________________
तत्वार्थवार्तिके
[२४९ वायोरौदारिकवैक्रियिकतजसकार्मणानि चत्वारि शरीराण्युक्तानि 'मनुष्याणां पञ्च । एवमप्यार्षयोस्तयोविरोधः;न विरोधः; आभिप्रायकत्वात् । जीवस्थाने सर्वदेवनारकाणां सर्वकालं वैक्रियिकदर्शनात् तद्योगविधिरित्यभिप्रायः, नैवं तिर्यङमनुष्याणां लब्धिप्रत्ययं वैक्रियिकं सर्वेषां सर्वकालमस्ति कादाचित्कत्वात्। व्याख्याप्रज्ञप्तिदण्डकेषु त्वस्तित्वमात्रमभिप्रेत्योक्तम् ।
आहारकं प्रमत्तसंयतस्य । तैजसकार्मणे सर्वसंसारिणाम् ।
सामर्थ्यतोऽन्यत्वम्-औदारिकस्य सामर्थ्य द्वधा भवगुणप्रत्ययत्वात् । तिर्यङमनुष्याणां सिंहाष्टापदचक्रधरवासुदेवादीनांप्रकृष्टावकृष्टवीर्यदर्शनाद्भवप्रत्ययम्। प्रकृष्टतपोबलानामृषीणां यच्छरीरविकरणसामर्थ्य तद् गुणप्रत्ययम् । तपःसामर्थ्य तदिति चेत् ; न; औदारिकशरीरादृते तपसः केवलस्य शरीरविकरणसामर्थ्याभावात् । वैक्रियिकस्य सामर्थ्य मेरुप्रचलनसकलमहीमण्डलोद्वर्तनादि। आहारकस्य सामर्थ्यमप्रतिहतवीर्यता। वैक्रियिकस्याप्यप्रतिहतसामर्थ्य वज्रपटलादिष्वप्रतिघातदर्शनादिति चेत्, न; इन्द्रसामानिकादीनां प्रकर्षाप्रकर्षदर्शनात्, अनन्तवीर्ययतिना चेन्द्रवीर्यस्य प्रतिघातश्रुतेः सप्रतिघातसामर्थ्य वैक्रियिकम् । सर्वाणि चाहारकशरीराणि तुल्यवीर्यत्वादप्रतिहतत्वाच्च अप्रतिघातवीर्याणि । तेजसस्य सामर्थ्य कोपप्रसादापेक्षं दाहानुग्रहरूपम् । कार्मणस्य सामर्थ्य सर्वकर्मावकाशदानम् ।
प्रमाणतोऽन्यत्वम्-सर्वजघन्येनाङगुलासंख्येयभागप्रमाणं सूक्ष्मनिगोतौदारिकम्, उत्कर्षण १५
साधिकयोजनसहस्रप्रमाणं नन्दीश्वरवापीपद्मौदारिकम् । वैक्रियिक मूलशरीरतो जघन्येनारनिप्रमाणं सर्वार्थसिद्धिदेवस्य, उत्कर्षेण पञ्चधनुःशतप्रमाणं तमस्तमःप्रभायां नारकस्य । विक्रिययोत्कर्षेण जम्बूद्वीपप्रमाणं वैक्रियिकं शरीरं विकरोति देवः । आहारकमरलिप्रमाणम् । तेजसकार्मणे जवन्येन यथोपात्तौदारिकशरीरप्रमाणे, उत्कषण केवलिसमुद्घाते सर्वलोकप्रमाणे।
क्षेत्रतोऽन्यत्वम्-औदारिकवैक्रियिकाहारकाणि लोकस्यासंख्येयभागक्षेत्रे । तैजसकार्मणे लोकस्यासंख्येयभागे असंख्येयेषु वा भागेषु सर्वलोके वा प्रतरलोकपूरणयोः ।
स्पर्शनतोऽन्यत्वम्-औदारिकादानीम् एकजीवं प्रति वक्ष्यामः । औदारिकेण तिर्यग्भिः' सर्वलोकः स्पृष्टः । मनुष्यः लोकस्यासंख्येयभागः । मूलवक्रियिकशरीरेण लोकस्यासंख्येयभागा उत्तरवैक्रियिकेणाऽष्टौ चतुर्दशभागा देशोनाः । कथम् ? सौधर्मदेवः स्वपरप्राधान्यादारणाच्युतविहारात् षड्रज्जूर्गच्छति । स्वप्राधान्यात् अध आवालुकपृथिव्या द्वे रज्जू इति । आहारकेण लोकस्यासंख्येयभागं स्पृशति । तैजसकार्मणाभ्यां सर्वलोकम् ।
कालतोऽन्यत्वम्-एक जीवं प्रति वक्ष्यामः । मिश्रकं वर्जयित्वौदारिकस्य तिर्यङमनुष्याणां जघन्येनान्तर्मुहूर्तः, उत्कर्पण त्रीणि पल्योपमान्यन्तमुहूर्तोनानि । स चान्तर्मुहूर्तोऽपर्याप्तकालः । वैक्रियिकस्य देवान् प्रति मूलवैक्रियिकदेहस्य जघन्येन दशवर्षसहस्राणि अपर्याप्तकालान्तर्मुहूर्तोनानि, उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि अपर्याप्तकालान्तर्मुहूर्तोनानि । उत्तरवैक्रियिकस्य जघन्य उत्कृष्टश्चाऽन्तर्मुहूर्तः । तीर्थकरजन्मनन्दीश्वराहदायतनादिपूजासु कथमिति चेत् ? पुनः पुनर्विकरणात् सन्तत्यविच्छेदः । आहारकस्य कालो जघन्य उत्कृष्टश्चाऽन्तमुहूर्तः । तेजसकार्मणयोः सन्तत्यादेशाद् अभव्यान् प्रत्यनादिरपर्यवसानः कालः, भव्यांश्च कांश्चित् प्रति ये
अनन्तेनापि कालेन न सेत्स्यन्ति । ये सेत्स्यन्ति तान् प्रत्यनादिः सपर्यवसानः । एकसमयिक: ३१ निषेकं प्रति । तैजसस्य षट्षष्टिसागरोपमाणि । कार्मणस्य कर्मस्थितिः सप्ततिसागरोपमकोटिकोटयः ।
१-णां च एव प्रा०,ब०,२०, मु०। २ जीवः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org