________________
२०३७-३८]
द्वितीयोऽध्यायः इतरथा हयनिर्मोक्षप्रसङगः ।१६। यदि कार्मणमनिमित्तमिति गृहयेत; अनिर्मोक्षः स्यात्, अहेतुकस्य विनाशहेतुत्वाभावात् ।
अशरीरं विशरणाभावादिति चेत्, न; उपचयापचयधर्मत्वात् ।१७। स्यादेतत्-यथौदारिकादि शीर्यत इति शरीरं न तथा कार्मणं शीर्यत इत्यशरीरत्वमस्येति; तन्न; किं कारणम् ? उपचयापचयधर्मत्वात् । निमित्तवशाद्धि कर्मायव्ययौ सततं स्त इति विशरणमस्त्येव । ५ ___ तद्ग्रहणमादाविति चेत्, न; तदनुमेयत्वात् ।१८। स्यादेतत्-कार्मणग्रहणमादौ कर्तव्यम् । कुतः ? तदधिष्ठानत्वादितरेषामिति ? तन्न; किं कारणम् ; तदनुमेयत्वात् । यथा घटादिकार्योपलब्धेः परमाण्वनुमान तथौदारिकादिकार्योपलब्धः कार्मणानुमानम् *"कार्यलिङग हि कारणम्" [आप्तमी० श्लो० ६८] इति ।
तत एव कर्मणो मूतिमत्त्वं सिद्धम् ।१९। यस्मात् मूर्तिमदस्य कार्य तत एव कर्मणः कार- १० णस्य मूर्तिमत्त्वं सिद्धम् । न हयमूर्तेनात्मगुणेन निष्क्रियेणाऽदृष्टेन मूर्तिमतः क्रियावतो द्रव्यस्यारम्भो युक्त इति ।
औदारिकग्रहणमादावतिस्थूलत्वात् ।२०। अतिस्थूलमिदमौदारिकमिन्द्रियग्राहयत्वात्, ततोऽस्य ग्रहणमादौ क्रियते ।
उत्तरेषां क्रमः सूक्ष्मक्रमप्रतिपत्त्यर्थः ।२१। उत्तरेषां वैक्रियिकादीनां पाठक्रमः सूक्ष्मक्रम-१, प्रतिपत्त्यर्थो वेदितव्यः । वक्ष्यते हि 'परं परं सूक्ष्मम्' इति । यथौदारिकस्येन्द्रियरुपलब्धिस्तथेतरेषां कस्मान भवतीति ? अत आह
परं परं सूक्ष्मम् ॥३७॥ परशब्दस्यानेकार्थत्वे विवक्षातो व्यवस्थार्थगतिः ।। परशब्दोऽयमनेकार्थवचनः । क्वचिद्वयवस्थायां वर्तते-यथा पूर्वः पर इति । क्वचिदन्यार्थे वर्तते-यथा परपुत्रः परभार्येति अन्य- . पुत्रोऽन्य भार्येति गम्यते। क्वचित्प्राधान्ये वर्तते-यथा परमियं कन्या अस्मिन् कुटुम्बे प्रधानमिति गम्यते । क्वचिदिष्टार्थे वर्तते-यथा परं धाम गत इष्टं धाम गत इत्यर्थः । तत्रेह विवक्षातो व्यवस्थार्थो गृहयते ।
पृथग्भूताना शरीराणां सूक्ष्मगुणेन बोप्सा निर्देशः ।२। संज्ञा-लक्षण-प्रयोजनादिभिः पृथग्भूतानां शरीराणां सूक्ष्मगुणेन वीप्सानिर्देश क्रियते 'परं परम्' इति । यदि परं परं सूक्ष्म प्रदेशतोऽपि नूनं परं परं हीनमिति विपरीतप्रतिपत्तिनिवृत्त्यर्थमाह
प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् ॥३८॥ प्रदेशाः परमाणवः । प्रदिश्यन्ते इति प्रदेशाः परमाणवः, ते हि घटादिष्ववयवत्वेन प्रदिश्यन्ते । 'प्रदिश्यन्ते एभिरिति वा प्रदेशाः, तैहि आकाशादीनां क्षेत्रादिविभागः प्रदिश्यते । प्रदेशेभ्यः प्रदेशतः *'अपादानेहीयरहो." [जनेन्द्र० ४।२।५०] इति तसिः । प्रदेशैर्वा प्रदेशतः तसि प्रकरणे *"आधादिभ्य उपसंख्यानम्" [जैनेद्र० वा० ४।२।४९] इति तसिः ।।
संख्यानातीतोऽसंख्येयः ।२। संख्यानं गणनमतीतो यः सोऽसंख्येयः, असंख्येयो गुणोऽस्य तदिदमसंख्येयगुणम् ।
१आकाशदिवत् । २ परमाण्वाधनु -पा०, २०, द०, मु० । ३ अवधिनियमो व्यवस्था। ४ प्राप्तुमिच्छा। व्याप्तुमिच्छा वीप्सा इत्यर्थः -सम्पा०। ५ निरूप्यन्ते । ६ प्रदिश्यते श्र०, म०।
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org