________________
तत्त्वार्थवार्तिके
[ ३३८
धान्यमाषफलमेकम्, द्वे धान्यमाषफले गुञ्जाफलमेकम्, द्वे गुञ्जाफले रूप्यमाष एकः, षोडशरूप्यमाषकाः धरणमेकम्, अर्धतृतीयधरणानि सुवर्णः, स च कंसः, चत्वारः कंसाः पलम्, पलशतं तुला, अर्धकंसः त्रीणि च पलानि कुडवः, चतुःकुडवः प्रस्थः, चतुःप्रस्थ माढकम्, चतुराढकं द्रोणः, षोडश द्रोणा खारी, विंशति खार्यो वाह इत्यादि 'मागधकप्रमाणम् । मणिजात्यश्वादेर्द्रव्यस्य ५ दीप्त्युच्छ्राय गुणविशेषादिमूल्यपरिमाणकरणे प्रमाणमस्येति तत्प्रमाणम् । तद्यथा - मणिरत्नस्य दीप्तिर्यावक्षेत्रमुपरि व्याप्नोति तावत्प्रमाणं सुवर्णकूटं मूल्यमिति । अश्वस्य च यावानुच्छ्रायस्तावत्प्रमाणं सुवर्णकूटं मूल्यम् । यावता रत्नस्वामिनः परितोषः तावद्रत्नमूल्यम् एवमन्येषामपि द्रव्याणाम् ।
लोकोत्तरं चतुर्धा द्रव्यक्षेत्र कालभावभेदात् |४| लोकोत्तरं प्रमाणं चतुर्धा भिद्यते । १० कुतः ? द्रव्यक्षेत्र कालभावभेदात् । तत्र द्रव्यप्रमाणं जघन्यमध्यमोत्कृष्टम् एकपरमाणु द्वित्रिचतुरादिप्रदेशात्मकम् आमहास्कन्धात् । क्षेत्रप्रमाणं जघन्यमध्यमोत्कृष्टमेकाकाशद्वित्रिचतुरादिप्रदेशनिष्पन्नमा सर्वलोकात् । कालप्रमाणं जघन्यमध्यमोत्कष्टमेकद्वित्रिचतुरादिसमयनिष्पन्नम् आ अनन्तकालात् । भावप्रमाणमुपयोगः साकाराऽनाकारभेदः जघन्यः सूक्ष्मनिगोतस्य, मध्यमो - ऽन्यजीवानाम्, उत्कृष्टः केवलिनः ।
२०६
१५
तत्र द्रव्यप्रमाणं द्वेषा संख्योपमाभेदात् ॥५॥ संख्याप्रमाणमुपमाप्रमाणं चेति द्वेधा द्रव्यप्रमाणं विभज्यते । तत्र संख्याप्रमाणं त्रिधा संख्येयासंख्येयानन्तभेदात् । तत्र संख्येयप्रमाणं त्रेधा, इतरे द्वे नवधा नवधा ज्ञेये । जघन्यमजघन्योत्कृष्टमुत्कृष्टं चेति संख्येयं त्रिविधम् । संख्येयप्रमाणावगमार्थ जम्बूद्वीप तुल्यायामविष्कम्भा योजनसहस्रावगाहः बुद्धया कुशूलाश्चत्वारः कर्तव्याः - शलाका - प्रतिशलाका - महाशलाकाख्यास्त्रयोऽवस्थिताः चतुर्थोऽनवस्थितः । अत्र द्वो २० सर्षपौ निक्षिप्तो जघन्यमेतत्संख्येयप्रमाणम्, तमनवस्थितं सर्षपैः पूर्ण गृहीत्वा कश्चिद् देवः एकैकं सर्वमेकस्मिन् द्वीपे समुद्रे च प्रक्षिपेत् तेन विधिना स रिक्तः । रिक्त इति शलाकाकुशले एकं सर्षपं प्रक्षिपेत् । यत्र अन्त्यसर्षपो निक्षिप्तस्तमवधिं कृत्वा अनवस्थितं कुशूलं परिकल्प्य सर्षपैः पूर्ण कृत्वा ततः परेषु द्वीपसमुद्रेष्वेकैकसर्षपप्रदानेन स रिक्तः कर्तव्यः । रिक्त इति शलाकाकुले पुनरेकं प्रक्षिपेत् । अनेन विधिना अनवस्थितकुशूलपरिवर्धनेन शलाकाकुले २५ परिपूर्ण, पूर्ण इति प्रतिशलाकाकुशूले एकः सर्षपो निक्षेप्तव्यः । एवं तावत्कर्तव्यो यावत्प्रतिशलाकुशूल: परिपूर्णो भवति । परिपूर्णे इति महाशलाका कुशूले एकः सर्षपः प्रक्षेप्तव्यः । सोऽपि तथैव' परिपूर्णः । एवमेतेषु चतुर्ष्वपि पूर्णेषु उत्कृष्टसंख्येयमतीत्य जघन्यपरीतासंख्येयं गत्वैकं रूपं पतितम्, ततः एकस्मिन् रूपे अपनीते उत्कृष्टसंख्येयं भवति । मध्यममजघन्योत्कृष्टसंख्येयम् । यत्र संख्येयेन प्रयोजनं तत्राजघन्योत्कृष्टसंख्येयं ग्राह्यम् ।
यदसंख्येयं तत्त्रिविधं परीतासंख्येयं युक्तासंख्येयं असंख्येयासंख्येयं चेति । तत्र परीतासंख्येयं त्रिविधं जघन्योत्कृष्टमध्यमभेदात् । एवमितरे चाऽसंख्येये भिद्येते ।
I
तथा अनन्तमपि त्रिविधं परीतानन्तं युक्तानन्तं अनन्तानन्तं चेति । तदपि प्रत्येकं पूर्ववस्त्रिधा भेद्यम् । यज्जघन्यपरीतासंख्येयं तद्विरलीकृत्य मुक्तावलीकृता अत्रैकैकस्यां मुक्तायां जघन्यपरीता संख्येयं देयम् । एवमेतद्वगितम् । प्राथमिकीं मुक्तावलीमपनीय "यान्येकैकस्यां मुक्तायां जघन्यपरीतासंख्येयानि दत्तानि तानि संपिण्ड्य मुक्तावली कार्या । ततो यो जघन्य
३०
१ कुडुवः ता० भ०, मू० । २ नागरिकप्र- प्रा०, ब०, द०, मु० । मागधिकप्र - ता० । ३ नवधा ज्ञेये प्रा०, ब०, ६०, मु० । ४ पूर्णः श्र० म० । ५ यानेकैकस्याम् श्र० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org