________________
१६४ तत्त्वार्थवार्तिके
[३२४ स्यादिति ? तन्न; किं कारणम् ? आभीक्ष्ण्यवचनान्नित्यप्रहसितवत् । यथा नित्यप्रहसितो देवदत्त इत्युच्यते योऽभीक्ष्णं प्रहसति, न च तस्य प्रहसनानिवृत्तिः, कारणे सति भावात् । तथा अशुभकर्मोदयनिमित्तवशात् लेश्यादयोऽनारतं प्रादुर्भवन्तीति आभीक्ष्ण्यवचनो नित्यशब्दः
प्रयुक्तः । नित्यमशुभतरा नित्याशुभतराः सुप्सुपेति वृत्तिर्मयूरव्यंसकादित्वाद्वा। नित्याशुभतरा ५ लेश्यापरिणामदेहवेदनाविक्रिया येषा त इमे नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ।
तत्राशुभतरलेश्या इति-प्रथमाद्वितीययो: कापोतलेश्या । तृतीयायामुपरिष्टात् कापोती अधो नीला। चतुर्थ्या नीला । पञ्चम्यामुपरि नीला अधः कृष्णा । षष्ठयां कृष्णा। सप्तम्यां परमकृष्णा । एतेषां नारकाणां स्वायुःप्रमाणावधृता द्रव्यलेश्या उक्ताः, भावलेश्यास्तु षडपि. प्रत्येकमन्तर्मुहुर्तपरिवर्तिन्यः ।
अशुभतरपरिणामा इति-स्पर्शरसगन्धवर्णशब्दपरिणामाः क्षेत्रविशेषनिमित्तवशादतिदुःखहेतवोऽशुभतराः।
अशुभतरदेहा इति-तेषां शरीराण्यशुभनामप्रत्ययादशुभाङ्गोपाङ्गस्पर्शरसगन्धवर्णस्वराणि हुण्डसंस्थानानि' निर्ल नाण्डजशरीराकृतीनि क्रूरकरणवीभत्सप्रतिभयदर्शनानि । यथेह
श्लेष्ममूत्रपुरीषमलरुधिरवसामेदःपूयवमनपूतिमांसकेशास्थिचर्माद्यशुभमौदारिकगतं ततोऽप्य१५ तीवाशुभत्वं नारकाणां वैक्रियिकशरीरत्वेऽपि । तत्र रत्नप्रभायां नारकशरीरोत्सेधः सप्त धनूंषि त्रयो हस्ताः षट् चाङगुलयः । अधोऽधो द्विगुणद्विगुण उत्सेधः।।
अशुभतरवेदना इति-अभ्यन्तरासद्वेद्योदये सत्यनादिपारिणामिकशीतोष्णवाह्यनिमित्तजनिताः सुतीव्रवेदना भवन्ति नारकाणाम् । तद्यथा-निदाघे मध्याह्ने व्यभ्रे नभसि पटुतपन
किरणसन्तप्तदिगन्तराले दूरीकृतशीतवाते दवाग्निदाहों द्वाहिपरुषसमीरणे रूक्षदेशे सर्वतो २० दीप्ताग्निशिखापरीतस्य तृष्णार्तस्य पित्तज्वरसंतापितशरीरस्य निष्प्रतीकारस्य यादृगुष्णजं
दुःखं ततोऽप्यनन्तगुणमुष्णनरकेषु दुःखं भवति । माघमासे हिमानीपतनव्याप्तशीतदिगन्तराले नभसि प्रस्पन्दजलाप्लुतकर्दममहीतले रात्रौ शीतवातपातप्रस्फुरितगात्रकृतदन्तवीणस्य शीतज्वराभिभूततनोनिरग्न्याश्रयप्रावरणस्य यादृक् शीतसमुद्भवं दुःखं ततोऽप्यनन्तगुणं कष्टं शीत
नरकेषु दुःखं भवति । अथवा हिमवन्मात्रस्ताम्रगिरिरुष्णनरकेषु यदि निक्षिप्येत क्षिप्रमेव हि २५ द्रवीभवेत् । स एवं द्रवीभूतः शीतनरकेषु यदि निक्षिप्येत अक्षिनिमेषमात्र एव घनः स्यादित्येवमनुमीयमानं शीतोष्णं तत्र वेदितव्यम् ।।
प्रथमाद्वितीयातृतीयाचतुर्थोषष्णवेदनान्येव नरकाणि। पञ्चम्यामुपरि उष्णवेदने द्वे नरकशतसहस्र, अधः शीतवेदनानामेकं शतसहसम् षष्ठीसप्तम्यो: शीतवेदनान्येव । सर्वसमुदायेन द्वयशीतिनरकशतसहस्त्राणि उष्णवेदनानि, द्वे नरकशतसहस्रे शीतवेदने ।
अशुभतरविक्रिया इति-शुभं करिष्याम इत्यशुभतरमेव विकुर्वन्ति । दुःखाभिभूतमनसश्च दुःखप्रतीकारचिकीर्षया गरीयस एव दुःखहेतून् विकुर्वन्ति । त एते भावा अधोऽधोऽशुभतराः वेदितव्याः । किमेषां नारकाणां शीतोष्णजनितमेव दुःखमुतान्यथापि भवतीति ? अत आह
परस्परोदीरितदुःखाः ॥४॥ कथं परस्परोदीरितदुःखत्वम् ? १ -निलू ना- प्रा०, ब०, मु०। २ -द्वाहे प- श्र०, ता०। ३ नरके शत- मू०, श्र० ।
३०
३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org