SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थवार्तिके [२।५०-५१-५२ धिकानि,' आधिक्यपरिमाणं प्रागुक्तम्। भावतोऽन्यत्वम्-औदारिकादिस्वशरीरनामोदयात् सर्वाण्यौदयिकभावानि'। अल्पबहुत्वतोऽन्यत्वम्-सर्वतः स्तोकान्याहारकाणि, वैक्रियिकाण्यसंख्येयगुणानि । को गणाकारः ? असंख्याताः श्रेणयः, लोकप्रतरस्यासंख्येयभागाः । तत औदारिकाणि असंख्येयगुणानि । को गुणकार: ? असंख्येया लोकाः । तैजसकार्मणान्यनन्तगुणानि । को गुणकारः ? सिद्धानामनन्तगुणाः । आत्माधिश्रितकार्मणनिमित्तविजृम्भितानि शरीराणि बिभ्रतां संसारिणां चातुर्विध्यवतामिन्द्रियसंबन्धं प्रति विकल्पभाजां प्रति प्राणिनः किं त्रिलिङ्गसन्निधानम् उत लिङ्गनियमः कश्चिदस्तीति ? अत उत्तरं पठति नारकसम्मूछिनो नपुंसकानि ॥५०॥ धर्मार्थकाममोक्षकार्यनरणानराः ॥१॥ धर्मार्थकाममोक्षलक्षणानि कार्याणि नृणन्ति' नयन्तीति नराः। नरान् कायन्तीति नरकाणि ।२। शीतोष्णासद्वेद्योदयापादितवेदनया नरान् फायन्ति शब्दायन्त इति नरकाणि। नृणन्तीति वा ३॥ अथवा पापकृतः प्राणिन आत्यन्तिकं दुःखं नृणन्ति नयन्तीति ' नरकाणि। औणादिकः कर्तर्यकः । ___ नरकेषु भवा नारकाः । संमूर्च्छनं संमूर्छ:, स एषामस्तीति संमूच्छिनः। नारकाश्च संमूच्छिनश्च नारकसमूच्छिनः । - नपुंसकवेदाशुभनामोदयानपुंसकानि ।४। चारित्रमोहविकल्पनोकषायभेदस्य नपुंसक२. वेदस्याशुभनाम्नश्चोदयान्न स्त्रियो न पुमांस इति नपुंसकानि भवन्ति । नारकसंमूच्छिनो नपुंसकान्येवेति नियमः । तत्र हि स्त्रीपुसविषया मनोज्ञशब्दगन्धरूपरसस्पर्शसंबन्धनिमित्ता 'स्वल्पापि सुखमात्रा नास्ति। यद्येवमवध्रियते अर्थादापन्नमेतदुक्तेभ्योऽन्ये ये संसारिणः तेषां त्रिलिङ्गत्वमिति, यत्रात्यन्तनपुंसकलिङ्गस्याभावस्तत्प्रतिपादनार्थमाह न देवाः ॥५१॥ स्त्रीसविषयनिरतिशयसुखानुभवनाद् देवेषु नपुसकाभावः ।। स्त्रणं पोस्नं च यनिरतिशयं सुखं शुभगतिनामोदयापेक्षं तदेवानुभवन्तीति न तेषु नपुसकानि सन्ति । तच्चोपरि २५ वक्ष्यते। अथेतरे कियल्लिङ्गा इति ? अत आह शेषास्त्रिवेदाः ॥५२॥ त्रयो वेदा येषां ते त्रिवेदाः । के पुनस्ते? स्त्रीत्वं पुस्त्वं नपुसकत्वमिति । कथं तेषां सिद्धिः? १ एवमप्यनधिकानीति नाशडकनीयम्, गुणकारभागहारायोः प्रकर्षाप्रकर्षभावयोगादेवमुक्तम् । २-भावाः प्रा०, ब०, द०, मु०।३-ख्येयलो-ता०, श्र०।४न नये ऋचादिः, तस्य प्वादित्वात् प्वांहस्व इति ह्रस्वः। ५ कै गै रै शब्दे ऐधादिकः । शब्दादेः कृडवा इति क्या । ६ -प्रल्पापि प्रा०, ब०, द०, मु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy