SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १५८ तस्वार्थवार्तिके [२२५३ उत्तमग्रहणमेवेति चेत्, न; तदनिवृत्तः ।। स्यादेतत्-उत्तमग्रहणमेवास्तु उत्तमदेहा इति ? तन्न; किं कारणम् ? तदनिवृत्तः, यो दोष उक्तोऽव्याप्तिरिति स तदवस्थ एव तेषामप्युत्तमदेहत्वात्। - चरमग्रहणमेवेति चेत् ; न; तस्योत्तमत्वप्रतिपादनार्थत्वात् ।९। स्यान्मतम्-चरमग्रहण५ मेवास्तु चरमदेहा इति, नार्थ उत्तमग्रहणेनेति; तन्न; किं कारणम् ? तस्योत्तमत्वप्रतिपाद नार्थत्वात् । स हि चरमो देहः सवेषामुत्तम इत्यर्थः प्रतिपाद्यते । चरमदेहा इति वा केषाञ्चित पाठः । एतेषां नियमेनायुरनपवर्त्यमितरेषामनियमः । अप्राप्तकालस्य मरणानुपलब्धेरपवर्ताभाव इति चेत्, न; दृष्टत्वादाम्रफलादिवत् ॥१०॥ यथा अवधारितपाककालात् प्राक् सोपायोपक्रम सत्याम्रफलादीनां दृष्ट: पाकस्तथा परिच्छि१० न्नमरणकालात् प्रागुदीरणाप्रत्यय' आयुषो भवत्यपवर्तः । आयुर्वेदसामर्यान्व।११॥ यथा अष्टाङ्गायुर्वदविद्भिषक् प्रयोगे अतिनिपुणो यथाकालवातायुदयात् प्राक् वमनविरेचनादिना अनुदीर्णमेव श्लेष्मादि निराकरोति, अकालमृत्युव्युदासार्थ रसायनं चोपदिशति, अन्यथा रसायनोपदेशस्य वैयर्थ्यम् । न'चादोऽस्ति ? अत आयुर्वेदसामर्थ्यादस्त्यकालमृत्युः । दुखःप्रतीकारार्थ इति चेत्, न; उभयथा दर्शनात् ।१२। स्यान्मतम्-दुःखप्रतीकारोऽर्थ आयुर्वेदस्येति ? तन्न; किं कारणम् ? उभयथा दर्शनात् । उत्पन्नानुत्पन्नवेदनयोहि चिकित्सादर्शनात् । कृतप्रणाशप्रसङग इति चेत्, न; दत्वव फलं निवृत्तः ॥१३॥ स्यान्मतम्-यद्यकालमृत्युरस्ति कृतप्रणाशः प्रसज्येत इति; तन्न; किं कारणम् ? दत्वैव फलं निवृत्तेः,नाकृतस्य २० कर्मणः फलमुपभुज्यते, न च कृतकर्मफलविनाशः, अनिर्मोक्षप्रसङगात्, दानादिक्रियारम्भाभा वप्रसङ्गाच्च । किन्तु कृतं कर्म कर्ने फलं दत्वेव निवर्तते विततार्द्रपटशोषवत् अयथाकालनिर्वृत्तः पाक इत्ययं विशेषः । इति तत्त्वार्थवातिके व्याख्यानालडकारे द्वितीयोऽध्यायः समाप्तः । १५ १"चरमदेहा इति वा पाठः" -स०, सि०,२॥५३॥ तुलना- 'प्रोपपातिकचरमवेहोत्तमपुरुषासंख्येयवायुषोऽनपवायुषः। (सू०) प्रौपपातिका चरमदेहा उत्तमपुरुषा:.." -त. भा०, २१५२ । २ अनुनयप्राप्तानां कर्मणामभिधानोदय उबीरणम् । ३ न वादो-पा०, २०,०, मु०।४ पुरुषयोः। ५ प्रसज्यते मा०, २०, २०, मु०ता०। ६-निवृत्तः १०, मू०। ७-यः। मा०,०, २०, म०, ता०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy