________________
३६] तृतीयोऽध्यायः
१६७ शर्कराप्रभायां विसागरोपमा स्थितिः, बालुकाप्रभायां सप्तसागरोपमा स्थितिः, पङ्कप्रभायां दशसागरोपमा स्थितिः, धूमप्रभायां सप्तदशसागरोपमा स्थितिः, तमःप्रमायां द्वाविंशतिसागरोपमा स्थितिः, महातमःप्रभायां त्रयस्त्रिशत्सागरोपमा स्थितिरिति ।
नरकप्रसङगः 'तेषु' इति वचनादिति चेत्, न; रत्नप्रभाद्युपलक्षितत्वात् ।४। स्यान्मतम्-'तेषु'इतिवचनान्नरकाभिसंबन्धः प्राप्नोति । ततः किम् ? रत्नप्रभायां त्रयोदशेन्द्रकनरक- ५ संज्ञानि तत्रारादेव सीमन्तकादिष्विन्द्रकनरकेषु स्थितिरियं परिसमाप्येत, नेष्यते च, तस्मात्तेष्विति वचनमयुक्तमिति ; तन्न; किं कारणम् ? रत्नप्रभाधुपलक्षितत्वात् । यानि रत्नप्रभाद्यधिकरणत्वेनोपलक्षितानि त्रिंशच्छतसहस्राद्यवधृतपरिमाणानि 'तेष्वेकसागरोपमादिका स्थितिरिति नास्ति दोषः ।
साहचर्याद्वा ताच्छन्द्यसिद्धिः ।५। अथवा नरकसहचरिता भूमयोऽपि नरकाणीत्युच्यन्ते। १० अतस्तेषु रत्नप्रभादिषु नरकेषु प्रादुर्भवतां सत्वानामे कसागरोपमादिका स्थितिरित्यभिसंबन्धः, एवं च कृत्वा तेष्विति वचनमर्थवत्, इतरथा हि व्यवधानाद् भूमिभिरनभिसंबन्धः स्यात् ।
नरकस्थितिप्रसङग इति चेत् ; न; सत्त्वानामिति वचनात् ।६। स्यादेतत्-यदि पृथिव्युपलक्षितनरकाभिसंबन्ध इष्टः, ननु नरकाणामेवैकसागरोपमादिस्थितिसंबन्धः प्राप्नोति न नारकाणामिति; तन्न; किं कारणम् ? सत्त्वानामिति वचनात् तेषु नरकेषु सत्त्वानामियं १५ स्थितिर्न नरकाणामिति ।
परोत्कृष्टेति पर्यायौ । परा उत्कृष्टेति पर्यायशब्दाविमो तेन नारकाणामुक्ता स्थितिरुत्कृष्टा। रत्नप्रभादिषु प्रतिप्रस्तारं जघन्यापि स्थितिरुच्यते-सीमन्तकेन्द्रके तच्छ णिषु चाष्टास्वपि नारकाणां जघन्या स्थितिर्दशवर्षसहस्राणि उत्कृष्टा नवतिवर्षसहस्राणि, अजघन्योत्कृष्टा मध्ये समयोत्तरा। निरयेन्द्रके तच्छ्रेणिषु चाष्टास्वपि नारकाणां जघन्या नवतिवर्ष- २० सहस्राणि, 'दशवर्षशतसहस्राणि 'इति क्वापि पाठः'। उत्कृष्टा नवतिवर्षशतसहस्राणि, अजघन्योत्कृष्टा मध्ये समयोत्तरा । रोरुकेन्द्र के तच्छ्रेणिषु चाष्टास्वपि नारकाणां जघन्या एका पूर्वकोटी, उत्कृष्टेनासंख्याताः पूर्वकोटयः, अजघन्योत्कृष्टा मध्ये समयोत्तरा। भ्रान्तेन्द्रके तच्छे णिषु चाष्टास्वपि नारकाणां जघन्या असंख्याताः पूर्वकोटयः, उत्कर्षेण सागरोपमस्यको दशभागः, अजघन्योत्कृष्टा मध्ये समयोत्तरा । उद्भ्रान्तेन्द्रके तच्छ्रेणिषु चाष्टास्वपि नार- २५ काणां जघन्या सागरोपमस्यैको दशभागः, उत्कृष्टा सागरोपमस्य द्वौ दश भागो, अजघन्योत्कृष्टा मध्ये समयोत्तरा। संभ्रान्तेन्द्र के तच्छ्रेणिषु चाष्टास्वपि नारकाणां जघन्या सागरोपमस्य द्वौ दशभागो उत्कर्षेण सागरोपमस्य त्रयो दशभागाः, अजघन्योत्कृष्टा मध्ये समयोत्तरा असंभ्रान्तेन्द्र के तच्छ्रेणिषु चाष्टास्वपि नारकाणां जघन्या सागरोपमस्य त्रयो दशभागाः, उत्कृष्टा सागरोपमस्य चत्वारो दशभागाः, अजघन्योत्कृष्टा मध्ये समयोत्तरा। विभ्रान्तेन्द्रके तच्छृणिषु १० चाष्टास्वपि नारकाणां जघन्या सागरोपमस्य चत्वारो दशभागाः उत्कष्टा सागरोपमस्य पर दशभागाः, अजघन्योत्कृष्टा मध्ये समयोत्तरा । तप्तेन्द्र के तच्छ्रेणिषु चाष्टास्वपि नारकाणां जघन्या सागरोपमस्य पञ्च दशभागाः, उत्कृष्टा सागरोपमस्य षड् दशभागाः, अजघन्योत्कृष्टा मध्ये समयोत्तरा । त्रस्तेन्द्रके तच्छे णिषु चाष्टास्वपि नारकाणां जघन्या सागरोपमस्य षड् दशभागाः, उत्कृष्टा सागरोपमस्य सप्त दशभागाः, अजघन्योत्कृष्टा मध्ये समयोत्तरा । ३५
१ बिलानाम्। २ तेष्वेकत्रिसाग-ब०, २०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org