________________
२॥३४--३६] द्वितीयोऽध्यायः
१४५ देवनारकाणामुपपादः॥३४॥ देवादिगत्युदय एवास्य जन्मेति चेत्, न; शरीरनिर्वर्तकपुद्गलाभावात् ।। स्यादेतत्मनुष्यस्तैर्यग्योनो वा छिन्नायुः कार्मणकाययोगस्थो देवादिगत्युदयाद् देवादिव्यपदेशभागिति कृत्वा तदेवास्य जन्मेति भतमितिः तन्न; कि कारणम् ? शरीरनिर्वर्तकपुद्गलाभावात् । देवादिशरीरनिर्वृत्तौ हि देवादिजन्मेष्टम्, तस्यां चावस्थायामनाहारकत्वान्न देवादिशरीरनि- ५ वृत्तिरस्ति तत 'उपपादो जन्म युक्तम्, तच्च देवनारकाणामिति । निर्दिष्टजन्मभेदेभ्यो जरायुजादिभ्योऽन्येषां कि जन्म इति ? अत आह---
शेषाणां सम्मूर्च्छनम् ॥३५॥ उभयत्र नियमः पूर्ववत् ।१। उभयोरपि योगयोः पूर्ववनियमो वेदितव्यः, देवनारकाणामेवोपपादः, शेषाणामेव संमूर्च्छनं नोक्तानामिति ।
कथं पुनर्ज्ञायते पूर्वत्र जन्मनियमो न जन्मवन्नियम इति ?
शेषग्रहणात् पूर्वत्र जन्मनियमः ।२। इह शेषग्रहणाज्ज्ञायते पूर्वत्र जन्मनियम इति । जरायुजाण्डजपोतानामेव गर्भो देवनारकाणामेवोपपाद इत्यवधारणे गर्भोपपादजन्मनी नियते, 'जरायुजादयो न नियतास्तेषां सम्मूर्छनमपि प्राप्तमतः शेषग्रहणं क्रियते "शेषाणामेव संमूर्च्छनं नोक्तानाम्' इत्यवधारणार्थः । यदि हि जन्मवतां नियमः स्यात् जरायुजाण्डजपोतानां १५ गर्भ एव देवनारकाणामुपपाद एवेति गर्भोपपादयोरनवधारणात् यत्र सम्मूछेनं चान्यच्चास्ति । तत्र सम्मछेनमेवेति नियमाच्छेषग्रहणमनर्थकं स्यात् ।
आह-इदं सूत्रमनर्थकम् । कथम् ? पूर्वयोर्योगयोरुभयतो नियमे सति जरायुजादीनां गर्भोपपादयोश्चाऽसति व्यभिचारे, शेषाणामेव सम्मूर्च्छनमुत्सर्गोऽवतिष्ठते इति । उच्यते-स एवोभयतो नियमो दुर्लभः, यत्तस्यैकत्वात्, अतोऽन्यतरनियम एवाश्रयितव्यः,तस्मिश्च सति सूत्र- २० मिदमारब्धव्यम् । ___ तेषां पुनः संसारिणां त्रिविधजन्मनामाहितबहुविकल्प'नवयोनिभेदानां शुभाशुभनामकर्मनिर्वतितानि बन्धफलानुभवनाधिष्ठानानि शरीराणि कानीति ? अत आह--
औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि ॥३६॥ शीर्यन्त इति शरीराणि ।।
घटाद्यतिप्रसङग इति चेत् ; न; नामकर्मनिमित्तत्वाभावात् ।२। यदि शीर्यन्त इति शरीराणि । घटादीनामपि विशरणमस्तीति शरीरत्वमतिप्रसज्येत; तन्न; किं कारणम् ? नामकर्मनिमित्तत्दाभावात् । शरीरनामकर्मोदयाच्छरीरम्, न च घटादिषु सोऽस्तीति नास्त्यतिप्रसङ्गः ।
विग्रहाभाव इति चेत् ; न; रूढिशब्देष्वपि व्युत्पत्तौ क्रियाश्रयात् ।३। स्यान्मतम्-यदि शरीरनामकर्मोदयाच्छरीरव्यपदेशः 'शीर्यन्त इति शरीराणि' इति विग्रहो नोपपद्यत इति; तन्न; किं कारणम् ? रूढिशब्देष्वपि व्युत्पत्तौ क्रियाश्रयात् । यथा 'गच्छतीति गौः' इति विगृहयते, एवं 'शीर्यन्त इति शरीराणि' इति विग्रहो भवति ।
१ स्यान्मतम् प्रा०, ब०, २०, मु०, ता०। २ उपेत्य पद्यते उत्पद्यतेऽस्मिन् उपपाद इति । ३ जीवाः । ४ अनुक्तानाम् । ५ दुर्लक्ष्यः। ६ चतुरशीतिशतसहस्र ।
२५
१९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org