SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ २/४०-४१ ] द्वितीयोऽध्यायः तत्रैतत् स्यात् - शल्यकवन्मूर्तिमद्द्रव्योपचितत्वात् संसारिणो जीवस्याभिप्रेतगतिनिरोधप्रसङ्ग इति; तन्न ; किं कारणम् ? यस्मादुभे अप्येते १४९ अप्रतीघाते ||४०|| 'प्रतीघातो मूर्त्यन्तरेण व्याघातः |१| मूर्तिमतो मूर्त्यन्तरेण व्याघातः प्रतीघात इत्युच्यते । 'तदभावः सूक्ष्मपरिणामादयः पिण्डे तेजोऽनुप्रवेशवत् ॥ २॥ यथा अयःपिण्डस्यान्तः सूक्ष्मपरिणामात्तेजोऽनुप्रवेश दृष्टस्तथा तैजसकार्मणयोरपि नास्ति वज्रपटलादिषु व्याघात इत्यप्रतीघाते इत्युच्यते । वैrयिकाहारयोरप्यप्रतीघात इति चेत्; न; सर्वत्र विवक्षितत्वात् । ३ । स्यान्मतम् - वैक्रियिकाहारकयोरपि प्रतीघातो नास्ति सूक्ष्मपरिणामादेव, तत्र किमुच्यते तैजसकार्मणे १० एवाप्रतीघाते इति ? तन्न; किं कारणम् ? सर्वत्र विवक्षितत्वात् । आलोकान्तात् सर्वत्र तैजसकार्मणयोर्नास्ति प्रतीघात इत्ययं विशेषो विवक्षितः, वैक्रियिकाहारकयोस्तु न तथा, अस्ति प्रतीघातः । आह किमेतावानेव विशेष आहोस्वित् कश्चिदन्योऽप्यस्ति इति ? अत आह— अनादिसम्बन्धे च ॥४१॥ अथवा, अनादित्वादात्मनः शरीरस्यादिमत्वाद्विकरणस्य आदिशरीरसम्बन्ध किं कृतः इति ? अत आह—- अनादिसम्बन्धे चेति । चशब्दः किमर्थ : ? शब्दो विकल्पार्थः | १| चशब्दो विकल्पार्थो वेदितव्यः, अनादिसंबन्धे सादिसंबन्धे चेति । कथमिति चेत् ? उच्यते बन्धसन्तत्यपेक्षया अनादिः सम्बन्धः सादिश्च विशेषतो बीजवृक्षवत् । २ । यथा वृक्षो २० बीजादुत्पन्नः तच्च बीजमपरस्माद् वृक्षात् स चापरस्माद्बीजादिति कार्यकारणसंबन्धसामान्यापेक्षया अनादिसंबन्धः, अस्माद बीजादयं वृक्षोऽस्माच्च" वृक्षादिदं बीजमिति विशेषापेक्षया सादिः । एवं तैजसकार्मणयोरपि पौनर्भविकनिमित्तनैमित्तिकसन्तत्यपेक्षया अनादिसंबन्धः, विशेषापेक्षया सादिरिति । ५ २५ एकान्तेनादिमत्त्वे अभिनवशरीरसंबन्धाभावो निर्निमित्तत्वात् । ३ | यस्यैकान्तेनादिमान् शरीरसंबन्धः तस्य प्रागात्यन्तिकीं शुद्धिमादधतो जीवस्याभिनवशरीरसंबन्धो न स्यात् । कुतः ? निर्निमित्तत्वात् । १ प्रतिधा- प्रा०, ब०, द० । २ श्र० प्रतौ नास्त्येतत् वार्तिकचिह्नाङकितम् - सम्पा० । ३ ततः सर्वत्राप्रतीघाते इति व्याख्येयम्, सोपस्काराणि सूत्राणीत्यभिधानात् । ४ तथानास्ति प्रा०, ब०, द०, श्र० । ५ त्रसनाल एवावस्थानात् । ६ श्रतीन्द्रियस्यात्मनः । ७-स्माद् - श्र० । ८ यथा साविश- श्रा० १ ब, ब०, मु० । यथा शरीर- प्रा०, मू०, ता० । Jain Education International १५. मुक्तात्माभावप्रसङ्गश्च ॥४॥ यद्येकान्तेन सादिसंबन्ध: ; 'यथा आदिशरीरमकस्मात् संबध्यते एवं मुक्तात्मनोऽप्याकस्मिक शरीरसंबन्धः स्यादिति मुक्तात्माभावप्रसङगः स्यात् । एकान्तेनानादित्वे चानिर्मोक्षप्रसङ्गः । ५ । अथैकान्तेनानादित्वं कल्प्यते; एवमपि यस्यानादित्वं तस्यान्तोऽपि नास्तीत्याकाशवत् कार्यकारणसंबन्धाभावात्, ततश्चानिर्मोक्षः प्रसजति । ३० For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy