________________
तत्वार्थवार्तिके
[ २२३९
परं परमित्यनुवृत्तेः प्राक् तैजसादिति वचनम् | ३ | 'परं परम्' इत्यनुवर्तते, तेन आकार्मणादसंख्येयगुणत्वे प्राप्ते मर्यादानिर्णयार्थ प्राक् तैजसादित्युच्यते ।
प्रदेशत इति विशेषणमवगाह क्षेत्रनिवृत्त्यर्थम् |४| प्रदेशतः परं परमसंख्येयगुणं नावगा - क्षेत्र इत्येतस्य प्रतिपत्त्यर्थ' 'प्रदेशतः' इति विशेषणमुपादीयते । तेनैतदुक्तं भवति - औदा५ रिकाद्वैक्रियिकमसंख्येयगुणप्रदेशं वैक्रियिकादाहा रकम संख्येयगुणप्रदेशमिति । को गुणकारः ? पल्योपमस्यासंख्येयभागः ।
उत्तरोत्तरस्य महत्त्वप्रसङ्ग इति चेत्; न; प्रचयविशेषादयः पिण्डतूलनिचयवत् |५| स्यान्मतम् - यद्युत्तरोत्तरमसंख्येयगुणप्रदेशं परिमाण महत्त्वेनापि भवितव्यमिति ? तन्न; किं कारणम् ? प्रचयविशेषादयः पिण्डतूलनिचयवत् । यथा अयः पिण्डस्य बहुप्रदेशत्वेऽपि अल्पपरि१० माणत्वं तूलनिचयस्य चाल्पप्रदेशत्वेऽपि महापरिमाणत्वं प्रचयविशेषात्, तथा उत्तरस्य शरीरस्यासंख्येयगुण प्रदेशत्वेऽपि अल्पपरिमाणत्वं बन्धविशेषाद्वेदितव्यम् ।
१५
२०
१४८
३०
उक्तं प्राक् तैजसात् परं परमसंख्येयगुणमिति, अथोत्तरयोः किं समप्रदेशत्वमुतास्ति कश्चिद्विशेषः ? अस्तीत्याह
अनन्तगुणे परे ||३६|
प्रदेशत इत्यनुवर्तते । तेनैवमभिसम्बन्धः क्रियते आहारकात्तैजसं प्रदेशतोऽनन्तगुणं तेजसात् कार्मणं प्रदेशतोऽनन्तगुणमिति को गुणकारः ? अभव्यानामनन्तगुणः सिद्धानामनन्तभागः । अनन्तगुणत्वादुभयोस्तुल्यत्वमिति चेत्; न; अनन्तस्यानन्तविकल्पत्वात्' |१| स्यादेतत्अनन्तगुणत्वादुभयोस्तैजसकार्मणयोस्तुल्यत्वमिति; तन्न; किं कारणम्
अनन्तस्यानन्त
अविकल्पत्वात् । अनन्तो ह्यनन्तविकल्पः संख्ये यस्य संख्येयविकल्पवत् ।
आहारकादुभयोरनन्तगुणत्वमिति चेत्; न; परं परमित्यभिसंबन्धात् ॥ २॥ स्यान्मतम् - आहाकादुभयोरनन्तगुणत्वमेव गम्यते न तैजसात् कार्मणस्यानन्तगुणत्वम्, अतस्तयोस्तुल्यप्रदेशत्वं प्राप्नोतीति; तन्न; किं कारणम् ? परं परमित्यभिसंबन्धात् परं परमनन्तगुणमिति गम्यते ।
परस्मिन् सत्यारातीयस्यापरत्वात् परापर इति निर्देशः | ३ | परं कार्मणं तस्मिन् सति तैजसमपरं भवत्यतः परापरे इति निर्देशो न्याय्यः ।
२५
न वा बुद्धिविषयव्यापारात् ॥४॥ न वैष दोषः । किं कारणम् ? बुद्धिविषयव्यापारात् । न शब्दोच्चारणक्रमेण तैजसकार्मणयोः परव्यपदेशः । किं तर्हि ? तिर्यग्व्यवस्थाप्य आहारकात् परे इति व्यपदेशः ।
बुद्ध्या तैजसकार्मणे
व्यवहिते वा परशब्दप्रयोगात् । ५१ अथवा व्यवहिते परशब्दप्रयोगो दृश्यते यथा परा पाटलिपुत्रात् मथुरेति, तथा आहारकात्तैजसस्य परत्वम् तैजसेन व्यवहितस्यापि कार्मणस्य परत्वमिति 1
7
बहुद्रव्योपचितत्वात्तदुपलब्धिप्रसङ्ग इति चेत्; न; उक्तत्वात् | ६ | स्यादेतत्- बहुद्रव्योपचितत्वात् तैजसकार्मणयोरुपलब्धिः प्राप्नोतीति ? तन्नः किं कारणम् ? उक्तत्वात् । उक्तमेतत्- प्रचयविशेषात् सूक्ष्मपरिणाम इति ।
१ तस्समयबद्ध वग्गणश्रोगाहो सूइचंगुलासंख । भाग हि दवद गुलमुरुवर तेण भजिदकमा । २ श्रवगाहक्षेत्रस्य । ३ - विकल्पात् श्रा०, ब०, ६०, मु० । ४ संबन्धत्वात् प्रा०, ब०, द०, मु० । ६ समुच्चयेन । ७ दर्शनमित्यर्थः ।
५ समान पङ्क्त्या ।
८ कारणमुक्तमेतत् प्रा०, ब, द०, मु० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org