________________
१३]
तृतीयोऽध्यायः सहस्राणि । पञ्चम्यां श्रेणीन्द्रकनरकसंख्या द्वे नरकशते पञ्चषष्टयधिके । पुष्पप्रकीर्णकसंख्या द्वे शतसहस्रे नवनवतिश्च सहस्राणि सप्तशतानि पञ्चत्रिंशानि च । एतावुभावपि राशी सपिण्डितो त्रीणि नरकशतसहस्राणि । पष्ठयां श्रेणीन्द्रकनरकसंख्या त्रिषष्टिनरकाणि । पुष्पप्रकीर्णकसंख्या नवनवतिनरकसहस्राणि नवशतानि द्वात्रिंशानि । एतावुभावपि राशी सपिण्डितौ नवनवतिसहस्राणि नवशतानि पञ्चनवत्युत्तराणि । सप्तम्यामिन्द्रकनरकमेकमप्रतिष्ठानं नाम । श्रेणीनरकाणि चत्वारि । प्राच्यां दिशि कालं प्रतीच्यां महाकालम् अपाच्यां रौरवम् उदीच्यां महारौरवम् । विदिक्त्रेणीनरकाणि न सन्ति । तान्येतानि पञ्च ।
सर्वश्रेणीन्द्रकनरकसंख्या षण्णवतिर्नरकशतानि त्रिपञ्चाशानि । सर्वपुष्पप्रकीर्णकसंख्या यशीतिर्नरकशतसहस्राणि नवतिसहस्राधिकानि त्रीणि च शतानि सप्तचत्वारिंशानि । एतावुभावपि राशी सपिण्डितौ चतुरशीतिः नरकशतसहस्राणि ।
तासु सप्तस्वपि पृथिवीषु कानिचिन्नरकाणि संख्येयविस्ताराणि कानिचिदसंख्येयविस्ताराणि । यानि संख्येयविस्ताराणि तानि संख्येययोजनशतसहस्र विस्ताराणि, यान्यसंख्येयविस्ताराणि तान्यसंख्येययोजनशतसहस्रविस्ताराणि । सर्वत्र च नरकाणां पञ्चमो' भागः संख्येयविस्ताराणां चत्वारो भागा असंख्येयविस्ताराणाम् । बाहल्यमुच्यते
क्रोशः प्रथमपृथिव्याम्, इतरास्वर्षाधिका: क्रमेणव । चत्वारः सप्तम्यां सर्वेन्द्रकनरकबाहल्यम् । स्वेन्द्रकबाहल्यं 'स्वत्रिभागपरिवर्धितं तच्छ्रे ण्याः ।
श्रेणीन्द्रकबाहल्यसहितं ज्ञेयं प्रकीर्णकस्य । तान्येतानि नरकाणि उष्ट्रकाद्यशुभसंस्थानानि शोचनरोदनाक्रन्दनाद्यशुभनामानि वेदितव्यानि ।
अथ तेषु सीमन्तकादिषु नरकेषु पापकर्मवशात् प्रादुर्भवन्तः प्राणिनः किंलक्षणा इति ? " अत आह
नारका नित्याऽशुभतरलेश्यापरिणामदेहवेदनाविकियाः ॥३॥
लेश्याविशब्दा उक्तार्थाः ।। लेश्यादयः शब्दा उक्तार्था वेदितव्याः । लेश्या च परिणामश्च देहश्च वेदना च विक्रिया च लेश्यापरिणामदेहवेदनाविक्रियाः । लोके प्रतियोग्यन्तरा- २५ पेक्षया प्रकर्षो दृष्टः, इह अशुभतरा इति किमपेक्ष्य प्रकर्षनिर्देशः ? उच्यते
तिर्यग्व्यपेक्षोऽतिशयनिर्देशः ।२। तिरश्चामप्यशुभा लेश्यादयो नारकाणां च । ततः प्रकर्षेण नारकाणामित्यशुभतराः।
___ अर्धापेक्षो वाऽधोगतानाम् ॥३॥ अथवा ऊर्ध्वनरकाशुभतरलेश्याद्यपेक्षया अधोगतानां प्रकर्षों द्रष्टव्यः ।
नित्यग्रहणाल्लेश्याद्यनिवृत्तिप्रसङग इति चेत्, न; आभीषण्यवचनत्वात् नित्यप्रहसित- १० वत् ।। स्यादेतत्-नित्यशब्दोऽयं कूटस्थेष्वविचलेषु भावेषु दृष्टः, यथा नित्या द्यौः नित्या पृथिवी नित्यमाकाशमिति, तथा लेश्यादीनामपि व्ययोदयाभावान्नित्यत्वे सति नरकादप्रच्यवः
१पंचमभागपमाणा निरयाणं हंति संखवित्थारा । सेसचउपंचभागा असंखवित्याराया पिरया । इंदयसेढीवर पाणयाणं कमेण वित्थारा । संखेज्जमसंखेज्ज उभयंचय जोइमाण हवे ॥ इति । बहियपुरविसंवं तियचउसत्तेहि गुणिय छठभजिदे । कोसाणं बेहुलियं इंदियसेढीपहाणाम् ॥ २ सत्रिभा-मू०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org