________________
२१३३] द्वितीयोऽध्यायः
१४३ ____ तत्राऽचित्तयोनिका देवनारकाः।१८। देवाश्च नारकाश्चाऽचित्तयोनिकाः । तेषां हि योनिरुपपादप्रदेशपुद्गलप्रचयोऽचित्तः।
गर्भजा मिश्रयोनयः ।१९। गर्भजा ये जीवास्ते मिश्रयोनयो वेदितव्याः । तेषां हि मातुरुदरे शुक्रशोणितमचित्तं तदात्मना चित्तवता मिश्रं योनिः ।
शेषास्त्रिविकल्पाः ।२०। शेषाः सम्मूर्च्छनजास्त्रिविकल्पा भवन्ति-केचित् सचित्तयो- ५ नयः, अन्ये अचित्तयोनयः, अपरे मिश्रयोनय इति । तत्र सचित्तयोनयः साधारणशरीराः । कुतः ? परस्पराश्रयत्वात् । इतरे अचित्तयोनयो मिश्रयोनयश्च ।
शीतोष्णयोनयो देवनारकाः ।२१। देवा नारकाश्च शीतयोनयो भवन्ति उष्णयोनयश्च । तेषां हि उपपादस्थानानि कानिचिच्छीतानि कानिचिदुष्णानि इति ।
उष्णयोनिस्तेजस्कायिकः ।२२। अग्निकायिको जीव उष्णयोनिद्रष्टव्यः ।
इतरे त्रिप्रकाराः ।२३। इतरे जीवास्त्रिप्रकारयोनयो भवन्ति-केचिच्छीतयोनयः, अन्ये । उष्णयोनयः, अपरे मिथयोनय इति।
देवनारकैकेन्द्रियाः संवृतयोनयः ।२४। देवनारका एकेन्द्रियाश्च संवृतयोनयो भवन्ति । विकलेन्द्रिया' विवृतयोनयः ।२५। विकलेन्द्रिया जीवा विवृतयोनयो वेदितव्याः । मिश्रयोनयो गर्भजाः ।२६। गर्भजा जीवा मिश्रयोनयोऽवगन्तव्याः।
तद्भदाश्चशब्दसमुच्चिताः प्रत्यक्षज्ञानिदृष्टा इतरेषामागमगम्याश्चतुरशीतिशतसहस्रसंख्याः।२७। तेषां नवानां योनीनां भेदा: कर्मभेदजनितविविक्तवृत्तयः प्रत्यक्षज्ञानिभिदिव्येन चक्षुषा दृष्टाः, इतरेषां छमस्थानामागमेन श्रुताख्येन गम्याश्चतुरशीतिशतसहससंख्या आख्यायन्ते । तद्यथा--नित्यनिगोतानां सप्त शतसहसाणि, अनित्यनिगोतानां च सप्त शतसहसाणि । के पुननित्यनिगोताः, के चाऽनित्यनिगोताः ? त्रिष्वपि कालेषु त्रसभावयोग्या ये २० न भवन्ति ते नित्यनिगोताः । त्रसभावमवाप्ता अवाप्स्यन्ति च ये ते अनित्यनिगोताः । पृथिव्यप्तेजोवायूनां सप्त सप्त शतसहसाणि, वनसतिकायिकानां दश शतसहसाणि, विकलेन्द्रियाणां षट् शतसहसाणि, देवनारकपञ्चेन्द्रियतिरश्चां प्रत्येक चत्वारि शतसहसाणि, मनुष्याणां चतुर्दश शतसहस्राणि । तान्येतानि समुदितानि चतुरशीतिशतसहस्राणि आख्यायन्ते । उक्तं च--
*"णिच्चिदरधादुसत्त य तरुदस वियलिदिएसु छच्चेव। सुरणिरयतिरियचउरो चोदस मणुएसु सदसहस्सा ॥" [बारसअणु० ३५] इति ।
एवमेतस्मिन्नवयोनिभेदसंकटे त्रिविध जन्मनि सर्वप्राणिभृतामनियमेन प्रसक्ते अवधारणार्थमाह--
जरायुजाण्डजपोतानां गर्भः ॥३३॥ जालवत्प्राणिपरिवरणं जरायुः ॥१॥ यज्जालवत् प्राणिपरिवरणं विततमांसशोणितं ३० तज्जरायुरित्युच्यते ।
शुक्रशोणितपरिवरणमुपात्तकाठिन्यं नखत्वक्सदृशं परिमण्डलमण्डम् ।२। यत्र खलु नखत्वक्सदृशमुपात्तकाठिन्यं शुक्रशोणितपरिवरणं परिमण्डलं तदण्डमित्याख्यायते ।
१ मिश्रं । शे-पा०, ब०, द०, मु० । २ –नि कानिचिदुष्णानि कानि- प्रा०, ब०, द०, मु.। ३ -या जीवा विवृतयोनयो वेदि- प्रा०, ब०, द०, मु०। ४ नित्यतरधातु सप्त च तरुदश विकलेन्द्रियेषु षट् चैव । सुरनारकतिर्यञ्चः चत्वारः चतुर्दश मनुष्येषु शतसहस्त्राणि ॥ ५ सम्मूछनादिभेदेन । ६-णं म-प्रा०, ब०, मु०।
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org