________________
१०
१३८ तत्त्वार्थवार्तिके
२२७-२८ नियमात् । कालनियमस्तावज्जीवानां मरणकाले भवान्तरसंक्रमे, मुक्तानां चोर्ध्वगमनकाले अनुश्रेण्येव गतिः । देशनियमोऽपि' या ऊर्ध्वलोकादधोगतिरधोलोकाच्चोर्ध्वगतिस्तिर्यग्लोका'द्वा अधोगतिरू; वा [सा] अत्रानुश्रेण्येव । पुद्गलानामपि च या लोकान्तप्रापणी सा नियमादनुश्रेणिगतिः । या त्वन्या सा भजनीया । ततो भ्रमणरेचनादिगतिः सिद्धा।
पूर्वभावप्रज्ञापकनयावभासितं व्यवहारमन्तीय रूढिवशाद्वा विनिमुक्तकर्मबन्धनस्यापि जीवत्वमवधृत्येदमुपादिक्षत्
अविग्रहा जीवस्य ॥२७॥ विग्रहो व्याघातः कौटिल्यमित्यनर्थान्तरम्, स यस्यां न विद्यते असावविग्रहा गतिः । कस्य ? जीवस्य । कीदृशस्य ? मुक्तस्य। कथं गम्यते मुक्तस्येति ?
उत्तरत्र संसारिग्रहणादिह मुक्तगतिः।१। उत्तरसूत्रे संसारिग्रहणादिह मुक्तगतिविज्ञायते। किमर्थमिदमुच्यते ? ननु श्रेण्यन्तर संक्रमो विग्रहः तस्याभावः अनुश्रेणिः इत्यनेनैव सिद्ध: "नार्थोऽनेन ? इदं प्रयोजनम्- पूर्वसूत्रे जीवपुद्गलानां क्वचिद्विश्रेणिरपि गतिर्भवतीत्येतस्य ज्ञापनार्थम् । ननु तत्रैवोक्तं कालदेशनियमादनुश्रेणिर्भवति न सर्वत्रेति; न; 'अतस्तत्सिद्धेः।
यद्यसङ्गस्यात्मनोऽप्रतिबन्धेन गतिरालोकान्तादवधृतकाला प्रतिज्ञायते 'सदेहस्य पुनर्गतिः १५ किं प्रतिबन्धिन्युत मुक्तात्मवत्' इति परिप्रश्ने सतीदमुच्यते--
विग्रहवती च संसारिणः प्राक् चतुर्व्यः ॥ २८ ॥ कालपरिच्छेदार्थ प्राक् चतुर्य इति वचनम् ॥१॥ समयो वक्ष्यते । चतुभ्यः समयेभ्यः प्राक् विग्रहवती गतिर्भवतीति कालपरिच्छेदार्थ प्राक् चतुर्य इत्युच्यते। ऊर्ध्व कस्मान्नेति चेत् ? विग्रहनिमित्ताभावात् । सर्वोत्कृष्टविग्रहनिमित्तनिष्कुटक्षेत्रे उत्पित्सुः प्राणी निष्कुटक्षेत्रानुपूर्व्यर्जुश्रेण्यभावात् इषुगत्यभावे निष्कुटक्षेत्रप्रापणनिमित्तां त्रिविग्रहां गतिमारभते नोवं तथाविधोपपादक्षेत्राभावात, तेनैव च कालेनोपपादक्षेत्रप्राप्तेः षष्टिकाद्यात्मलाभवत् । यथा षष्टिकादीनां ब्रीहीणां परिच्छिन्नकालावधिः परिपाको न न्यूनेन नाभ्यधिकेन, इह तथाऽन्तर१३भवेऽपि कालनियमो वेदितव्यः ।
चशब्दः समुच्चयार्थः ॥२॥ विग्रहवती च अविग्रहा चेति समुच्चयार्थः चशब्दः । उपपाद२५ क्षेत्रं प्रति ऋज्वी गतिरविग्रहा, कुटिला विग्रहवती ।
आङग्रहणं लध्वर्थमिति चेत् ; न; अभिविधिप्रसङगात् ।। स्यादेतत्-आङग्रहणं कर्तव्यं लघ्वर्थमिति; तन्न; किं कारणम् ? अभिविधिप्रसङ्गात् । तेन चतुर्थसमयमभिव्याप्य विग्रहः १५प्रवर्तत, स चानिष्टः।
२०
१-पि चोर्ध्व-प्रा०, ब०, द०, मु०। २-काच्चोधोगतिरूववान-प्रा०, ब०, द०, मु०। ३ ऋजुगतिरिति यावत् । ४ -ते उ-पा०, ब०, द०, मु०। ५ -न्तरसंग्रहो वि- प्रा०, ब०, २०, मु० । ६ -णिगतिरित्य-प्रा०, ब०, द०, मु०। ७ प्रयोजनम्। ८ सूत्रेण । ६ इति चेत्, अस्मात् सूत्रात् । १० कुटिला। ११ लोकान्तकोणप्रदेशे इत्यर्थः। १२ गोमूत्रिकामित्यर्थः। १३ -भवेका- प्रा०, २०, द०, मु०। -न्तरभावेऽपिका- मू०, ता० । देहाद् देहान्तरस्वीकारमध्यसमये। १४ -र्थः च-पा०,०, द०, मु०। १५ प्रवर्तते पा०, ब०, द०, मु०, ता० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org