SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः मोशमार्गे त्रिविधेऽधिकृते आदावुपदिष्टस्य सम्यग्दर्शनस्य विषयप्रदर्शनार्थे जीवादिपदार्थोपदेशे कर्तव्ये जीवा निर्दिष्टाः । इदानीं तदधिष्ठानव्याख्यानप्रसङगेन लोकविभागो वक्तव्यः । स पुनस्त्रिविधः-अधोलोकस्तिर्यग्लोक ऊर्ध्वलोकः । तत्र क्रमप्राप्तस्याऽधोलोकस्य वर्णनार्थमच्यते । अथवा संवेगहेतत्वात ताः नारकी: शीतोष्णनिमित्ताः सतीव्रवेदनाः श्रत्वाऽयं कथं संविग्नः स्यादिति प्रथममधोलोक उच्यते । अथवा, "भवप्रत्ययोऽवधिदेवनारकाणाम्"त० सू० ५ १।२१] इत्येवमादिषु नारकाः श्रुताः, ततः पृच्छति के ते नारका इति ? तत्प्रतिपादनार्थ तदधिकरणनिर्देशः क्रियतेरत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभाभूमयो घनाम्बुवाता काशप्रतिष्ठाः सप्ताधोऽधः ॥१॥ रत्नादीनामितरतरयोगे' द्वन्द्वः ।। रत्नं च शर्करा च वालुका च पङ्कश्च धूमश्च १० तमश्च महातमश्च रत्नशर्करावालुकापङ्कधूमतमोमहातमांसीति इतरेतरयोगे द्वन्द्वो द्रष्टव्यः। प्रभाशब्दस्य प्रत्येक परिसमाप्ति जिवत् ।२। यथा देवदत्तजिनदत्तगुरुदत्ता भोज्यन्तामिति प्रत्येक भुजिः परिसमाप्यते, एवं प्रभाशब्दस्यापि प्रत्येक परिसमाप्तिर्वेदितव्यारत्नप्रभा शर्कराप्रभा वालुकाप्रभा पङ्कप्रभा धूमप्रभा तमःप्रभा महातमःप्रभा चेति ।। साहचर्यात्ताच्छन्द्यसिद्धियष्टिवत् ।३। यथा यष्टिसहचरितो देवदत्तो यष्टिरित्युच्यते १५ तथा चित्र-वजू-वैडूर्य-लोहिताक्षमसार-गल्व-गोमेद-प्रवाल-ज्योती-रसाञ्जनमूलकाङ्क-'स्फटिकचन्दन-बर्बक-बकुल-"शिलामयाख्यषोडशधापरिक्लुप्तरत्नप्रभासहचरितत्वात् रत्नप्रभा भूमिः । शर्कराप्रभासहचरिता शर्कराप्रभा । वालुकाप्रभासहचरिता वालुकाप्रभा । पङ्कप्रभासहचरिता पङ्कप्रभा । धूमप्रभासहचरिता धूमप्रभा। तमःप्रभासहचरिता तमःप्रभा। महातमःप्रभासहचरिता महातमःप्रभेति। २० तमःप्रभेति विरुद्धमिति चेत्, न; स्वात्मप्रभोपपत्तेः ।४। स्यान्मतम्-तमोऽन्धकारः प्रभा प्रकाश इति विरुद्धावेतावौं -यदि तमो न प्रभा, अथ प्रभा न तमः, तमःप्रभेत्यभिधानमनुपपन्नमिति; तन्न; किं कारणम् ? स्वात्मप्रभोपपत्तेः। न दीप्तिरूपैव प्रभा। किं तहि ? द्रव्याणां स्वात्मैव "मुजा प्रभा 'यत्सन्निधानात् मनुष्यादीनामयं संव्यवहारो भवति • स्निग्धकृष्णप्रभमिदं रूक्ष कृष्णप्रभमिदमिति,' ततस्तमसोऽपि स्वात्मैव कृष्णा प्रभा अस्तीति नास्ति २५ विरोधः। "बाह्यप्रकाशापेक्षा सेति चेत् ; अविशेषप्रसङ्गः स्यात् । १ स नार-मा०, ब०, २०, म०, मू०, ता०। २ भाविभूतावयवभेद इतरेतरः । ३ लोहितक्षेत्र-भा० १॥ ३-स्फाटिक प्रा०, ता०,०, मू०। ४-शिलोमया-ता०, १०, मू०। ५ शुद्धा, ता. टि०।६ ता० प्रती यत्सन्निधानात् इत्यादि भवतीत्यन्तो भागः वार्तिकचिहन चिह्नितो वर्तते । ७अलकादि। अजनादि ।६-भमिति ततस्तमःप्रभेति भेदे हि-पा०,०,०, मु०।१० सा कृष्णप्रभा बाह्यभूतसूर्यप्रकाशादिसन्निधानाद् दृश्यते। भवतु नाम का नो हानिः । तहि नारकाणां कथम् ? योध्रोलकादिवद् प्रष्टव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy