________________
तत्त्वार्थवार्तिके
[ २३१
वा शब्दो विकल्पार्थः ' |२| वाशब्दोऽत्र विकल्पार्थो ज्ञेय । विकल्पश्च यथेच्छातिसर्गः, एकं वा द्वौ वा त्रीन्वेति ।
सप्तमप्रसङ्ग इति चेत्; न; अत्यन्तसंयोगस्य विवक्षितत्वात् ॥३॥ स्यादेतत्-आहरणक्रियाया अधिकरणं काल इति सप्तमी प्राप्नोतीति; तन्नः किं कारणम् ? अत्यन्तसंयोगस्य ५ विवक्षितत्वात् । अत्यन्तसंयोगे हि तदपवादात् ' द्वितीया विधीयते ।
१०
इत्युच्यते ।
विग्रहगतावसंभवादाहारकशरीरनिवृत्तिः । ५ । ऋद्धिप्राप्तानामृषीणामाहारकशरीरमाविभवति इति विग्रहगतौ तस्यासंभवान्निवृत्तिः ।
शेषाहाराभावो व्याघातात् |६| विग्रहगतौ 'शेषस्याहारस्याभावः । कुतः ? व्याघातात् । अष्टविधकर्मपुद्गलसूक्ष्मपरिणतोपचितमूर्ति कार्मणशरीरवशात् प्रावृट्कालपरिणतजलधरनिर्गतसलिलग्रहणसमर्थनिक्षिप्ततप्तायससायक वत् पूर्वदेहनिवृत्तिसमुद्घात 'दुःखोष्णत्वाद् व्रजन्न१५ हारकः, वक्रगतिवशादेकं द्वौ त्रीन्वा समयाननाहारको भवति । तत्रैकसमयिक्या मिषुगतौ उक्तमाहारमनुभवन्नेव गच्छति । पाणिमुक्तायामेकविग्रहायां द्विसमयायां प्रथमे समयेनाहारकः । लाङ्गलिकायां द्विविग्रहायां त्रिसमयायां प्रथमद्वितीययोः समययोरनाहारकस्तृतीये आहारकः । गोमूत्रिकायां त्रिविग्रहायां चतुःसमयायां चतुर्थसमये आहारक इतरेष्वनाहारकः ।
२०
१४०
२५
त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्यपुद्गलग्रहणमाहारः ॥४॥ तैजसकार्मणशरीरे हि आसंसारान्तान्नित्यमुपचीयमानस्वयोग्यपुद्गले' अतः शेषाणां त्रयाणां शरीराणामौदारिककाहारकाणामाहाराद्यभिलाषकारणानां षण्णां पर्याप्तीनां योग्यपुद्गलग्रहणमाहार
तस्य खलु संसारिणः शुभाशुभफलप्रदकार्मणशरीरानुगृहीत क्रिया विशेषस्य अनुश्रेण्यास्कन्दतः पूर्वोपात्तानुभवनं प्रति कर्मभिरापूर्यमाणस्य अविग्रहविग्रहवद्गमनद्वयाक्षिप्त'देशान्तरस्य अभिनवमूर्त्यन्तरनिर्वृत्तिप्रकारप्रतिपादनार्थमिदमाह-
सम्मूर्च्छनगर्भोपपादा जन्म ॥३१ ॥
समन्ततो मूर्च्छनं सम्मूर्च्छनम् |१| त्रिषु लोकेषूर्ध्वमधस्तिर्यक् च देहस्य समन्ततो मूर्च्छनं सम्मूर्च्छनम्-अवयवप्रकल्पनम् ।
शुक्रशोणितगरणाद् गर्भः ॥ २॥ यत्र शुक्रशोणितयोः स्त्रिया उदरमुपगतयोर्गरणं मिश्रणं भवति स गर्भः ।
"मात्रोपयुक्ताहारात्मसात्करणाद्वा |३| अथवा "मात्रोपयुक्तस्याहारस्यात्मसात्करणाद् गरणाद् गर्भः ।
उपेत्यपद्यतेऽस्मिन्नित्युपपाद्रः ॥४। *" हल:" [जैनेन्द्र० २।३।१०२] इत्यधिकरणसाधनो ३० घङ । देवनारकोत्पत्तिस्थानविशेषस्य संज्ञेति । एते त्रयः संसारिणां जीवानां जन्मप्रकाराः ।
१ - ज्ञेयः वि- आ०, ब०, द०, मु० । २ - दा द्वि- आ०, ब०, मु०, मू० । कालादनोर्व्याप्ताविति सूत्रेण प्रधिकरणं बाधित्वा द्वितीया । कर्मादानस्य नैरन्तर्य सद्भावात्, मासमधीते कोशं स्वपिति इत्यादिवत् । ३ बसः । द्वितीयाद्विवचनान्तम्- सम्पा० । ४ श्रतः कारणात् ते वर्जयित्वा । ५ श्राहारशरीरेन्द्रियोच्छ्वासभाषामनसाम् । ६ कवलाद्याहारस्य । ७ -त्तिः का- श्र० । ८ दुःखोष्मत्वा- मु० C स्वीकृत । १० - तयोर्गर- आ०, ब०, द० मु० । ११ मात्रोपभुक्ता- प्र०, ब०, मु० । जीवानामुपपादप्रसङ्गे रूढिशब्दोऽयं न तु व्युत्पत्तिक्रियापेक्षः इत्याह देवेत्यादि ।
१२ सर्वेषां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org