________________
५
१०
१५
२०
२५
१५०
तत्वार्थवार्तिके
[ २२४२-४३
ननु चानादेरपि बीजवृक्ष सन्तानस्याग्निसम्बन्धे सत्यन्तो दृष्टः ; न; तस्यैकान्तेनाऽनादित्वाभावात् । बीजवृक्षौ हि विशेषापेक्षया आदिमन्ताविति । तस्मात् साधूवतं केनचित्प्रकारेण अनादि: सबन्धः केनचित्प्रकारेणादिमानिति ।
त एते तेजसकार्मणे किं कस्यचिदेव भवतः उताऽविशेषेणेति ? अत आह-
सर्वस्य ॥४२॥
सर्वशब्दो निरवशेषवाची |१| निरवशेषस्य संसारिणो जीवस्य ते द्वे अपि शरीरे भवत
इत्यर्थः ।
संसरणधर्म सामान्यादेकवचननिर्देशः |२|
संसरणधर्म सामान्ययोगादेकवचननिर्देशः क्रियते । यदि हि कस्यचित् संसारिणस्ते न स्यातां संसारित्वमेवास्य न स्यात् । अविशेषाभिधानात्तैरौदारिकादिभिः सर्वस्य संसारिणो यौगपद्येन संबन्धप्रसङ्गे संभवि
शरीरप्रदर्शनार्थमिदमुच्यते-
तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः ||४३||
तद्ग्रहणं प्रकृतशरीरद्वयप्रतिनिर्देशार्थम् |१| प्रकृते द्वे शरीरे तेजसकार्मणे, तत्प्रतिनिशार्थं तदित्युच्यते ।
आदिशब्देन व्यवस्थावाचिना शरीरविशेषणम् |२| पूर्वसूत्रे व्यवस्थितानां शरीराणामानुपूर्व्यप्रतिपादनेन आदिशब्देन विशेषणं क्रियते, ते आदिर्येषां तानीमानि तदादीनीति | ★ पृथक्त्वादेव तेषां भाज्यग्रहणमनर्थकमिति चेत्; न; एकस्य द्वित्रिचतुः शरीरसंबन्धविभागोपपत्तेः ॥३॥ स्यान्मतम् - भाज्यानि पृथक् कर्तव्यानीत्यर्थः, तान्यौदारिकादीनि परस्परत आत्मनश्च पृथग्भूतान्येव लक्षणभेदादतो भाज्यग्रहणमनर्थकमिति; तन्न; किं कारणम् ? एकस्य द्वित्रिचतुः शरीरसंबन्ध विभागोपपत्तेः । कस्यचिदात्मनो द्वे तैजसकार्मणे, अपरस्य त्रीणि औदारितैजसकार्मणानि वैक्रियिकतै जसकार्मणानि वा अन्यस्य चत्वारि औदारिकाऽऽहारकतैजसकार्मणानीति विभागः क्रियते ।
युगपदिति |४| 'युगपत्' इत्ययं निपातः कालैकत्वे द्रष्टव्यः, एकस्मिन् काले । कालभेदे तु पञ्चापि भवन्त्येव ।
आङ भिविध्यर्थः | ५| आयमभिविध्यर्थो द्रष्टव्यः तेन चत्वार्यपि कस्यचिद्भवन्ति । मर्यादायां सत्यां चत्वारि न स्युः । अथ पञ्च युगपत् कस्मान्न भवन्तीति ?
वैकिाहारयोर्युगपदसंभवात् पञ्चाभावः | ६| यस्य संयतस्याहारकं न तस्य वैकिfast, यस्य देवस्य नारकस्य वा वैक्रियिकं न तस्याहारकमिति युगपत् पञ्चानामसंभवः । पुनरपि तेषां शरीराणां विशेषप्रतिपत्त्यर्थमाह-
१ क्रम । २ श्रदारिकं वैक्रियिकमित्यादि श्रथवा श्रात्मनः सकाशात् । ३ कश्चिद् देवो मनुष्यगतिमवाप्य दीक्षामुपादाय प्रमत्तसंयतः सन् श्राहारकशरीरं निर्वर्तयति । तस्य देवचरस्य संयतस्य अपेक्षया पञ्चापि भवन्ति घृतघटवत् । प्रमत्तसंयतस्य श्राहारकवै क्रियिकशरीरोदयत्वेऽपि तयोरेकाले प्रवृत्त्यभावात् एकतरत्यागेन युगपदौदारिकतेजसकार्मणाहारकाणि चत्वारि, वैक्रियिकं वा अस्तित्वमाश्रित्य पञ्चापि भवन्ति । तदुक्तम् - श्राहारयवेगुव्विय किरिया ण समं पमत्तविरदम्म । जोगोवि एक्ककाले एक्केव य होदि नियमेण ॥ इति 1 लब्धिप्रत्ययवं क्रियिकापेक्षया योज्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org