________________
तृतीयोऽध्यायः
२०७
परीतासंख्येयसंपिण्डनान्निष्पन्नो राशिः स देयः एकैकस्यां मुक्तायाम् । एवमेतत्संवगतम् उत्कृष्टपरीतासंख्येयमतीत्य जघन्ययुक्तासंख्येयं गत्वा पतितम् । अत एकरूपेऽपनीते उत्कृष्टपरीतासंख्येयं भवति । मध्यम जघन्योत्कृष्टपरीतासंख्येयम् ! यत्रावलिकया कार्य तत्र जघन्ययुक्तासंख्येयं ग्राह्यम् । यज्जघन्ययुक्तासंख्येयं तद्विरलीकृत्य मुक्तावली रचिता । तत्रैकैकमुक्तायां जघन्ययुक्तासंख्येयानि देयानि । एवमेतत् सकृद्वगितमुत्कृष्टयुक्तासंख्ये यमतीत्य जघन्याऽसंख्ये- ५ या संख्येयं गत्वा पतितम्, तत एकरूपेऽपनीते उत्कृष्टं युक्तासंख्येयं भवति मध्यममजघन्योत्कृष्ट
संख्येयं भवति । यज्जघन्याऽसंख्येयासंख्येयं तद्विरलीकृत्य पूर्वविधिना त्रीन्वारान् वर्गितसंवर्गितं उत्कृष्टासंख्येयासंख्येयं प्राप्नोति । ततो धर्माधर्मे कजीवलोकाकाशप्रत्येकशरीरजीवबादरनिगोतशरीराणि षडप्येतान्यसंख्येयानि स्थितिबन्धाध्यवसायस्थानान्यनुभागबन्धाध्यवसायस्थानानि योगाविभागपरिच्छेदरूपाणि चासंख्येयलोकप्रदेशपरिमाणान्युत्सर्पिण्यवसर्पिणीसमयांश्च १० प्रक्षिप्य पूर्वोक्तराशौ त्रीन्वारान् वर्गितसंवर्गितं कृत्वा उत्कृष्टाऽसंख्येयाऽसंख्येयमतीत्य जघन्यपरीतानन्तं गत्वा पतितम् । तत एकरूपेऽपनीते उत्कृष्टाऽसंख्येयाऽसंख्येयं भवति । मध्यममजघन्योत्कृष्टाऽसंख्येयाऽसंख्येयं भवति । यत्रासंख्येयाऽसंख्येयेन प्रयोजनं तत्राऽजघन्योत्कृष्टाऽसंख्येयाऽसंख्येयं ग्राह्यम् । यज्जघन्यपरीतानन्तं तत्पूर्ववद्वगतसंवर्गित मुत्कृष्टपरीतानन्तमतीत्य जघन्ययुक्तानन्तं गत्वा पतितम् । तत एकरूपेऽपनीते उत्कृष्टपरीतानन्तं तद्भवति । मध्यममजघ - १५ न्योत्कृष्टपरीतानन्तम् । अभव्यराशिप्रमाणमार्गणे जंघन्ययुक्तानन्तं ग्राह्यम् । यज्जघन्ययुक्तानन्तं तद्विरलीकृत्यात्रैकैकरूपे जघन्ययुक्तानन्तं दत्त्वा सकृद्वगितमुत्कृष्टयुक्तानन्तमतीत्य जघन्यमनन्तानन्तं गत्वा पतितम् । तत एकरूपेऽपनीते उत्कृष्टयुक्तानन्तं भवति । मध्यममजघन्योत्कृष्टयुक्तानन्तम् । यज्जघन्याऽनन्ताऽनन्तं तद्विरलीकृत्य पूर्ववत्त्रीन्वारान् वर्गितसंवर्गितमुत्कृष्टाऽनन्ताऽनन्तं न प्राप्नोति, ततः सिद्धनिगोतजीववनस्पतिकायातीताऽनागतकालसमय सर्वपुद्ग- २० लसर्वाऽऽकाशप्रदेशधर्माधर्मान्तिकायाऽगुरुलघुगुणानन्तान् प्रक्षिप्य प्रक्षिप्य त्रीन् वारान् वर्गितसंवर्गिते कृते उत्कृष्टाऽनन्ताऽनन्तं न प्राप्नोति, ततोऽनन्ते केवलज्ञाने दर्शने च प्रक्षिप्ते उत्कृष्टाऽनन्ताऽनन्तं भवति । तत एकरूपेऽपनीतेऽजघन्योत्कृष्टाऽनन्ताऽनन्तं भवति । यत्राऽनन्ताऽनन्तमार्गणा'तत्राजघन्योत्कृष्टाऽनन्ताऽनन्तं ग्राह्यम् ।
३श३८ ]
उपमाप्रमाणमष्टविधं पल्यासागर सूचीप्रतरघनाङगुल जगच्छे, गोलोकप्रतरलोकभेवात् ॥ ६ ॥ २५ अन्तादिमध्यहीनः अविभागोऽतीन्द्रियः एकरसव'र्णगन्धः द्विस्पर्शः परमाणुः । अनन्तानन्तपरमासंघातपरिमाणादाविर्भूता उत्संज्ञासंज्ञका । अष्टावुत्संज्ञासंज्ञासंहताः संज्ञासंज्ञका । अष्टो संज्ञासंज्ञा एकत्रुटिरेणुः । अष्टौ त्रुटिरेणवः संहताः एकस्त्रसरेणुः । अष्टौ त्रसरेणवः संहताः एको रथरेणुः । अष्टौ रथरेणवः संहताः एका देवकुरूत्तरकुरुमनुजकेशाग्रकोटी भवति । ता ret समुदिता एका रम्यकहरिवर्षमनुजकेशाग्र कोटी भवति । अष्टी ताः संहता: हैरण्यवत- ३० हैमवतमनुजकेशाकोटी भवति । ता अष्टौ संपिण्डिताः भरतैरावतविदेहमनुज केशाग्रकोटी भवति । ता अष्टौ संहता एका लिक्षा भवति । अष्टौ लिक्षा संहता एका यूका भवति । अष्टौ यूका एकं यवमध्यम् । अष्टौ यवमध्यानि एकमङगुलमुत्सेधाख्यम् । एतेन नारकर्तर्यग्योनानां देवमनुष्याणामकृत्रिम जिनालयप्रतिमानां च देहोत्सेधो मातव्यः । तदेव पञ्चशतगुणितं
१ - त्वा पतितमेकरूपं तत एकरूपे मु० प्रा०, ब० । पतितं तत एकरूपे द० । -त्वा एकरूपपतितम् अतः भा० २ । २ - त्वा एकरूपं पति- भा० २ । ३ - मार्गणं प्रा०, ब०, मु० । ४ - गन्धवर्णः मु०, प्रा०, ब० ।
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org