________________
तत्त्वार्थवार्तिके
[३१ अनादिपारिणामिकसंज्ञानिर्देशाद्वा इन्द्रगोपवत् ५। यथा इन्द्रगोप इति कस्यचिज्जन्तोः संज्ञा अनादिः स्वाभाविकी। न ह्यसौ इन्द्रं गोपायतीति इन्द्रगोपः। एवं तमःप्रभादिसंज्ञा अपि अनादिपारिणामिक्यो वेदितव्याः ।
भेदे रूढिशब्दानामगमकत्वमवयवार्थाभावादिति चेत्, न; सूत्रस्य प्रतिपादनोपाय५ त्वात् ।६। स्थादेतत्-पद्यते अनैमित्तिका रूढिशब्दा भेदे गमकत्वमेषां नास्ति। कुतः ?
अवयवार्थाभावादिति; तन्न; किं कारणम् ? सूत्रस्य प्रतिपादनोपायत्वात् । तेषां संज्ञाशब्दानां प्रतिपादनोपायभूतमिदम् । अस्मान्निबन्धन स्थानाच्छब्दान्तराण्युपप्लवन्ते' यैरर्थाः संज्ञायन्ते।
भूमिग्रहणमधिकरगविशेषप्रतिपत्यर्थम् ।७। यथा स्वर्गपटलानि भूमिमनाश्रित्या अवस्थि१० तानि न तथा नारकावासाः । किं तर्हि ? भूमीराश्रित्य व्यवस्थिता इत्यधिकरणविशेषप्रति
पत्त्यर्थ भूमिग्रहणम् ।
___घनाम्न्वादिग्रहणं तदालम्बननिर्ज्ञानार्थम् ।८ तासां भूमीनामालम्बननिर्ज्ञानार्थ घनाम्ब्वादिग्रहणं क्रियते । 'घनमेवाम्बु घनाम्बु । घनाम्बु च वातश्चाकाशं च 'चनाम्बुवाताकाशानि, तानि प्रतिष्ठा आश्रयो यासां ता घनाम्बुवाताकाशप्रतिष्ठाः । सर्वा एता भूमयः घनोदधिवलयप्रतिष्ठाः, घनोदधिवलयं धनवातवलयप्रतिष्ठम्, धनवातवलयं तनुवातवलयप्रतिष्ठम्, तनुवातवलयमाकाशप्रतिष्ठम्, आकाशमात्मप्रतिष्ठं तस्यैवाधाराधेयत्वात् । त्रीण्यप्येतानि वलयान्यन्वर्थसंज्ञानि प्रत्येक विंशतियोजनसहसबाहल्यानि । तत्र घनोदधयो मुद्गसन्निभाः, घनवाता गोमूत्रवर्णाः, अव्यक्तवर्णास्तनुवाताः ।
तत्र रत्नप्रभाया बाहल्यमेकं योजनशतसहस्रमशीतिश्च योजनसहस्राणि । तस्यास्त्रयो . भागा:-खरपथिवीभागः, पङकबहल:, अब्बहलश्चेति । तत्र चित्रादिषोडशधाप्रक्लप्तरत्नाञ्चित: खरपृथिवीभागः, षोडशयोजनसहस्रबहल: । पङकबहुल: चतुरशीतियोजनसहस्रबहल: । अबहुलोऽशीतियोजनसहस्रबहल: । तत्र खरपृथिवीभागस्योपर्यधश्चकैकं योजनसहस्रं परित्यज्य मध्यमभागेषु चतुर्दशसु योजनसहस्रेषु किन्नरकिम्पुरुषमहोरगगन्धर्वयक्ष
भतपिशाचानां सप्तानां व्यन्तराणां नागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराणां २५ नवाना भवनवासिना चावासाः। पङकबहुलभागे असुरराक्षसानामावासाः । अब्बहलभागे
नरकाणि । शर्कराप्रभायां बाहल्यं द्वात्रिंशद्योजनसहस्राणि । ततोऽधोऽधस्तनानि चतुभिश्च चतुभिर्योजनसहस्रोनानि बाहल्यानि वेदितव्यानि आषष्ठ्याः । सप्तम्याम् अष्टौ योजनसहस्राणि । सर्वासा तासामन्तराणि तिर्यक् चासंख्येया योजनकोटिकोटयः ।
___ सप्तग्रहणमियत्ताववारणार्थम् ।९। यथा गम्येत सप्तव नरकाधारा भूमयो नाष्टौ नए ३० षट् चेति संख्यान्तरनिवृत्त्यर्थम् । "सन्ति हि केचित्तन्त्रान्तरीयाः-*"अनन्तेषु लोकधातुष्वनन्ताः
१ सूत्रम् । २ नियामकसूत्रात् । ३ उद्गच्छन्ति । ४ सान्द्रम् । ५ सर्वार्थसिद्धावेवं व्याख्यातम्घनश्च घनो मन्दो महान् प्रायत इत्यर्थः। अम्बु च जलमुदकमित्यर्थः । वातशब्दोऽन्त्यदीपकः तत एवं सम्बन्धनीयः। घनो घनवातः । अम्बु अम्बुदातः। वातस्तन वातः। महदपेक्षया तनरिति सामर्थ्यगम्यः । अन्यः पाठः । सिद्धान्तपाठस्तु घनाम्बु च वातौ चेति वातशब्दः सोपस्क्रियते वातस्तनवात इति वेति । ६-बाहुल्या-पा०, ब०, ८०, मु०, ता०। ७-बहुलः प्रा०, ब०, द०, मु०, ता०।८-कयोज- श्र० । १-भाया बाहुल्यं प्रा०, ब०, द०, मु० । १० सप्तम्या अ-पा०, ब०, द०, ता०, मु०।११ न नब चेति भ०, मू० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org