः तदर्धविष्कम्भाः। शैलान्तेषु पञ्चविंशतियोजनविस्ताराः । २० तत्र पूर्वस्यां दिशि एकोरुकाः । अपरस्यां लाङगूलिनः । उत्तरस्यामभाषकाः । दक्षिणस्यां
विषाणिनः । शशकर्णशष्कुलीकर्णकर्णप्रावरणलम्बकर्णाः विदिक्षु। अश्व-सिंह-श्व-महिषवराह-व्याघ्र-उलूक-कपिमुखा अन्तरेषु । मेघविद्युन्मुखाः शिखरिण उभयोरन्तयोः। मत्स्यमुखाः कालमुखा हिमवत उभयोरन्तयोः। हस्तिमुखादर्शमुखा उत्तरविजयाधस्योभयोरन्तयोः । गोमुखमेषमुखा दक्षिणविजयार्धस्योभयोरन्तयोः। एकोरुका मृदाहारा गुहावासिनः शेषाः पुष्पफलाहाराः वृक्षवासिनः । सर्वे ते पल्योपमायुषः । ते चतुर्विशतिरपि द्वीपा जलतलादेकयोजनोत्सेधाः । तथा कालोदेऽपि वेदितव्याः । त एते अन्तरद्वीपजा म्लेच्छाः । कर्मभूमिजाश्च शक-यवन-शबर-पुलिन्दादयः ।
काः पुनः कर्मभूमय इति ? अत आह
भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥३०॥ ___ अथवा, मोक्षमार्गस्त्रितयः प्रकृतः। स किं सर्वेषु क्षेत्रेषु भवति ? न इत्याह कर्मभूमिष्वेव । कुत एतत् ? भोगभूमिषु हि यद्यपि मनुष्याणां ज्ञानदर्शने स्तः चारित्रं तु नास्ति अविरतभोगपरिणामित्वात् । यद्येवं कास्ताः कर्मभूमयः इति ? अतस्तत्प्रतिपादनार्थमिदमुच्यते।
___ कर्मभूमय इति विशेषणानुपपत्तिः सर्वत्र कर्मणो व्यापारात् ।१। अष्टविधस्य कर्मणो बन्धस्तत्फलानुभवनं च सर्वेष्वेव मनुष्यक्षेत्रेषु साधारणः। अतः कर्मभूमय इति विशेषणं ३५ नोपपद्यते?
१ तवन्तरे चाष्टौ प्रा०, २०, २०, मु० ।
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org