________________
१६६
तत्वार्थवार्तिके
[ ३२६
वासी क्षुरतक्षण'-क्षरण-तप्ततैलावसेचना-ऽयः कुम्भीपाका -ऽम्बरीषभर्जन- यन्त्रपीलनैः शूलशलाकाव्यघन-क्रकचपाटना-ऽङ्गारधाम्निवाहन-सूची शाड्वलावकर्षणैः व्याघ्रर्क्षद्वीपिश्वशृगालवृक कोकमार्जारनकुलाखुसर्पवायसगृध्रकङ्कोलूकश्येनादिखादनैः तप्तवालुकाविचरणा-ऽसिपत्रवन'प्रवेशन- वैतरण्यवतारण परस्पर 'योधनादिभिश्च ते संक्लिष्टासुरा दुःखमुदीरयन्ति नार५. काणाम् । किमर्थं त एवं कुर्वन्तीति चेत् ? पापकर्माभिरतत्वात्, यथा गोमहिषमेषवराहकुक्कुट - वर्तिकालावकान्' मल्लांश्च युद्धयमानान् परस्परं घ्नतश्च दृष्ट्वा रागद्वेषमोहाभिभूतानाम् अकुशलानुबन्धिपुण्यानां नराणां प्रीतिरुत्पद्यते, तथा तेषामसुराणां नारकांस्तथा कारयतामन्योन्यं च घ्नतः पश्यतां परा प्रीतिरुत्पद्यते । तेषां सत्यपि देवत्वे मायानिदान मिथ्यादर्शनशल्यतीव्रकषायोपहतस्य अनालोचितभावदोषस्य अप्रत्यवमर्शस्य अकुशलानुबन्धस्य पुण्यस्य कर्मणस्तप१० सरच 'सावद्यदोषानुकर्षिणस्तत्फलं यत् सत्स्वपि अनेकेषु प्रीतिहेतुषु अशुभा एव प्रीतिहेतव इति । एवं छेदभेदादिभिः शकलीकृतमूर्तीनामपि तेषां न मरणमकाले विद्यते । कुतः *"औपपादिका अनपवर्त्यायुषः " [ ] इति वचनात् । तेषां हि जघन्यमध्यमोत्कृष्टभेदभिन्नं यावदायुरवबद्धं तावद्यथाकालमेव विपच्यते नोदीरण' प्रत्ययवशादपवर्त्यते । यद्येवं तदेव तावदुच्यतां नारकाणां कियदायुरिति ? अत आह-
?
तेष्वेक त्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ||६||
सागरोपमेति कोऽयं शब्दः ? सागर उपमा यस्याः सेयं सागरोपमा । क उपमार्थ : ? सागरस्योपमात्वं द्रव्यभूयस्त्वात् |१| यथा सागरो जलसमूहेन भूयसा युक्तस्तथा आयु:कर्मापि भवधारणकारणपुद्गलद्रव्यसमूहेन महता योगात् सागरेणोपमीयते ।
१५
एकादीनां कृतद्वन्द्वानां सागरोपमाविशेषणत्वम् |२| एकादयः शब्दाः कृतद्वन्द्वाः सागरोपमाशब्दस्य विशेषणत्वेन " नियुज्यन्ते । एका च तिस्रश्च सप्त च दश च सप्तदश च द्वाविंशतिरच त्रयस्त्रिंशच्च एकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिशतस्ता एव सागरोपमाः एकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिशत्सागरोपमाः । कथमेकशब्दस्य पुंवद्भावः ? नन् भिन्नाधिकरणत्वान्न प्राप्नोति; नायं पुंवद्भावः, "औत्तरपदिकं ह्रस्वत्वम्, यथा "एकक्षीरमिति । २५ अथवा सागर उपमा यस्य तत्सागरोपममायुः, एकं च त्रीणि च सप्त च सप्तदश च द्वाविंशतिरच त्रयस्त्रिंशच्च एकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपममायुर्यस्या: सैकत्रिसप्तदश सप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमेति स्थित्यपेक्षः स्त्रीलिङ्गनिर्देशः । रत्नप्रभादिभिरानुपूर्व्येण संबन्धो यथाक्रमानुवृत्तेः | ३| 'यथाक्रमम्' इत्यनुवर्तते । ततो रत्नप्रभादिभिरेकादीनामानुपूर्व्येण संबन्धो वेदितव्यः । रत्नप्रभायामेकसागरोपमा स्थितिः,
२०
१ - भारतप्त- प्रा०, ब०, ६०, मु०, मू० । २ -रधानी वा ब०, मु० । -रदानीवा- मू० । - रवानीवा - श्र० द० । -रवानीगारावीनीवा- प्रा० । -रादीनीवा- भा० । “अङ्गारवहनवाहन" त० भा० । ३ - प्रवेश व तरण्यवतरण- श्र० । ४ - रचोदना- प्रा०, ब०, ६०, मु० । - रघोवनामू० । ५ -लापकान् आ०, ब०, ब०, मु० । -लापाकान् मू० । ६ व्यापारस्य । ७ भावदोषा- प्रा०, ब०, ६०, मु०, मु० । ८ "औपपाविकचरमोतमवे हा संख्ये यवर्षायुषोऽनपवत्र्यायुषः त० सू० २५३ । ६ - रणाप्रत्य- प्रा०, ब०, मु० । १० नियुञ्जन्ते श्र० । ११ उत्तरपदि- प्रा०, ब०, ६०, अ०, मु०, मू० । 'मुगक्षीराविषु' इति सूत्रेण । १२ एकस्याः क्षीरम् - ता० टि० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org