________________
३२२]
तृतीयोऽध्यायः पृथिवीप्रस्ताराः" [ ] इत्यध्यवसिताः । कथं तेषां निवृत्तिः ? स्याद्वादनीतिनिरूपितकर्म फलसंबन्धादिषु युक्तिसद्भावात् आर्हतस्यागमस्य प्रामाण्यं न शेषाणां तदभावादिति ।
अधोऽधोवचनं तिर्यक्प्रचयनिवृत्त्यर्थम् ।१०। यथा गम्येत अधोऽध एव सप्तापि भूमयो न तिर्यक्प्रः पेनावस्थिता इति प्रतिपत्त्यर्थमधोऽधोग्रहणम् ।। ___सामीप्याभावाद् द्वित्वानुपपत्तिरिति चेत् ; न ; अन्तरस्याविवक्षितत्वात् ।११। स्यान्मतम्- ५ प्रत्येक भूमीनामन्तराण्यसंख्यातयोजनकोटीकोटिपरिमाणानि ततः सामीप्याभावाद् द्वित्वाभाव इति; तन्त्र ; किं कारणम् ? अन्तरस्याविवक्षितत्वात् । कथमविवक्षा सत: ? सतोऽप्यविवक्षा भवति यथा अलोमिका एडकाः अनुदरा कन्येति ।।
___ तुल्यजातीयेनाव्यवधानं सामीप्यमिति वा ।१२। अथवा यदन्तरं तत्पूर्वोत्तरभागान्तःपातित्वात् सामीप्यमिति तद्योतनार्थ द्वित्वम् ।
'पृथुतराः' इति केषाञ्चित् पाठः ॥१३॥ केचिदत्र 'पृथुतराः' इति पठन्ति । ___ अत्र तरनिर्देशः कुतः ? प्रकर्षाभावात् ॥१४। द्वयोर्द्वयोर्वाऽभिसंबन्धे सति महत्त्वविशेषप्रख्यापनार्थस्तर शब्दः । एवमपि रत्नप्रभायाः पृथुतराव्यपदेशो नास्ति 'प्रतियोग्यभावात् । अपि च शर्कराप्रभादीना प्रकर्षाभावः अधोऽधो हीनपरिमाणत्वात् । तस्मादधोऽधः पृथुतरा इति व्यपदेशो नोपपद्यते ।
स्यादेतत्-अधोलोकस्य वेत्रासनसंस्थानस्याधोधः पृथुत्वप्रकर्षात् पृथुतरा इति व्यपदेश इति; तच्च न; भूमिभ्यो बहिस्तत्पृथुत्वम् । एवं ह्युक्तम्-*"स्वयम्भूरमणसमुद्रान्तादवलम्बिता रज्जुः सप्तम्याः भूमेरवसाने पूर्वादिदिग्विभागावगाहिकालमहाकालरौरवमहारौरवान्ते पतति" [ ] इति । अथापि कथञ्चित् स्यात् प्रकर्षः; तिर्यक् पृथुतरा इति वक्तव्यं स्यान्नाधोऽधः इति। अथापि कथञ्चिदनेन विशेषणेनार्थः, एवं ग्राह्य': अधोऽधो २० वेदनाप्रकर्षाप्रकर्षयोगादायुषोऽतिशयाद्वा तन्निमित्तस्य तद्वयपदेशदर्शनात्, तत्संबन्धाद्वा भूमयः पृयुतरा इति व्यपदिश्यन्ते । एवमपि रत्नप्रभायां पृथुतराव्यपदेशो नोपपद्यत एव ।
___ अत्राह-किं ता भूमयो नारकाणां सर्वत्रावासा आहोस्वित् क्वचित् क्वचिदिति ? तन्निर्धारणार्थमाहतासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशतसहस्राणि २५
पञ्च चैव यथाक्रमम् ॥२॥ तासु रत्नप्रभादिषु भूमिषु नरकाण्यनेन संख्यायन्ते ।
त्रिंशदादोना परस्पराभिसंबन्धे वृत्तिः ।। त्रिंशदादीनां पदानां परस्पराभिसंबन्धे सति वृत्तिर्वेदितव्या । पञ्चभिरूनं पञ्चोनं पञ्चोनं च तदेकं च तत्पञ्चोनकम् । त्रिशच्च पञ्चविंशतिश्च पञ्चदश च दश च त्रीणि च पञ्चोकं च त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रि- ३०
१-दियुक्ति द०, प्रा०, ब०, मु०। २ मेषाः-सम्पा० । ३ ".. 'सप्ताधोऽधः पृथुतराः (सू०) "सर्वाश्चैताः अधोऽधः पृथतराश्छत्रातिछत्रसंस्थिताः.." -त० भा० ३॥१॥ ४ रत्नप्रभायाः शर्कराप्रभा प्रकर्षत्यादि । ५- सम्ब-श्र० । ६ द्वयोविभज्य च तरबिति । ७ रत्नप्रभायाः पूर्व प्रतिनिधेरभावात् । ८ बाहल्यानाम् । ग्राह्यमधो-पा०, ब०, ८०, मु०, ता० ।
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org