________________
१४४ तत्त्वार्थवार्तिके
[२॥३३ संपूर्णावयवः परिस्पन्दादिसामोपलक्षितः पोतः।३। किञ्चित् परिवरणमन्तरेण परिपूर्णावयवो योनिनिर्गतमात्र एव परिस्पन्दादिसामोपेतः पोत इत्युच्यते। जरायौ जाताः जरायुजाः, अण्डे जाता अण्डजाः, जरायुजाश्चाऽण्डजाश्च पोताश्च जरायुजाण्डजपोताः ।
पोतजा इत्ययुक्तम्; अर्थभेदाभावात् ।४। केचित् पोतजा इति पठन्ति; तदयुवतम्। ५ कुतः ? अर्थभेदाभावात् । न हि पोते कश्चिदन्यो जातोऽस्ति ।
आत्मा पोतज इति चेत्, न; तत्परिणामात् ५। स्यान्मतम्-आत्मा पोते जातः पोतज इत्यर्थभेदोऽस्तीति ? तन्न; किं कारणम् ? तत्परिणामात् । आत्मैव पोतपरिणामेन परिणतः
पोत इत्युच्यते, न पृथगात्मनः पोतो नाम कश्चिदस्ति जरायुवत् । पोतोऽजनिष्ट पोतज इति __ चेत्; अर्थविशेषो नास्ति । १० जरायुजग्रहणमादावहितत्वात् ।। जरायुजग्रहणमादौ क्रियते । कुतः ? अहितत्वात् ।
कथमभ्यहितत्वम् ?
क्रियारम्भशक्तियोगात् ।७। अण्डजपोतासाधारण्यो हि भाषाध्ययनादयः क्रिया जरायुजेषु दृश्यन्ते ।
केषाञ्चिन्महाप्रभावत्वात् ।८। तत्र हि जाताः केचन चक्रधरवासुदेवादयो महाप्रभावा १५ भवन्ति । किञ्च,
___ मार्गफलाभिसंबन्धात् ।९। सम्यग्र्दशनादिमार्गफलेन मोक्षसुखेन' चाभिसंबन्धो नान्येषामित्यहितत्वम् ।
। तदनन्तरमण्डजग्रहणं पोतेभ्योऽहितत्वात् ।१०। तदनन्तरमण्डजग्रहणं क्रियते । कुतः? पोतेभ्योऽभ्यहितत्वात् । अण्डजेषु हि केषुचित् शुकसारिकादयोऽक्षरोच्चारणादिषु क्रियासु २० कुशला भवन्तीत्यभ्यहिताः पोतेभ्यः ।
"उद्देशवनिर्देश इति चेत्; न; गौरवप्रसङगात् ।११। स्यान्मतम्-उद्देशवनिर्देशेन भवितव्यमिति संमूर्च्छनजानां प्राग्ग्रहणं कर्तव्यमिति; तन्न; कि कारणम् ? गौरवप्रसङ्गात् । यदि हि संमूर्च्छनजनिर्देश आदौ क्रियते शास्त्रस्य गौरवं स्यात्-"एकद्वित्रिचतुरिन्द्रियाणां पञ्चे
न्द्रियाणां तिरश्चां मनुष्याणां च - केषाञ्चित्संमूर्छनमिति, अतो गर्भजौपपादिकानुक्त्वा २५ ‘शेषाणां संमूछनम्' इति लघुनोपायेन निर्देक्ष्यामीत्युद्देशकमोऽतिक्रान्तः ।
सिद्धे विधिरवधारणार्थः ॥१२॥ जरायुजादीनां सामान्येन सिद्धे गर्भजन्मसंबन्धे पुनविधिरारभ्यमाणो नियमार्थः, जरायुजाण्ड जपोतानामेव गर्भ इति । अथ नियमार्थे० आरम्भे सति जरायुजाण्डजपोतानां गर्भ एवेति नियमः कस्मान्न भवति ? उत्तरत्र शेषाणामिति वचनात् ।
यद्यमीषां जरायुजाण्डजपोतानां गर्भोऽवध्रियते, अथोपपादः खलु केषां भवतीति ? ३० "अत आह--
१ "जराय्वण्डपोतजानां गर्भः (सू०). पोतजानां शल्लकहस्तिश्वाविल्लापकशशशारिकानकुलमूषिकानां पक्षिणां च चर्मपक्षाणां जलकावलालीभारण्डपक्षिविरालादीनां गर्भो गर्भाज्जन्मेति', -त० भा० २॥३४॥ २ पोतेऽजनि- भा० १॥ ३ अभ्युदयेन। ४ -नाभिस- प्रा०, ब०, ८०, मु०, ता०। ५ सम्मूछैनगर्भोपपादा जन्मेति सूत्रोक्तोद्देशवत् । नाममात्रकथनमद्देशः। ६ शास्त्रगौ-पा०, ब० द०, मु०। ७ तदेव विवृणोति सूत्रेणानेन भवितव्यमिति। ८ सूत्रकृता। "सिद्धे विधिरारभ्यमाणोऽन्तरेणाप्येवकारं नियमार्थः।" -पात० महा० २।२।२०, ८॥३॥६॥ १० सम्मर्छनगर्भोपपादा जन्मत्यत्र शुक्रशोणितगरणाद् गर्भ इति व्युत्पत्तिमुखेनैव गर्भजन्मसम्बन्धलक्षणं सिद्धं किमनेन सूत्रणेत्याशङ्कायां नियमसूत्रमिदमित्याह । ११ इत्यस्मिन् सूत्रे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org