________________
२१५३]
द्वितीयोऽध्यायः नामकर्मचारित्रमोहनोकषायोदयाद्वेदत्रयसिद्धिः ।। नामकर्मणश्चारित्रमोहविकल्पस्य नोकपायस्य चोदयाद्वेदत्रयस्य सिद्धिर्भवति । वेद्यतः इति वेदो लिङ्गमित्यर्थः । तल्लिङ्गं द्विविधम्-द्रव्यलिङ्ग भावलिङ्गं चेति । नामकर्मोदयाद् योनिमेहनादि द्रव्यलिङ्गं भवति । नोकपायोदयाद्भावलिङ्गम् । तत्र स्त्रीवेदोदयात् 'स्त्यायत्यस्यां गर्भ इति स्त्री। पुवेदोदयात् सूते जनयत्यपत्यमिति पुमान् । नपुंसकवेदोदयात् तदुभयशक्तिविकलं नपुंसकम् । रूढिशब्दाश्चैते। रुढिष च क्रिया व्यत्पत्त्यथैव, यथा गच्छतीति गौरिति । इतरथा हिगर्भधारणादिक्रियाप्राधान्ये वालवृद्धानां तिर्यङमनुष्याणा देवाना कार्मणकाययोगस्थानाच तदभावात् स्त्रीत्वादिव्यपदेशो न स्यात । तत्र हि स्त्रीवेदो दारुवह्निवत, पंवेदस्तुणाग्निवत इष्टकाग्निवन्नपुसकवेदः। ते एते त्रयोऽपि वेदाः शेषाणा गर्भजाना भवन्ति ।
य इमे जन्मयोनिशरीरलिङ्गसंबन्धाहितविशेषाः प्राणिनो "निर्दिश्यन्ते देवादयो विचि- १० त्रधर्माधर्मवशीकृताश्चतसृषु गतिषु शरीराणि धारयन्तः किं यथाकालमुपभुक्तायुषो मूर्त्यन्तराण्यास्कन्दन्ति उत अयथाकालमपीति ? अत उत्तरं पठति
औपपादिकचरमोत्तमदेहाऽसंख्येयवर्षायुषोऽनपवायुषः॥५३॥ औपपादिका उक्ताः ।। उक्ता व्याख्याता औपपादिका देवनारका इति
चरमशब्दस्यान्तवाचित्वात्तज्जन्मनि निर्वाणाहग्रहणम् ।२। चरमशब्दोऽन्तपर्यायवाची। १५ चरमो देहो येषां त इमे चरमदेहा इति परीतसंसारास्तज्जन्मनि निर्वाणाहीं गृह्यन्ते ।।
उत्तमशब्दस्योत्कृष्टवाचित्वाच्चक्रधरादिग्रहणम् ।। अयमुत्तमशब्द उत्कृष्टवाची, उत्तमो देहो येषां त इमे उत्तमदेहा इति चक्रधरादिग्रहणं वेदितव्यम् ।
उपमाप्रमाणगम्यायुषोऽसंख्येयवर्षायुषः ।४। अतीतसंख्यानमुपमाप्रमाणेन पल्यादिना गम्यमायुर्येषा त इमेऽसंख्येयवर्षायुषस्तिर्यङमनुष्या' उत्तरकुर्वादिषु प्रसूताः ।।
बायप्रत्ययवशादायुषो ह्रासोऽपवर्तः ।५। बाह्यस्योपघातनिमित्तस्य 'विषशस्त्रादेः सति सन्निधाने ह्रासोऽपवर्त इत्युच्यते । अपवर्त्यमायुयेषां त इमे अपवायुषः, नापवायुषोऽनपवायुषः । एते औपपादिकादय उक्ता अनपवायुषाः, न हि तेषामायुषो बाह्यनिमित्तवशादपवर्तोऽस्ति ।
अन्त्यचक्रधरवासुदेवादीनामायुषोऽपवर्तदर्शनादव्याप्तिः ।६। उत्तमदेहाश्चक्रधरादयोऽन- २१ पवायुषः इत्येतल्लक्षणमव्यापि । कुतः ? अन्तस्य चक्रधरस्य ब्रह्मदत्तस्य वासुदेवस्य च कृष्णस्य अन्येषां च तादृशाना बाह्यनिमित्तवशादायुरपवर्तदर्शनात् ।
___ न वा; चरमशब्दस्योत्तमविशेषणत्वात् ।। न वैष दोषः । किं कारणम् ? चरमशब्दस्योत्तमविशेषणत्वात् । चरम उत्तमो देहो येषां ते चरमोत्तमदेहा इति ।
२०
१ अनभयते । २ धनीभवति, स्त्य संघाते । ३ -दो दारङ्गारवत् ता०। -दोऽङ्गारवत् प्रा०, ब०, २०, मु०, मू० । अङ्गारवदिति वा पाठः-१० टि०।४निरविसन्त इति या पाठः-५० टि० । निरदिश्यन्त प्रा०, ब०, द०, मु०।५-व्याणामु-प्रा०, ब०, द०, मु०, ता०। ६ उक्तञ्च-विषास्त्रघातभीरक्तक्षयसडक्लेशवेदनाः। आहारोच्छ्वासरोधाः स्युः आयुष्यच्छेदकारिण इति। विसवेयणरत्तक्खयभयसत्यग्गहणसंकिलेसेहिं । आहारुस्सासाणं णिरोहदो छिद्ददे पाऊ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org