SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थवार्तिके [ રાફર योनयो भवन्तीत्ययमों 'लभ्यते । चशब्दे पुनः सचित्तादयः प्रत्येकं च योनयो भवन्ति मिश्राश्चेत्ययमों लब्धः । न वा अन्तरेणापि तत्प्रतीतेः । न वैतत् प्रयोजनमस्ति । कुतः ? अन्तरेणापि तत्प्रतीतेः । अन्तरेणापि हि चशब्दं समुच्चयार्थः प्रतीयते यथा *"पृथिव्यापस्तेजो वायः'' [तत्त्वोप० पृ० १] इति । ननु चोक्तम्-इतरथा हि पूर्वोक्तानामेव विशेषणं स्यादिति; नैप दोषः; विशेषणस्य समुच्चयस्य च संभवे समुच्चय' इति व्याख्यायते ।। इतरयोनिभेदसमुच्चयार्थस्तु८। सूत्रेऽनुक्तानां योनिभेदानां समुच्चयार्थस्तहि चशब्दः। के पुनस्ते ? उत्तरत्र वक्ष्यन्ते। एकशो ग्रहणं क्रममिश्रप्रतिपत्त्यर्थम् ।९। एकैक: एकश इति वीप्सायां शस्, तस्य ग्रहणं १० क्रममिश्रप्रतिपत्त्यर्थम् । यथैवं विज्ञायत सचित्तश्चाऽचित्तश्च शीतश्चोष्णश्च संवृतश्च विवृतश्चेति । मैवं विज्ञायि सचित्तशीतश्चेत्यादि। तद्ग्रहणं प्रकृतापेक्षम् ।१०। तद्ग्रहणं क्रियते प्रकृतापेक्षार्थम् । तेषां योनयस्तद्योनयः । केपाम् ? सम्मळुनादीनामिति । यूयत इति योनिः । सचित्तादिद्वन्द्वे पुंवद्भावाभावो भिन्नार्थत्वात् ।११। योनिशब्दोऽयं स्त्रीलिङ्गस्तदपेक्षाः १५ सचित्तादयः शब्दा: स्त्रीलिङ्गाः, तेषां द्वन्द्वे पुंवद्भावो न प्राप्नोति-सचित्ताश्च शीताश्च संवृताश्च सचित्तशीतसंवृता इति । कुतः ? भिन्नार्थत्वात् । एकाश्रये हि पुवद्भाव उक्तः । न वा; योनिशब्दस्योभयलिङगत्वात् ।१२। न वैष दोषः । किं कारणम् ? उभयलिङ्गत्वाद्योनिशब्दस्य । इह पुल्लिङ्गो वेदितव्यः । योनिजन्मनोविशेष इतितान आधाराधेयभेदाद्विशेषोपपत्तेः।१३। स्यान्मतम्-योनि२० जन्मनोरविशेषः, यत आत्मैववादिजन्मपर्यायादौपपादिक इत्युच्यते, सैव च योनिरितिः; तन्न; किं कारणम् ? आधारायविशेषोपपत्तेः । आधारो हि योनिराधेयं जन्म, यतः सचित्तादियोन्यधिष्ठान आत्मा सम्मूर्च्छनादिजन्मना शरीराहारेन्द्रियादियोग्यान् पुद्गलानादत्ते। सचित्तग्रहणमादौ चेतनात्मकत्वात् ।१४। सचित्तग्रहणमादौ क्रियते । कुतः ? चेतनात्मकत्वात् । चेतनात्मको लोके यर्थः प्रधानम् । तदनन्तरं शीताभिधानं तदाप्यायनहेतुत्वात् ।१५। तदनन्तरं शीताभिधानं क्रियते । कुतः ? तदाप्यायनहेतुत्वात् । सचेतनस्य ह्यर्थस्य शीतमाप्यायनकारणं भवति । ___अन्ते संवृतग्रहणं गुप्तरूपत्वात् ।१६। अन्ते संवृतग्रहणं क्रियते । कुतः ? गुप्तरूपत्वात् । गुप्तरूपं हि लोके कर्माग्राहयं भवति । एक एव योनिरिति चेत्, न; प्रत्यात्मं सुखदुःखानुभवनहेतुसद्भावात ।१७। स्यान्मतम्३० एक एव योनिरस्तु सर्वेषां जीवानामिति ? तन्न, किं कारणम् ? प्रत्यात्म सुखदुःखान भवनहेतुसद्भावात् । शुभाशुभपरिणामा हि प्रत्यात्म भिन्नास्तज्जनितश्च कर्मबन्धो विचित्रः, अतस्तेन सुखदुःखानुभवनकारणं बहुविधमारभ्यते । १ लभ्येत प्रा०, ब०, ६०, मु०, ता० । २ न चान्तरेणा- प्रा०, ब०, द०, मु०। ३ नैतत्प्रप्रा०, ब०, ८०, म०। ४ विशेषणसमुच्चययोः समच्चय एव बलीयानिति न्यायेन । भवतामभिप्रायः कोऽयमिति पृष्टः सन्नाह । ६ अत्राह तटस्थः। ७ मानिस्ठ्येकार्थयोः स्त्र्यन्यतोऽनः (शाकटा० २।२।४१) इति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy