________________
२०८
तरवार्थवार्तिके
[३३३० प्रमाणाङगुलं भवति । एतदेव चावसर्पिण्यां प्रथमचक्रधरस्याऽऽत्माङगुलं भवति । तदानीं तेन ग्रामनगरादिप्रमाणपरिच्छेदो ज्ञेयः । इतरेषु युगेषु मनुष्याणां यद्यदात्माङगुलं तेन तेन तदा ग्रामनगरादिप्रमाणपरिच्छेदो ज्ञेयः । यत्तत्प्रमाणाङगुलं तेन द्वीपसमुद्रजगतीवेदिकापर्वतविमाननरकप्रस्ताराद्यकत्रिमद्रव्यायामविष्कम्भादिपरिच्छेदोऽवसेयः । तत्र षडङगुल: पाद: । द्वाद५ शाङगुलो वितस्तिः । द्विवितस्तिः हस्तः । द्विहस्त: किष्कुः । द्विकिष्कुर्दण्डः । द्वे दण्डसहस्रे गव्यूतम् । चतुर्गव्यूतं योजनम् ।।
पल्यं त्रिविधं व्यवहारोद्धाराद्धाविकल्पादन्वर्यात् ।७। व्यवहारपल्यम् उद्धारपल्यम् अद्धापल्यमिति त्रिधा पल्यं विभज्यते । अन्वर्थश्चायं विकल्पः। आद्यं व्यवहारपल्यमुत्तरपल्यव्यवहारबीजत्वान्नानेन किञ्चित्परिच्छेद्यमस्ति । द्वितीयमुद्धारपल्यंतत उद्धृतर्लोमच्छेदैर्वीपसमुद्रसंख्यानिर्णय इति । तृतीयमद्धापल्यं अद्धाकाल इत्यर्थः। अतो हि स्थितेः परिच्छेदः इति । तद्यथा-प्रमाणाङगुलपरिमितयोजनायामविष्कम्भावगाहानि त्रीणि पल्यानि कुशूला इत्यर्थः । एकादिसप्तान्ताहोरात्रिजाताविकलोमाग्राणि तावच्छिन्नानि यावद् द्वितीयं कर्तरीच्छेदं नावाप्नुवन्ति । तादृशेर्लोमच्छेदैः परिपूर्ण धनीकृतं व्यवहारपल्यमित्युच्यते । ततो वर्षशते 'वर्षशते अतीते
एकैकलोमापकर्षणविधिना यावता कालेन तद्रिक्तं भवेत् तावत्कालो व्यवहारपल्योपमाख्यः । १५ तैरेव रोमच्छेदैः प्रत्येकमसंख्येयवर्षकोटिसमयमात्रच्छिन्नैः पूर्णमुद्धारपल्यम् । ततः समये समये
एकैकस्मिन् रोमच्छेदेऽपकृष्यमाणे यावता कालेन तद्रिक्तं भवेत् तावत्काल: उद्धारपल्योपमाख्यः । एषामुद्धारपल्यानां दशकोटीकोट्यः एकमुद्धारसागरोपमम् । अर्धतृतीयोद्धारसागरोपमाणां यावन्तो रोमच्छेदास्तावन्तो द्वीपसमुद्राः । पुनरुद्धारपल्यरोमच्छेदैर्वर्षशतसमयमात्र
च्छिन्नैः पूर्णमद्धापल्यम् । ततः समये समये एककस्मिन् रोमच्छेदेऽपकृष्यमाणे यावता कालेन २० तद्रिक्तं भवति तावत्काल: अद्धापल्योपमाख्यः । एषामद्धापल्यानां दशकोटीकोटय एकमद्धासा
गरोपमम् । दशाद्धासागरोपमकोटीकोट्य एकाऽवसर्पिणी, तावत्येवोत्सर्पिणी। अनेन अद्धापल्येन नारकतर्यग्योनानां देवमनुष्याणां च कर्मस्थितिर्भवस्थितिरायुःस्थितिः कायस्थितिश्च परिच्छेत्तव्या । अद्धापल्यस्याऽर्द्धच्छेदेन शलाकाविरलीकृत्य प्रत्येकमद्धापल्यप्रदानं कृत्वा
अन्योऽन्यगुणिते कृते यावन्तश्छेदास्तावद्भिराकाशप्रदेशमुक्तावली कृता सूच्यङगुलमित्युच्यते । २५ तदेवाऽपरेण सूच्यङगुलेन गुणितं प्रतराङगुलम् । तत्प्रतराङगुलमपरेण सूच्यङगुलेनाऽभ्यस्तं'
घनाङगुलम् । असंख्येयानां वर्षाणां यावन्तः समयास्तावत्खण्डमद्धापल्यं कृतम्, ततोऽसंख्येयान् खण्डानपनीयाऽसंख्येयमेकं भागं बुद्धया विरलीकृत्य एककस्मिन् घनाङगुलं दत्त्वा 'परस्परेण गुणिता' जाता जगच्छृणी। सा अपरया जगच्छ् ण्या अभ्यस्ता प्रतरलोकः । स एवाऽपरया जगच्छ् ण्या संवर्गितो घनलोकः ।
क्षेत्रप्रमाणं द्विविधम्-अवगाहक्षेत्रं विभागनिष्पन्नक्षेत्रं चेति । तत्रावगाहक्षेत्रमनेकविधम्-एकद्वित्रिचतुःसंख्येयाऽसंख्येयाऽनन्तप्रदेशपुद्गलद्रव्यावगाह्येकाद्यसंख्येयाकाशप्रदेशभेदात् । विभागनिष्पन्नक्षेत्रं चाऽनेकविधम्-असंख्येयाकाशश्रेणयः, क्षेत्रप्रमाणाङगुलस्यकोऽसंख्येयभागः, असंख्येयाः क्षेत्रप्रमाणाङगुलाऽसंख्येयभागाः क्षेत्रप्रमाणाङगुलमेकं भवति। पादवितस्त्यादि पूर्ववद्वेदितव्यम् । कालप्रमाणमुच्यते-सर्वजघन्यगतिपरिणतस्य परमाणो: स्वावगाढप्रदेशव्यतिक्रमकाल: परमनिषिद्धो निर्विभागः समयः । असंख्येयाः समयाः आवलिका । असंख्ययावलिका
-मेषलोमानीत्यर्थः। २-वर्षशतेऽपनीते ता०, द० । ३-गुणितम् । ४-परस्सरगुणिता श्र० । ५-ता जग-प्रा०, ब०, द०, मु०। ६-पक्तयः ।
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org