SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ३३९ ] तृतीयोऽध्यायः सप्तप्राणाः एक उच्छ्वासस्तावानेव निश्वासः । तावुभावनुपहतस्य पुंसः प्राण एकः । स्तोकः । सप्त स्तोकाः लवः । सप्तसप्ततिर्लवाः मुहूर्तः । त्रिंशन्मुहूर्ता अहोरात्रः । पञ्चदशाऽहोरात्राः पक्षः । द्वौ पक्षौ मासः । द्वौ मासौ ऋतुः । ऋतवस्त्रयोऽयनम् । द्वेऽयने संवत्सरः । चतुरशीतिवर्षशतसहस्राणि पूर्वाङ्गम् । चतुरशीतिपूर्वाङ्गशतसहस्राणि पूर्वम् । एवमनयैव वृद्धया पर्वाङ्ग-पर्व- नयुताङ्ग-नयुत- कुमुदाङ्ग-कुमुद-पद्माङ्ग-पद्म- नलिनाङग-नलिन-कमलाङग-कमल- तुट्याङग तुटय-अटटङाग अटट-अममाङ्ग-अमम- हूहू अङ्ग-हूहू-लताङ्ग-लता-महालताङ्ग-महालताप्रभृतिसंज्ञा । कालो वर्षगणनागम्यः संख्येयो वेदितव्यः । ततः परोऽसंख्येयः पत्योपमसागरोपम - प्रमितः । ततः परोऽनन्तः कालोऽतीतोऽनागतश्च सर्वज्ञप्रत्यक्षः । भावप्रमाणं पञ्चविधं ज्ञानम् पुरस्ताद्वयाख्यातम् । यथैवेते उत्कृष्टजघन्ये स्थिती नृणां तथैव तिर्यग्योनिजानां च ॥३६॥ २०६ द्वादशद्वाविंशतिवशसप्तत्रिवर्षसहस्राणि एकेन्द्रियाणामुत्कृष्टा स्थितिर्यथासंभवं श्रोणि रात्रिन्दिवानि च ॥ ३॥ एकेन्द्रियाः पञ्चविधाः पृथिवीकायिका अप्कायिका: तेजस्कायिका वायुकायिका वनस्पतिकायिकाश्चेति । तत्र पृथिवीकायिका द्विविधाः शुद्धपृथिवीकायिका: खरपृथिवीकायिकाश्चेति । तत्र शुद्धपृथिवीकायिकानाम् उत्कृष्टा स्थितिर्द्वादशवर्षसहस्राणि । खरपृथिवी कायिकानां द्वाविंशतिवर्षसहस्राणि । वनस्पतिकायिकानां दशवर्षसहस्राणि । अकायिकानां सप्तवर्षसहस्राणि । वायुकायिकानां त्रीणि वर्षसहस्राणि । तेजस्कायिकानां त्रीणि रात्रिन्दिवानि । तिरश्चां योनिस्तिर्यग्योनिः । का पुनरसौ ? तिर्यङनामकर्मोवयापादितं जन्म तिर्यग्योनिः |१| तिर्यग्गतिनाम्नः कर्मणः उदयेनापादितं जन्म तिर्यग्योनिरिति व्यपदिश्यते । तिर्यग्योनौ जातास्तिर्यग्योनिजाः । तेषां तिर्यग्योनिजानाम् उत्कृष्टा भवस्थिति: त्रिपल्योपमा, जघन्याऽन्तर्मुहूतां । मध्ये विकल्पः १५ तत्प्रतिपादनार्थमिदमुच्यते तिर्यञ्चः त्रिविधाः एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियभेदात् |२| एकेन्द्रियाः विकलेन्द्रियाः पञ्चेन्द्रियाश्चेति त्रिविधाः तिर्यञ्चो वेदितव्याः । विकलेन्द्रियाणां द्वादशवर्षा एकान्नपञ्चाशद्वात्रिन्दिवानि षण्मासाश्च (४) द्वीन्द्रियाणामुत्कृष्टा स्थितिर्द्वादशवर्षाः । त्रीन्द्रियाणां एकान्नपञ्चाशद्रात्रिन्दिवानि । चतुरिन्द्रियाणां षण्मासाः । पञ्चेन्द्रियाणां पूर्वकोटिन पूर्वाङ्गानि द्विचत्वारिंशद्वासप्ततिवर्षसहस्राणि त्रिपल्योपमा च ॥५॥ पञ्चेन्द्रियाः तैर्यग्योनाः पञ्चविधा: - जलचराः, परिसर्पाः, उरगाः, पक्षिणः, चतु:पादश्चेति । तत्र जलचराणामुत्कृष्टा स्थितिः मत्स्यादीनां पूर्वकोटी | परिसर्पाणां गोधानकुलादीनां नव पूर्वाङ्गानि । उरगाणां द्विचत्वारिंशद्वर्षसहस्राणि । पक्षिणां द्वासप्ततिवर्षसहस्राणि । चतुःपदां त्रीणि पल्योपमानि । सर्वेषां तेषां जघन्या स्थितिरन्तर्मुहूर्ता । किमर्थो योगविभाग: ? १ - त्सरं चतु- प्रा०, ब०, ६०, मु०, ता०, मू० । २ -संज्ञाः कालो प्रा०, ब०, ६०, सु०, ता०, मू० । ३ पूर्वाङ्गं वर्ष लक्षाणामशीतिश्चतुरुतरा । तद्वगतं भवेत् पूर्व तत्कोटिः पूर्वफोट घसौ ॥ २७ Jain Education International For Private & Personal Use Only ५ १० २० २५ ३० www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy