________________
३२३८] तृतीयोऽध्यायः
२०५ न वा; प्रकृष्टशुभाशुभकर्मोपार्जननिर्जराधिष्ठानोपपत्तः ।२। न वा एष दोषः । कि कारणम् ? यतः प्रकृष्टं शुभकर्म सर्वार्थसिद्धिसौख्यप्रापकं तीर्थकरत्वमहद्धिनिर्वर्तकं वा असाधारणम् । अशुभकर्म च प्रकृष्टं कलङ्कलपृथिवीमहादुःखप्रापकम् अप्रतिष्ठाननरकगमनं च कर्मभूमिष्वेवोपाय॑ते द्रव्य-भव-क्षेत्र-काल-भावापेक्षत्वात् कर्मबन्धस्य । 'सकलसंसारकारणनिर्जराकर्म चात्रैव प्रवर्तते । ततो भरतादिष्वेव कर्मभूमय इति युक्तो व्यपदेशः ।।
षट्कर्मदर्शनाच्च ।३। षण्णां कर्मणाम् असि-कृषि-मषी-विद्या-वणिक्-शिल्पानामत्रव दर्शनाच्च कर्मभूमिव्यपदेशो युक्तिमान् ।
अन्यत्रशब्दः परिवर्जनार्थः ।४। यथा 'न क्वचित्सर्वदा सर्वविस्रम्भगमनं नयः अन्यत्र धर्मात्' तस्य अन्यो मार्ग एव न विद्यते इति धर्म वर्जयित्वा अर्थकामयोरविसम्भगमनं नयः, धर्मे तु विस्रम्भ एव कार्य इति, एवमिहापि 'विदेहाः कर्मभूमयः' इत्युक्ते विदेहाभ्यन्तरत्वाद्देव- १० कुरुत्तरकुरूणामपि कर्मभूमित्वप्रसङ्गे अन्यत्रवचनाद् देवकुरूतरकुरुभ्योऽन्ये विदेहाः कर्मभूमयः, देवकुरूत्तरकुरवो हैमवतादयश्च भोगभूमय इति वेदितव्याः। सर्वास्वेव भूमिषु मनुष्याणां स्थितिपरिच्छेदार्थमाह
नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते ॥३८॥ यथासंख्यमभिसंबन्धः ।। त्रिपल्योपमान्तमुहूर्तयोर्यथासंख्यमभिसंबन्धो वेदितव्यः-परा १५ नृस्थितिः त्रिपल्योपमा, अपरा अन्तर्मुहूर्ता इति । त्रीणि पल्यानि उपमा यस्याः स्थितेः सा त्रिपल्योपमा । अन्तर्गतो मुहूर्तो यस्याः सा अन्तर्मुहूर्ता। अत्राह-किमिदं पल्यं नाम इति ? उच्यते-तत्परिच्छेदः प्रमाणविधिनिर्णयपुरस्सर इति प्रमाणविधिरेव तावदुच्यते ।।
प्रमाणं द्विविधं लौकिकलोकोत्तरभेदात् ।२। लौकिकं लोकोत्तरमिति प्रमाणं द्वेधा विभज्यते।
लौकिकं षोढा मानोन्मानाबमानगणनाप्रतिमानतत्प्रमाणभेदात् ।। लौकिकं मानं षोढा विभज्यते-मानमन्मानमवमानं गणना प्रतिमानं तत्प्रमाणं चेति । तत्र मानं द्वधा-रसमानं बीजमानं चेति । घृतादिद्रव्यपरिच्छेदकं षोडशिकादि रसमानम् । कुडवादि बीजमानम् । कुष्ठतगरादिभाण्ड येनोत्क्षिप्य मीयते तदुन्मानम् । निवर्तनादिविभागेन क्षेत्रं येनावगाह्य मीयते तदवमानं दण्डादि । एकद्वित्रिचतुरादिगणितमानं गणनामानम् । पूर्वमानापेक्षं मानं प्रति- २५ मानं प्रतिमल्लवत् । चत्वारि 'महिधिकातृणफलानि श्वेतसर्षप एकः, षोडशसर्षपफलानि
१-द्धिकनि- श्र०। २-चासा- प्रा०, ब०, मु०। ३ सकलं च सं-पा०, ब०, द०, मु०। ४ प्रतो मा० ब०, मु०। ५ अत्र कश्चिदाह यदि प्रोक्तलक्षणविशेषसद्भावात् भरतादीनामेव कर्मभूमित्वं प्रतिपाद्यते तहि स्वयम्भूरमणजमत्स्यविशेषाणां कथं सप्तमनरकगमन मिति ? उच्यते- स्वयम्भरमणद्वीपमध्ये अन्तीपार्षकारी मानषोत्तराकृतिः स्वयम्प्रभनगवरो नाम नगो व्यवस्थितः तस्य अर्वाग्भागे प्रामानषोत्तरात भोगामिविभागः । तत्र चतुर्गणस्थानतिनः तिर्यञ्चः सन्ति। परभागे त्वालोकान्तात् कर्मभूमिविभागः । तत्र च पञ्चमगुणस्थानतिनः तियंञ्चः सन्ति । ततस्तस्य कर्मभूमित्वात् नोक्तदोषप्रसङ्गः। कथमन्यथा 'तत्र पूर्वकोप्यायकत्वमन्यत्रासंख्येयवर्षायुष्कत्वम्' इत्यागमो घटते । ६ अन्तर्गों मु-पा०, ब०, २० म०। 'अन्तर्गतोऽपरिपुर्णो मुहतों यस्याः सा अन्तमुहूर्ता।" -त०, श्रु० ३१३८ । ७प्रागक्तमानोन्मानापेक्षया प्रतिनिधिरूपमित्यर्थः । तुलान्तयोरेकस्मिन् भाण्डरूपमेयं स्थापयित्वा अन्यतरस्मिन स्थाप्यं यद गजादि यच्च कडवाविनिश्चायकं पिण्डादि तवयं प्रतिमानम् । ६ महाधिकत-मु०, ब०। महाधिकात-पा० । महाधिकात- २० । महिरिकात- मू०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org