________________
मागा
रा४४-४७]
द्वितीयोऽध्यायः
निरुपभोगमन्त्यम् ॥४४॥ सूत्रक्रमापेक्षया अन्ते भवमन्त्यं कार्मणम्, निरुपभोगमिति वचनात् अर्थादापन्नमेतदितराणि सोपभोगानीति।
कर्मादाननिर्जरासुखदुःखानुभवनहेतुत्वात् सोपभोगमिति चेत्, न; विवक्षितापरिज्ञानात् ।। स्यान्मतम्-कार्मणकाययोगेन कर्मादत्ते निर्जरयति च, सुखदुःखं चानुभवति, ततः सोपभोगमेव न निरुपभोगमिति ? तन्न; किं कारणम् ? विवक्षितापरिज्ञानात् । विवक्षितमुपभोगमपरिज्ञाय परेणेदं चोदितम् । कोऽसौ विवक्षित उपभोगः ?
इन्द्रियनिमित्तशब्दाद्युपलब्धिरुपभोगः ॥२॥ इन्द्रियप्रणालिकया शब्दादीनामुपलब्धिरुपभोग इत्युच्यते । विग्रहगतौ सत्यामपीन्द्रियोपलब्धौ द्रव्येन्द्रियनिर्वृत्त्यर्थाभावात् शब्दादिविषयानुभवाभावान्निरुपभोगं कार्मणमिति कथ्यते।
ननु तैजसमपि निरुपभोगं तत्र किमुच्यते निरुपभोगमन्त्यमिति ? अत आह--
तेजसस्य योगनिमित्तत्वाभावादनधिकारः।। तेजसं शरीरं योगनिमित्तमपि न भवति ततोऽस्योपभोगविचारेऽनधिकारः । ततो योगनिमित्तेषु शरीरेष्वन्त्यं निरुपभोगं सोपभोगानीतराणीत्ययमर्थोऽत्र विवक्षितः ।
___ तत्राम्नातलक्षणेषु जन्मस्वमूनि शरीराणि प्रादुर्भावमापद्यमानानि किमविशेषेण १५ भवन्ति उत कश्चिदस्ति प्रतिविशेषः ? अस्तीत्याह--
गर्भसम्मूर्छनजमाद्यम् ॥४५॥ सूत्रक्रमापेक्षया आदौ भवमाद्यमौदारिकमित्यर्थः । यद् गर्भजं यच्च संमूर्च्छन तत्सर्वमौदारिकं द्रष्टव्यम् । तदनन्तरं यन्निर्दिष्टं तत्कस्मिन् जन्मनीति ? अत आह
औपपादिकं वैक्रियिकम् ॥४६॥ उपपादे भवमौपपादिकम्, "अध्यात्मादित्वात् इकः । यदीपपादिकं तत्सर्व वैक्रियिक वेदितव्यम् । यद्यौपपादिकं वैक्रियिकमनौपपादिकस्य वैक्रियिकत्वाभाव इति ? अत आह
लब्धिप्रत्ययं च ॥४७॥ वैक्रियिकमित्यभिसंबध्यते ।
प्रत्ययशब्दस्यानेकार्यत्वे विवक्षातः कारगगतिः ।। अयं प्रत्ययशब्दोऽनेकार्थः । क्वचिज्ज्ञाने वर्तते, यथा अर्थाभिधानप्रत्यया इति । क्वचित्सत्यतायां वर्तते, प्रत्ययं कुरु सत्यं कुर्वित्यर्थः । क्वचित्कारणे वर्तते मिथ्यादर्शनाविरतिप्रमादकषाययोगाः प्रत्यया इति । तत्रह विवक्षात: कारणपर्यायवाची वेदितव्यः ।
तपोविशेषद्धिप्राप्तिर्लब्धिः ।२। तपोविशेषाद् ऋद्धिप्राप्तिर्लब्धिरित्युच्यते । लब्धिः प्रत्ययो यस्य तल्लब्धिप्रत्ययम् । अथ लब्ध्युपपादयोः को विशेषः ?
१ चोद्यते श्र० मू० । २ निस्यभा-प्रा०, म०, २०, मु०, ता० । ३ -यानुभवनाभा- मा०, ५०, मु०। ४ "अध्यात्मादेः ठशिष्यते" -पा०, सू०, वा०, ४॥३॥६०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org