________________
१५] तृतीयोऽध्यायः
१६५ निर्दयत्वात् परस्परदर्शने सति कोपोत्पत्तेः श्ववत् ॥१॥ यथा श्वानः शाश्वतिकाकारणानादिकालप्रवृत्तजातिकृतवैरापादितनिर्दयत्वात् परस्परभक्षणभेदनछेदना'चुदीरितदुःखा भवन्ति, तथा नारका अपि भवप्रत्ययेनावधिज्ञानेन मिथ्यादर्शनोदयाद्विभङ्गव्यपदेशभाजा च दूरादेव दुःखहेतूनवगम्योत्पन्नदुःखाः प्रत्यासत्तौ परस्परालोकनाच्च प्रज्वलितकोपाग्नयः स्वविकृतासिवासीपरशुभिण्डिवालादिभिः परस्परदेहतक्षणभेदनछेदनपीडनादिभिरदीरितदुःखा भवन्ति । ५ किमेतावानेव दुःखोत्पत्तिकारणप्रकार उतान्योऽपि कश्चिदस्तीति ? अत आह
संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥५॥ पूर्वभवसंक्लेशपरिणामोपात्ताशुभकर्मोनयात् सततं क्लिष्टाः संक्लिष्टाः।। पूर्वजन्मनि भावितेनाति तीवेण संक्लेशपरिणामेन यदुपाजितं पापकर्म तस्योदयात् सततमविरतं क्लिष्टाः संक्लिष्टाः ।
___ असुरनामकर्मोदयादसुराः ।२। देवगतिनामकर्म विकल्पस्यासुरत्वसंवर्तनस्य कर्मण उदयादस्यन्ति परानित्यसुराः ।
संक्लिष्टविशेषणमन्यासुरनिवृत्त्यर्थम् ।३। न सर्वेऽसुरा नारकाणां दुःखमुत्पादयन्ति । किं तर्हि ? अम्बाम्बरीषादय एव केचनेति प्रदर्शनार्थ संक्लिष्टविशेषणम् ।
असुराणा गतिविषयनियमप्रदर्शनार्थ प्राक्चतुर्थ्या इति वचनम् ।४। तेषां संक्लिष्टा- १५ नामसुराणां वेदनोदीरण कारणानां तिसृषु पृथिवीषु गतितिः परमिति प्रदर्शनार्थ प्राक्चतुर्थ्या इत्युच्यते।
आङो ग्रहणं लध्वर्थमिति चेत्, न; संदेहात् ५। स्यान्मतम्-आङत्र प्रयोक्तव्यः लघ्वर्थम् । स एव मर्यादां गमयतीति; तन्न; किं; कारणम् ? संदेहात् । अभिविधावपि आङ वर्तते मर्यादायामपि, ततः संदेहः स्यात्-'किं सह चतुर्थ्या उत ततः प्राग्' इति अतोऽसंदेहार्थ २० प्राग्वचनमेव युक्तम् ।
चशब्दः पूर्वहेतुसमुच्चयार्थः ।६। संक्लिष्टासुरोदीरितदुःखाश्च पूर्वोक्तहेतूदीरितदुःखाश्चेति समुच्चयार्थश्चशब्दः, इतरथा हि तिसृषु भूमिषु पूर्वोक्तहेत्वभावः प्रतीयेत' ।
अनन्तरत्वादुदीरितग्रहणानर्थक्यमिति चेत् ;न; तस्य वृत्तौ परार्थत्वात् ।७। स्यान्मतम्अनन्तरमुदीरितग्रहणमस्ति तेनैवात्राभिसंबन्धः कर्तव्यः, अनर्थकं पुनरुदीरितग्रहणमिति ; तन्न; २५ किं कारणम् ? तस्य वृत्तौ परार्थत्वात् । स युदीरितशब्द: वृत्तौ परार्थे 'सन्नवस्थित इह संबद्धुमशक्यः ।
वाक्यवचनमिति चेत्, न; उदीरणहेतुप्रकार प्रदर्शनार्थत्वात् ।। स्यादेतत्-वाक्यमेव वक्तव्यं परस्परेणोदीरितदुःखाः संक्लिष्टासुरैश्च प्राक् चतुर्थ्या इति ? तन्न ; किं कारणम् ? उदीरणहेतुप्रकार प्रदर्शनार्थत्वात् । पुनरुदीरितग्रहणेनोदीरणकारणप्रकाराः प्रदर्श्यन्ते । ३० तद्यथा-तप्तायोरसपायन-निष्टप्तायस्तम्भालिङ्गन-कूटशाल्मल्यारोहणावतरणा-योघनाभिघात
१ -नाद्याहितदु-ब०, मु०। -नाधुदितदु-द०, ता०, प्रा०। २-नातिसं-पा०, ब०, द०, मु०। -नातितीवसं-ता०। ३ प्रतीयते प्रा०, ब०, द०, मु०, ता०। ४ संव्यव- प्रा०, ब०, द०, मु०। सत् व्यव-ता०। ५-रद-प्रा०, ब०, द०, मु०।६-रदर्श- प्रा०, ब०,०, मु०, ता०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org