________________
१४६ तत्त्वार्थवार्तिके
[२०३६ शरीरत्वादिति चेत्, न; तदभावात्।४। स्यान्मतम्-शरीरत्वं नाम सामान्यविशेषोऽस्ति, तद्योगाच्छरीरं न नामकर्मोदयादिति; तन्न; किं कारणम् ? तदभावात् । 'अतत्स्वभावेऽननवधारणप्रसङ्गोऽग्निवत्' इत्येवमादिना अर्थान्तरभूतजातिसंबन्धकल्पना प्रतिविहितेति नास्ति शरीरत्वम् ।
उदारात् स्थूलवाचिनो भवे प्रयोजने वा ठञ् ५। उदारं स्थूलमिति यावत्, ततो भवे प्रयोजने वा ठञि औदारिकमिति भवति ।
विक्रियाप्रयोजनं वैक्रियिकम्।६। अष्टगुणैश्वर्ययोगादेकानेकाणुमहच्छरीरविविधकरणं विक्रिया, सा प्रयोजनमस्येति वैक्रियिकम् ।
____ आहियते तदित्याहारकम् ।७। सूक्ष्मपदार्थनिर्ज्ञानार्थमसंयमपरिजिहीर्षया च प्रमत्तसंय१० तेनाहियते निर्वय॑ते तदित्याहारकम् ।
तेजोनिमित्तत्वात्तैजसम् ।७। यतेजोनिमितं ततैजसमिदम्, तेजसि भवं वा तैजसमित्याख्यायते ।
कर्मणामिदं कर्मणां समूह इति वा कार्मगम् ।९। कर्मणामिदं कार्य कर्मणां समूह इति वा कथञ्चिद्भेदविवक्षोपपत्तेः कार्मणमिति व्यपदिश्यते ।
सर्वेषां कार्मणत्वप्रसङग इति चेत्, न प्रतिनियतौदारिकादिनिमित्तत्वात् ।१०। स्यान्मतम्यदि कर्मणामिदं कर्मणां समूह इति वा कार्मणमित्युच्यते सर्वेषामपि तत्तुल्यमित्यौदारिकादीनामपि कार्मणत्वप्रसङग इति; तन्न; किं कारणम् ? प्रतिनियतौदारिकादिनिमित्तत्वात् । औदारिकशरीरनामादीनि हि प्रतिनियतानि कर्माणि सन्ति तदुदयभेदाढ़ेदो भवति ।
तत्कृतत्वेऽप्यन्यत्वदर्शनात् घटादिवत् ।१॥ यथा मृत्पिण्डकारणाविशेषेऽपि घटशरावादीनां २० संज्ञास्वालक्षण्यादिभेदाढ़ेदः तथा कर्मकृतत्वाविशेषेऽपि औदारिकादीनां संज्ञादिभेदाढ़ेदोऽवसेयः।
तत्प्रणालिकया चाभिनिष्पत्तेः ।१२। कार्मणशरीरप्रणालिकया चौदारिकादीनामभिनिष्पत्तिः, अतः कार्यकारणभेदान्न सर्वेषां कार्मणत्वम् । किञ्च,
विस्रसोपचयेन व्यवस्थानात् क्लिन्नगुडरेणुश्लेषवत् ।१३॥ यथा वैसूसिकपरिणामात् "क्लिन्ने गुडे रेणूनामुपश्लिष्टानामवस्थानं तथा कार्मणेऽप्यौदारिकादीनां वैससिकोपचयेना२५ वस्थानमिति नानात्वं सिद्धम् ।
कामणमसत् निमित्ताभावादिति चेत्, न; निमित्तनिमित्तिभावात्तस्यैव प्रदीपवत् ।१४। स्यादेतत्-न कार्मणं नाम शरीरमस्ति । कुतः ? निमित्ताभावात् । यस्य च निमित्तं नास्ति तदसत् यथा खरविवाणमिति ; तन्नः किं कारणम् ? तस्यैव निमित्तनिमित्तिभावात् प्रदीपवत् ।
यथा प्रदीपात्मैवात्मप्रकाशनात् प्रकाश्यः प्रकाशकश्च तथा कार्मणमेवात्मनो निमित्तं निमित्ति ३० चेति सिद्धम् ।
मिथ्यादर्शनादिनिमित्तत्वाच्च ।१५। न कार्मणस्य निमित्तं नास्ति । किं तहि निमित्तम् ? मिथ्यादर्शनादि । ततोऽसिद्धमेतत्-'निमित्ताभावात्' इति ।
१ सामान्यं सद्विशेषः परसामान्यमित्यर्थः। २ पु०॥ ३ जीवादोणंतगुणा पडिपरिमाणुम्हि विस्ससोबचया। जीवेण य समवेदा एक्केक्कं पडि समाणा ह। विस्त्रसा स्वभावेनैव प्रात्मपरिणामनिरपेक्षतयैव उपबीयन्ते तत्कर्मनोकर्मपरमाणस्निग्धरूक्षत्वगणेन स्कन्धता प्रतिपचन्ते। ४ क्लिनग-प्रा०, ब०, मु०। ५कर्मण्यप्यो-प्रा०, ब०, द०, म०।६ अत एव कर्मणां समूहः कार्मणम्, सर्वेषां तत्तुल्यमिति चोचं युक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org