________________
२२६-३०]
द्वितीयोऽध्यायः उभयसंभवे व्याख्यानात् मर्यादासंप्रत्यय इति चेत्, न; प्रतिपत्तेगौरवात् ।४। स्यान्मतम्मर्यादाभिविध्योराङ, तत्र व्याख्यानतो विशेषप्रतिपत्तिरिति मर्यादासंप्रत्यय इत्याङयपि सति न दोष इति; तन्न; किं कारणम् ? प्रतिपत्तेगौ रवात् । एवं सति प्रतिपत्तेगौ रवं स्यात्, तस्माद्विस्पष्टार्थ प्राग्ग्रहणं क्रियते ।
आसां चतसृणां गतीनामार्पोक्ता: संज्ञा:-इषुगतिः, पाणिमुक्ता, लाङ्गलिका, गोमूत्रिका ५ चेति । तत्राविग्रहा' प्राथमिकी, शेषा विग्रहवत्यः । इषुगतिरिवेषुगतिः । क उपमार्थः ? यथेषोर्गतिरालक्ष्यदेशाद् ऋज्वी तथा संसारिणां सिद्धयतां च जीवानां ऋज्वी गतिरैकसमयिकी। पाणिमुक्तेव पाणिमुक्ता। क उपमार्थः ? यथा पाणिना तिर्यक प्रक्षिप्तस्य द्रव्यस्य गतिरेकविग्रहा तथा संसारिणामेकविग्रहा गतिः पाणिमुक्ता द्वैसमयिकी। लाङ्गलमिव लाङ्गलिका। क उपमार्थः ? यथा लाङ्गलं द्विवक्रि तथा द्विविग्रहा गतिर्लाङ्गलिका' त्रैसमयिकी। १० गोमूत्रिकेव गोमूत्रिका। क उपमार्थः ? यथा गोमूत्रिका बहुवका तथा त्रिविग्रहा गतिर्गोमूत्रिका चातुःसमयिकी। ___ यद्यमुष्या विग्रहवत्या: क्रियायाश्चातुःसमयिक्यवस्था निश्चीयते परित्यक्तव्याबाधा पुनर्गतिः कियत्काला भवतीति ? अत आह
एकसमयाऽविग्रहा ॥२६॥ अधिकृतगतिसामानाधिकरण्यात् स्त्रीलिङगनिर्देशः ।। गतिरधिकृता, तत्सामानाधिकरण्यादत्र स्त्रीलिङ्गनिर्देशो द्रष्टव्यः । एकः समयोऽस्या एकसमया, न विद्यते विग्रहोऽस्या अविग्रहेति । गतिमतां हि जीवपुद्गलानामव्याघातेनैकसमयिकी गतिरालोकान्तादपीति । ___ आत्मनोऽक्रियावत्त्वसिद्धरयुक्तमिति चेत्, न; क्रियापरिणामहेतुसद्भावाल्लोष्टवत् ।२।
देतत-सर्वगतत्वानिष्क्रियस्यात्मन: क्रियावत्वं नास्ति ततो गतिकल्पनमयक्तमिति १ तन्नः २० किं कारणम् ? क्रियापरिणामहेतुसद्भावात् । कथम् ? लोष्टवत् । यथा लोष्ट: स्वयं क्रियापरिणामित्वाद बाहयाभ्यन्तरकारणापेक्षो देशान्तरप्राप्तिसमर्था क्रियामारभमाणो दष्टः, तथा आत्मा कर्मवशाच्छरीरपरिणामानविधायी तद्विधयां क्रियामास्कन्दति, तदभावे च प्रदीपशिखावत् स्वाभाविकीमिति नास्ति दोषः।
___ सर्वगतत्वे तु संसाराभावः ।३। यदि च सर्वगत आत्मा स्यात् क्रियाभावात् संसाराभावः २५ स्यात् ।
___ बन्धसन्तति प्रत्यनादौ कर्मोपचयवृत्तिसंबन्धेन चादिमति पञ्चविधेऽपि द्रव्यक्षेत्रकालभवभावें संसारे मिथ्यादर्शनादिप्रत्ययसन्निधाने च सत्युपयोगात्मकोऽयमात्मा सातत्येन कर्माण्यादधानो विग्रहगतावप्याहारकः प्रसक्तस्ततो नियमार्थमिदमुच्यते
एक हौत्रीन्वाऽनाहारकः ॥३०॥ समयसंप्रत्ययः प्रत्यासत्तेः ।। 'एकसमयाऽविग्रहा' इत्यत्र समयशब्द उक्तस्तेनेह प्रत्यासत्तेरभिसंबन्धो वेदितव्यः-एक समयं द्वौ समयौ त्रीन् समयान् इति । ननु च तत्र समयशब्द उपसर्जनीभूतः कथमिहाभिसंबध्यते ? अन्यस्यासंभवात् सामर्थ्यात् संबन्धो द्रष्टव्यः ।
१ वक्ररहिता। २ -लिको - ता०, १०, मू०, ३०। ३ निध्रियते श्र०, मू०। ४ -भावे मिप्रा०, ब०, २०, मु०। ५ अन्यपदार्थत्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org