________________
२२३२ द्वितीयोऽध्यायः
१४१ सामूर्छनग्रहणमादौ अतिस्थूलत्वात् ।५। सम्मूर्छनजं हि शरीरमंतिस्थूलम्, अतोऽस्य ग्रहणमादौ क्रियते । ननु गर्भजशरीरमपि वैक्रियिकशरीरादतिस्थूलं तयोः कस्यादौ वचनं न्याय्यमिति ? उच्यते--
अल्पकालजीवित्वात् 'सम्मूर्छनम् ।६। गर्भ जौपपादिकजीवेभ्यः समूर्च्छनजाः प्राणिनोऽलकालजीविनस्ततः सम्मळुनस्यादौ न्याय्यम् । किञ्च,
'तत्कार्यकारणप्रत्यक्षत्वात् ।७। गर्भोपपादजन्मनोः कार्यकारणे अप्रत्यक्षे, यत्पुनः सम्मूर्च्छनजन्मनः कारणं मांसादि तत्कार्य च शरीरं तदुभयं लोके प्रत्यक्षम्, ततश्चास्यादौ ग्रहणं क्रियते।
तदनन्तरं गर्भग्रहणं कालप्रकर्षनिष्पत्तः ।८। गर्भजन्म हि सम्मूर्च्छनजन्मनः कालप्रकर्षण निष्पद्यते, ततस्तदनन्तरं तस्य ग्रहणं न्याय्यम् ।
उपपादग्रहणमन्ते दीर्घजीवित्वात् ।९। सम्मूछेनजेभ्यो गर्भजेभ्यश्चौपपादिका दीर्घ- १० जीविन इत्यन्ते ग्रहणं क्रियते। आह- किं कृतोऽयं जन्मविकल्प' इति ? उच्यते__अध्यवसायविशेषात् कर्मभेदे तत्कृतो जन्मविकल्पः ।१०। अध्यवसायः परिणामः सो- .. ऽसंख्येयलोकविकल्पः, तद्भेदात्तत्कार्यकर्मबन्धविकल्पस्ततस्तत्फलं जन्मविकारो वेदितव्यः । कारणानुरूपं हि लोके दृश्यते कार्यम् । शुभाशुभलक्षणं च कर्म तद्रूपमेव जन्म प्रादुर्भावयति ।
प्रकारभेदाज्जन्मभेद इति चेत्, न; तद्विषयसामान्योपादानात् ।११। स्यादेतत्-प्रकारा १५ बहवः तत्सामानाधिकरण्याज्जन्मनोऽपि बहुत्वं प्राप्नोति, यथा 'जीवादयः पदार्थाः' इतिः तन्न; किं कारणम ? तद्विषयसामान्योपादानात् । तत्प्रकारविषयमिह सामान्यं "जन्मशब्देनोपदीयते, तत एकत्वनिर्देशः, यथा जीवादयस्तत्त्वमिति ।
अथाधिकृतस्य संसारिविषयोपभोगोपलब्ध्यधिष्ठानप्रवणस्य जन्मनो योनिविकल्पो वक्तव्य इति ? अत आह--
सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तद्योनयः ॥३२॥
आत्मनः परिणामविशेषश्चित्तम् ।। आत्मनश्चैतन्य परिणामविशेषश्चित्तं तेन सह वर्तन्त इति सचित्ताः।
शीत इति स्पर्शविशेषः।२। शीत इत्यनेन स्पर्शविशेषो गृहयते । शुक्लादिवदुभयवचनत्वात्तद्युक्तं द्रव्यमा-याह ।
संवृतो दुरुपलक्षः।३। सम्यग्वृतः संवृत इति दुरुपलक्ष : प्रदेश उच्यते ।
सेतराः सप्रतिपक्षाः।४। सह इतरैः सेतराः सप्रतिपक्षा इत्यर्थः । के पुनरितरे ? अचितोष्णविवृताः ।
मिश्रग्रहणमुभयात्मकसंग्रहार्थम् ।५। मिश्रग्रहणं क्रियते उभयात्मकसंग्रहार्थ सचित्ताचित्तशीतोष्णसंवृतविवृता इति ।
___ चशब्दः प्रत्येकसमुच्चयार्थः ॥६॥ मिश्राश्चेति च शब्दः क्रियते प्रत्येकसमुच्चयार्थः । इतरथा हि पूर्वोक्तानामेव विशेषणं स्यात् । तेन सचित्त-शीत-संवृताः सेतरा यदा मिश्रास्तदा
१ महामत्स्यादेः। २ सम्मूर्छनमिति नास्ति भा० १।३ गर्भोपपादि-प्रा०, ब०, द०, मु०, ता० । ४ तत्कारणकार्यप्र-१०। ५ सकाशात् । ६ भेदः । ७ सम्मुर्छनजन्मत्यादि। ८-भोगल-पा०, ब०, द०, ता०, मु०। ६चैतन्यस्यपरि-पा०, ब०, ८०, मु०। १० गुणगुणि। ११ अत्राचार्याभिप्रायानभिज्ञः कश्चित्तटस्थ पाह। १२ चशब्दाभावे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org