________________
तत्त्वार्थवार्तिके
[२२ पञ्चोनकानि। शतानां सहस्राणि शतशहस्राणि नरकाणां शतसहस्राणि नरकशतसहस्राणि, त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकानि च तानि नरकशतसहस्राणि च तानि त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशतसहस्राणि ।
यथाकमवचनं यथासंख्याभिसंबन्धार्थम् ।। यो यः क्रमो यथाक्रमम्, तस्य वचनं ५ रत्नप्रभादिभिः, त्रिंशता (दा) दीनां यथासंख्याभिसंबन्धो यथा स्यादिति । तद्यथा-रत्नप्रभायां
त्रिशन्नरकशतसहसाणि। शर्कराप्रभायां पञ्चविंशतिनरकशतसहसाणि । वालुकाप्रभायां पञ्चदशनरकशतसहस्राणि । पङकप्रभायां दशनरकशतसहस्राणि। धूमप्रभायां त्रीणि नरकशतसहस्राणि। तमःप्रभायां पञ्चोनमेकं नरकशतसहस्रम्। महातमःप्रभायां पञ्च । नरकाणि ।
तत्र रत्नप्रभायां अब्बहुलभागे उपर्यधश्चैकैकं योजनसहसौं वर्जयित्वा मध्ये नरकाणि भवन्ति । तानि त्रिधा वर्ण्यन्ते, इन्द्रक-श्रेणि-पुष्पप्रकीर्णकविभागेन । 'तत्र त्रयोदशनरकप्रस्ताराः, त्रयोदशैव इन्द्रकनरकाणि सीमन्तक-निरय-रोरुक-भ्रान्त-उद्भ्रान्त-सम्भ्रान्त-असंभ्रान्त-विभ्रान्त-तप्त-त्रस्त-व्युत्क्रान्त-अवक्रान्त-विक्रान्तनामानि । शर्कराप्रभायामेकादश नरक
प्रस्ताराः एकादशैवेन्द्रकनरकाणि-स्तनक-संस्तनक-वनक-मनक-घाट-संघाट-जिह्व-उज्जिह्वि१५ कालोल-लोलुक-स्तनलोलुकाख्यानि । वालुकाप्रभायां नव नरकप्रस्तारा नवैवेन्द्र कनरकाणि
तप्त-त्रस्त-तपन-आतपन-निदाघ-प्रज्वलित-उज्ज्वलित-संज्वलित-संप्रज्वलितसंज्ञकानि । पङकप्रभायां सप्तनरकप्रस्ताराः सप्तैवेन्द्रकनरकाणि-आर-मार-तार-वर्चस्क-वैमनस्क'-खड-अखडाख्यानि । धूमप्रभायां पञ्च नरकप्रस्तारा:-पञ्चवेन्द्रकनरकाणि-तमो-भ्रम-झष-अन्ध
तमिस्राभिधानानि । तमःप्रभायां त्रयो नरकप्रस्तारा:-त्रीण्येवेन्द्र कनरकाणि हिम-वर्दल२० लल्लकनामधेयानि। महातमःप्रभायामको नरकप्रस्तारः, एकमेवेन्द्रकनरकमप्रतिष्ठानाख्यम् ।
___तत्र 'सीमन्तकस्य चतसृषु दिक्षु चतस्रो नरकश्रेण्यो निर्गतास्तथा विदिक्ष्वपि । तदन्तरेषु पुष्पप्रकीर्णकनरकाणि। तत्रकैकस्यां दिङनरकश्रेण्यामेकानपञ्चाशदेकानपञ्चाशन्नरकाणि। तथकैकस्यां विदिङनरकश्रेण्याम् अष्टचत्वारिंशदष्टचत्वारिंशन्नरकाणि। एवं निरयादिष्वप्येक परिहाप्य नेतव्यानि ।
तत्र प्रथमायां पृथिव्यां श्रेणीन्द्रकनरकाणां संख्या चतुश्चत्वारिंशच्छतानि त्रयस्त्रिशानि । पुष्पप्रकीर्णकानामेकान्नत्रिशच्छतसहसाणि पञ्चनवतिश्च सहसाणि पञ्चशतानि सप्तषष्टयधिकानि । एतावुभावपि राशी सपिण्डितौ त्रिंशन्नरकशतसहस्राणि। द्वितीयायां श्रेणीन्द्रकनरकसंख्या षड्विंशतिशतानि पञ्चनवत्युत्तराणि । पुष्पप्रकीर्णकानां' संख्या चतुर्विंशतिशतसहस्राणि सप्तनवतिसहस्राणि त्रीणि शतानि पञ्च च । एतावुभावपि राशी सपिण्डितो पञ्चविंशतिनरकशतसहस्राणि । तृतीयायां श्रेणीन्द्रकनरकसंख्या चतुर्दशशतानि पञ्चाशीत्यधिकानि । पुष्पप्रकीर्णकसंख्या चतुर्दशशतसहस्राणि अष्टानवतिसहस्राणि पञ्चशतानि पञ्चदशाधिकानि । एतावुभावपि राशी सपिण्डितौ पञ्चदशनरकशतसहस्राणि । चतुर्थ्या श्रेणीन्द्रकनरकसंख्या सप्ताधिकानि सप्तशतानि । पुष्पप्रकीर्णकसंख्या नवनरकशतसहस्राणि नवनवतिश्च सहस्राणि द्वे शते विनवत्युत्तरे। एतावुभावपि राशी संपिण्डितौ दशनरकशत
२५
३०
१-कं हि यो-१० । २ तत्र रत्नप्रभायां प्रयो-मा०, २०, मु०।३ - खाटाखाटाल्या- ता०, मा०, २०, २० -खटाखटाल्या-मू०। ४ सीमन्तनरकस्य मा०, ब०, २०, मु०, ता० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org