________________
द्वितीयोऽध्यायः
'अन्तरतोऽन्यत्वम् - औदारिकादीनामेकजीवं प्रति वक्ष्यामि । मिश्रकं वर्जयित्वौदारिकस्यान्तर्मुहूर्तोऽन्तरं जघन्यम् । कतरोऽन्तर्मुहूर्तः ? औदारिकमिश्रकालोऽन्तर्मुहूर्तः । कथम् ? इह चातुर्गतिकः तिर्यङमनुष्येषूत्पन्नोऽन्तर्मुहूर्तमपर्याप्तको भूत्वा पर्याप्तकत्वं प्राप्याऽन्तर्मुहूर्त जीवित्वा मृतः, पुनस्तिर्यङमनुष्ययोरन्यतरत्रोत्सन्नः अपर्याप्तिमान्तर्मुहूर्तिकीमनुभूय पर्याप्तको जातः, लब्धमौदारिकान्तरम् । उत्कर्षेण त्रयस्त्रिशत्सागरोपमाणि सातिरेकाणि । कथम् ? यो मनुष्यस्त्रयस्त्रशत्सागरोपमायुष्केषु देवेषूत्पद्य स्थितिक्षये प्रच्युतः पुनर्मनुष्येषूत्पद्यते तस्य योपर्याप्तिकालस्तेनाधिकानि त्रयस्त्रिशत्सागरोपमाणि ।
२२४९ ]
१५५
freferrer जघन्यमन्तरमन्तर्मुहूर्तः । कथम् ? मनुष्यस्तिर्यग्वा मृतः दशवर्षसहस्रायुष्कदेवेषूत्पद्य च्युतः मनुष्येषु तिर्यक्षु चोत्पद्य अपर्याप्तकालमनुभूय पुनर्देवायुर्बद्ध्वा उत्पद्यते, लब्धमन्तरम् । वैक्रियिकस्योत्कर्षेणान्तरमनन्तकाल: । कथम् ? देवत्वाच्च्युतोऽ- १० नन्तकालं तिर्यङमनुष्येष्वटित्वा देवो जातः, अपर्याप्तकालमनुभूय वैक्रियिकशरीरो दृष्टः, लब्धमन्तरम् ।
आहारकस्यान्तरं जघन्यमन्तर्मुहूर्तः । प्रमत्तसंयत आहारकं निर्वत्यान्तर्मुहूर्तमाहारकेण स्थितः 'कृताहारकशरीरकार्यं उपसंहृत्य पुनर्लब्धिसन्निधानादन्तर्मुहूर्तमवस्थाय निर्वर्तयतीति लब्धमन्तरम् । उत्कर्षेणार्धपुद्गलपरिवर्तः अन्तर्महूर्तोनः । कथम् ? योऽनादि मिथ्यादृष्टिः १५ दर्शनमोहमुपशम्योपशमसम्यक्त्वं संयमं च युगपत्प्रतिपन्न उपशमसम्यक्त्वाच्च्युतो वेदकसम्यक्त्वेनोत्पद्य अन्तर्मुहूर्तं स्थितः सन्नप्रमत्त संयतस्थाने आहारकं बद्ध्वा ततः प्रमत्तसंयतो निर्वर्त्य मूलशरीरं प्रविश्य मिथ्यात्वं गतः सोऽर्धपुद्गलपरिवर्त देशोनमटित्वा मनुष्येषूत्पद्य पूर्वविधिना सम्यक्त्वमुत्पाद्याऽसंयतसम्यग्दृष्टिसंयतासंयतयोरन्यतरत्र दर्शन मोहं क्षपयित्वा संयमं प्रतिपद्याप्रमत्त आहारकस्य बन्धकः प्रमत्तो निर्वर्तयतीति लब्धमन्तरम् । अत्र' ये २० प्राथमिकाश्चत्वारोऽन्तर्मुहूर्तास्ते कतरे ? प्रथमो दर्शनमोहोपशमसम्यक्त्वसमानकालसंयमान्तमुहूर्तः । द्वितीयो वेदकसम्यक्त्वान्तर्मुहूर्तः । तृतीय आहारकबन्धान्तर्मुहूर्तः । चतुर्थं आहारकनिर्वृत्त्यन्तर्मुहूर्तः। एते चत्वार आद्या अन्तर्मुहूर्ताः, उत्तरकालमाहारकशरीर निर्वृत्त्यन्तर्मुहूर्तः पञ्चमः मूलशरीरं प्रविश्य प्रमत्ताप्रमत्ताभ्यां बहून् वाराननुभवतो बहवोऽन्तर्मुहूर्ता अतोऽधःप्रवृत्तकरणविशुद्धया विशुद्धो विश्रान्तः । अपूर्वकरणानिवृत्ति सूक्ष्मसाम्परायक्षीणकषायसयोग्य - २५ योगिनामेकैकोऽन्तमुहूर्तः । इयता कालेन हीनोऽर्धपुद्गलपरिवर्तः ।
तेजसकार्मणोर्नास्त्यन्तरं सर्वसंसारिषु सर्वकालं सन्निधानात् ।
संख्यातोऽन्यत्वम् - औदारिकाण्यसंख्येया लोकाः । वैक्रियिकाण्यसंख्याताः श्रेणयो 'लोकप्रतरस्यासंख्येयभागः । आहारकाणि संख्येयानि चतुःपञ्चाशत् । तैजसकार्मणान्यनन्तानि ' अनन्तानन्तलोकाः ।
प्रदेशतोऽन्यत्वम् - औदारिकस्यानन्ताः प्रदेशाः " अभव्यानामनन्तगुणाः सिद्धानामनन्तभागाः । एवं शेषाणां चतुर्णामपि शरीराणाम्, अनन्तस्यानन्तविकल्पत्वात् "उदुत्तरोत्तराण्य
१ अन्तरेऽन्य- प्रा०, ब०, ५०, मु०, ता० । २ वसः । ३ प्रकृता- प्रा०, ब०, ६०, मु० । ४ मिथ्यादर्शन- प्रा०, ब०, प०, मु० । ५ श्राहारकशरीरम् । ६ अन्तरकाले । ७ -हूर्ताः - श्र०, मू० । ८ श्रणिरपि कतरेत्यत श्राह । & कोऽर्थः । १० परमाणवः । अनन्तगुणे परे इत्युक्तम् । कथमेषां समानत्वमित्याशङ्कायामाह ।
११ प्रवेशतोऽसंख्येयगुणं प्राक तंजसात्
Jain Education International
५
For Private & Personal Use Only
३०
www.jainelibrary.org