________________
१५२ तत्त्वार्थवार्तिके
[२१४८-४९ निश्चयकादाचित्ककृतो विशेषो लब्ध्युपपादयोः ।३। उपपादो हि निश्चयेन भवति जन्मनिमित्तत्वात्, लब्धिस्तु कादाचित्की' जातस्य सत उत्तरकालं तपोविशेषाद्यपेक्षत्वादिति, अयमनयोविशेषः।
सर्वशरीराणां विनाशित्वाक्रियिकविशेषानुपपत्तिरिति चेत् न; विवक्षितापरिज्ञानात्।४। ५ स्यान्मतम्-विक्रिया विनाशः, सा च सर्वशरीराणां साधारणी मुहुर्मुहुरुपचयापचयधर्मत्वादु
च्छेदाच्च', ततो न वैक्रियिके कश्चिद्विशेषोऽस्तीति ? तन्न; कि कारणम् ? विवक्षितापरिज्ञानात् । नात्र विक्रियेति विनाशो विवक्षितः । किं तर्हि ? विविधकरणं विक्रिया। सा द्वेधाएकत्वविक्रिया पृथक्त्वविक्रिया चेति । तत्रैकत्वविक्रिया स्वशरीरादपृथग्भावेन सिंहव्याघहंसकु
ररादिभावेन विक्रिया। पृथक्त्वविक्रिया स्वशरीरादन्यत्वेन प्रासादमण्डपादिविक्रिया । सा १० उभयी च विद्यते भवनवासिव्यन्तरज्योतिष्ककल्पवासिनाम् । वैमानिकानाम् आसर्वार्थसिद्धेः
प्रशस्तरूपैकत्वविक्रियैव । नारकाणां त्रिशूलचक्रासिमुद्गरपरशु भिण्डिवालाद्यनेकायुधैकत्वविक्रिया न पृथक्त्वविक्रिया आ पष्ठ्याः । सप्तम्यां महागोकीटकप्रमाणलोहितकुन्थुरूपैकत्वविक्रिया, नानेकप्रहरणविक्रिया, न च पृथक्त्वविक्रिया । तिरश्चां मयूरादीनां कुमारादिभावं' प्रति
विशिष्टैकत्वविक्रिया न पृथक्त्वविक्रिया। मनुष्याणां तपोविद्यादिप्राधान्यात् 'प्रतिविशिष्टकत्व१५ पृथक्त्वविक्रिया। किमेतदेव लब्ध्यपेक्षमुतान्यदप्यस्ति इति ? अत आह--
तैजसमपि ॥४॥ ननु च वैक्रियिकानन्तरमाहारकं वक्तव्यम्, अकालप्राप्तं तैजसं किमर्थमिहोच्यते ?
लब्धिप्रत्ययापेक्षार्थ तेजसग्रहणम् ॥१॥ लब्धिप्रत्ययमित्यनुवर्तते, तदभिसमीक्ष्येह तैज२० सग्रहणं क्रियते।
वैक्रियिकानन्तरं यदुपदिष्टं तस्य स्वरूपनिर्धारणार्थ स्वामिनिदर्शनार्थ चाह--
शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव ॥४६॥ शुभकारणत्वाच्छुभव्यपदेशोऽन्नप्राणवत् ॥१॥ यथा 'प्राण कारणेषु अन्नेषु प्राण व्यपदेशः 'अन्नं वै प्राणाः' इति, तथा शुभकर्मण आहारककाययोगस्य कारणत्वादाहारकं शरीरं २५ शुभमित्युच्यते ।
विशुद्ध कार्यत्वाद्विशुद्धाभिधानं कार्पासतन्तुवत् ।२। यथा कार्यासकार्येषु तन्तुषु कासिव्यपदेशः कार्पासास्तन्तव इति । तथा विशुद्धस्य पुण्यकर्मणोऽशबलस्य निरवद्यस्य कार्यत्वाद्विशुद्धमित्याख्यायते ।
उभयतो व्याघाताभावादव्याधाति ।३। न याहारकशरीरेणान्यस्य व्याघातो नाप्यन्ये३० नाहारकस्येत्यभयतो व्याघाताभावादव्याघातीति व्यपदिश्यते ।।
__चशब्दस्तत्प्रयोजनसमुच्चयार्थः ।।। तस्य प्रयोजनसमुच्चयार्थश्चशब्द: क्रियते । तद्यथा
१-कादाचित्कीकृतो प्रा०, ब०, म०। २-चित्कोतिजा- प्रा०, ब०, २०, मु०, ता० । ३ -पपत्तेरिति श्र०। ४ मरणकाले। ५ कल्पातीतानाम् । ६-भिण्डिपाला-म० । ७ यो वृद्धो मयूरः स कमारत्वेन विकरोतीत्यादि योज्यम् । प्रतिविशेषक- श्र०। ९ बसः । अन्नकारणेषु प्राणेषु अन्नव्यप- प्रा०, ब०, द०, ज०, ता०, श्र०, मू०। १० शुभ व्यापारस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org