________________
.
४] द्वितीयोऽध्यायः
१५३ कदाचिल्लब्धिविशेषसद्भावज्ञानार्थ कदाचित्सूक्ष्मपदार्थनिर्धारणार्थ संयमपरिपालनार्थ च भरतरावतेषु केवलिविरहे जातसंशयस्तन्निर्णयार्थ महाविदेहेषु केवलिसकाशं जिगमिषुरौदारिकेण में महानसंयमो भवतीति विद्वानाहारक निवर्तयति ।
___ आहारकमिति प्रागुक्तस्य प्रत्याम्नायः ५। एवं प्रकारमाहारकमित्येतस्य प्रतिपादनार्थ पुनस्तस्य प्रत्याम्नायः क्रियते ।
प्रमत्तसंयतग्रहणं स्वामिविशेषप्रतिपत्त्यर्थम् ।६। यदा आहारकशरीरं निवर्तयितुमारभते तदा प्रमत्तो भवतीति प्रमत्तसंयतस्येत्युच्यते ।
इष्टतोऽवधारणार्थमेवकारोपादानम् ।७। यथैवं विज्ञायते (येत) 'प्रमत्तसंयतस्यैवाहारकं नान्यस्य' इति, मैवं विज्ञायि 'प्रमत्तसंयतस्याहारकमेव' इति, माभूदौदारिकादिनिवृत्तिरिति ।
एषां शरीराणां परस्परतः संज्ञा-स्वालक्षण्य-स्वकारण-स्वामित्व-सामर्थ्य-प्रमाण-क्षेत्र- १० स्पर्शन-काला-ऽन्तर-संख्या-प्रदेश-भावा-ऽल्पबहुत्वादिभिविशेषोऽवसेयः ।। उक्तानुक्तार्थसंग्रहार्थमिदं वाक्यम् ।
तत्र संज्ञातोऽन्यत्वमौदारिकादीनां घटपटादिवत् । स्वालक्षण्यान्नानात्वम्-स्थौल्यलक्षणमौदारिकम् । विविद्धिगुणयुक्त विकरणलक्षणं वैक्रियिकम् । दुरधिगमंसूक्ष्मपदार्थतत्त्वनिर्णयलक्षणमाहारकम् । शङ्खधवलप्रभालक्षणं तैजसम् । तद्विविधम्-निःसरणात्मकमितरच्च । औदारिकवैक्रियिकाहारकदेहाभ्यन्तरस्थं देहस्य दीप्ति- १५ हेतुरनिःसरणात्मकम् । यतेरुग्रचारित्रस्यातिकद्धस्य जीवप्रदेशसंयुक्त बहिनिष्क्रम्य दाह्यं परिवृत्यावतिष्ठमानं "निष्पावहरितफलपरिपूर्णा स्थालीमग्निरिव पचति, पक्त्वा च निवर्तते, अथ चिरमवतिष्ठते 'अग्निसाद् दाह्योऽर्थो भवति, तदेतन्निःसरणात्मकम् । सर्वकर्मशरीरप्ररोहणलक्षणं कार्मणम् ।
स्वकारणतोऽन्यत्वम्-औदारिकशरीरनामकारणमौदारिकम्, वैक्रियिकशरीरनामकारणं .. वेक्रियिकम् । आहारक शरीरनामकारणमाहारकम्, तैजसशरीरनामकारणं तैजसम्, कार्मणशरीरनामकारणं
स्वामिभेदादन्यत्वम्-औदारिक तिर्यङमनुष्याणाम्, वैक्रियिक देवनारकाणाम्, तेजोवायुकायिकपञ्चेन्द्रियतिर्यङमनुष्याणां च केषाञ्चित् ।
आह चोदकः-जीवस्थाने योगभङ्गे सप्तविधकाययोगस्वामिप्ररूपणायाम् - "औदा- १५ रिककाययोगः औदारिकमिश्रकाययोगश्च तिर्यडमनुष्याणाम, वैक्रियिककाययोगो वैक्रियिकमिश्रकाययोगश्च देवनारकाणाम्" [ षट् खं०] "उक्तः, इह तिर्यङमनुष्याणामपीत्युच्यते; तदिदमार्षविरुद्धमिति; अत्रोच्यते-न, अन्यत्रोपदेशात् । व्याख्याप्रज्ञप्तिदण्डकेषु शरीरभङ्गे
१ जानन् । २ पुरुषैः। -यक्तविकरणं 4-प्रा० ब०, द, मु०। ३-संपृक्तं प्रा०, ब०, द०, मु०, ता०। ४ निष्पावहरितपरिपूर्णा प्रा०, ब०, द०। निष्पावकहरितपरिपूर्ण मु०। निष्पावः प्रवरे- (कर्नाटक प्रान्ते धान्यविशेष रूढोऽयम्)। ५ भस्मीकृतदाह्यार्थः । ६-हल- प्रा०, २०, २०, मु०।७"पोरालियकायजोगो मोरालियमिस्सकायजोगो तिरिक्खमणुस्साणं । वेउब्वियकायजोगो वेउव्यियमिस्सकायजोगो देवणेरइयाणं।" -षटखं० सं० स० ५७, ५८ । ८ तुलना-“उब्वियसरीरप्पयोगबंधे णं भंते, कतिविहे पन्नत्ते? गोयमा, विहे पन्नते, तं जहा-एगिदियवेउब्वियसरीरप्पयोगबंधे य पंचिदियवेउब्वियसरीरप्पयोगबंधेय। (स०३४८) तत्र एगिवियवेउग्विए त्यादि वायुकायिकापेक्षमुक्तं पंचिदिएत्यादि तु पञ्चेन्द्रियतिर्यडमनष्यदेवनारकापेक्षमिति: "वैक्रियकरणलब्धि वा प्रतीत्य, एतच्च वायुपञ्चेन्द्रियतिर्यबमनुष्यानपेक्ष्योक्तम्....."-व्याख्याप्रज्ञ. प्रभ०१०७७३-1
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org