________________
२।२६] द्वितीयोऽध्यायः
१३७ गतिविग्रहगति: । ननु विकृतिप्रकृत्यभिसंबन्धे सति 'तादर्थ्य वृत्तिः, इह विकृतिप्रकृत्यभिसंबन्धाभावाद् वृत्तिन प्राप्नोति; नैष दोषः, अश्वघासादिवद् वृत्तिर्वेदितव्या, तादर्थ्य तु चतुर्थ्या वाक्ये प्रदर्श्यते।
विरुद्धो ग्रहो विग्रहो व्याघात इति वा ।२॥ अथवा विरुद्धो ग्रहो विग्रहो व्याघातः३ नोकर्मपुद्गलादाननिरोध इत्यर्थः । विग्रहेण गतिविग्रहगतिः । आदाननिरोधेन गतिरित्यर्थः।।
____ कर्मेति सर्वशरीरप्ररोहणसमर्थ कार्मणम् ।३। सर्वाणि शरीराणि यतः "प्ररोहन्ति तत् वीजभूतं कार्मणं शरीरं कर्मत्युच्यते ।
योग आत्मप्रदेशपरिस्पन्दः ।४। कायादिवर्गणा निमित्त आत्मप्रदेशपरिस्पन्दो योग इत्या
ख्यायते।
___कर्मनिमित्तो योगः कर्मयोगः । तस्यां विग्रहगतौ कार्मणशरीरकृतो योगो भवति यत्कृतं १० कर्मादानम्, 'यदुपपादिता चाऽमनस्कस्यापि विग्रहार्था गतिः ।।
अथाकाशप्रदेशेषु परमाणप्रतिष्ठासंबन्धेनोपचरितेप्वाधेया जीवपुद्गला देशान्तरप्राप्ति प्रत्यभिमुखा किं निराकृतप्रदेशकमा 'व्रज्याभिनिवर्तयन्ति, उताक्रान्तप्रदेशकमामिति विचारे सति तन्निर्धारणार्थमाह--
अनुश्रेणि गतिः ॥२६॥ __ आकाशप्रदेशपङक्तिः श्रेणिः ॥१॥ लोकमध्यादारभ्योर्ध्वमधस्तिर्यक्रमाकाशप्रेदशानां क्रमसन्निविष्टानां पङक्तिः श्रेणिरित्युच्यते ।
अनोरानुपूये वृत्तिः ।२। अनुशब्दस्यानुपूर्ये वृत्तिर्भवति, श्रेणेरानुपर्येण अनुश्रेणि इति ।
जीवाधिकारात् पुद्गलासंप्रत्यय इति चेत्न; गतिग्रहणात् ।३। स्यादेतत्-जीवाधिकारात् पूदगलानामनश्रेणिगतिसंप्रत्ययो न भवतीतिः तन्नः किं कारणम ? गतिग्रहणात । यदि हि २० जीवस्यैव गतिरिहेष्टा स्याद् ‘गत्यधिकारे पुनर्गनिग्रहणमनर्यकं स्यात्, ततो ज्ञायते सर्वेषां गतिमतां गतिर्गयते' इति ।
क्रियान्तरनिवृत्त्यर्थ गतिग्रहणमिति चेत्, न; अवस्थानाद्यसंभवात् ।। स्यान्मतम्-गतिग्रहणं क्रियान्तरनिवृत्त्यर्थ गतिरेव नान्या क्रियति ? तन्न; किं कारणम् ? अवस्थानाद्यसंभवात् । न विग्रहगतिमापन्नस्य जन्तोरवस्थानशयनासनादयः क्रियाः संभवन्ति । २५
उत्तरसूत्रे जीवग्रहणाच्च ।५। 'अविग्रहा जीवस्य' इत्युत्तरत्र जीवग्रहणाच्च मन्यामहे इहोभयगतिराश्रितेति ।
विश्रेणिगतिदर्शनानियमायुक्तिरिति चेत्, न; कालदेशनियमात् ।। स्यादेतत्-विश्रेणिगतिरपि दृश्यते चक्रादीनां ज्योतिषां च मेरुप्रदक्षिणगतीनां माण्डलिकवायूनां विद्याधराणां च मेर्वादिप्रदक्षिणकाले, ततोऽनुश्रेणि गतिरिति नियमो नोपपद्यते; तन्न; किं कारणम् ? कालदेश- ३०
१ कुण्डलाय हिरण्यमित्यादिवत् प्रकृतिः परिणामि द्रव्यम् । चतुर्थी प्रकृतिः स्वार्थादिभिरिति समासः- ता०टि०। २ अश्वार्थो घासः इति । -र्थ्य च- आ०, ब०, ८०, मु०, ता० । ३-तःपुप्रा०, ब०, ८०, मु०, मू० । ४ प्रारोह- श्र०। ५ अकर्मकर्मनोकर्मजातिभदेषु वर्गणा । ६ पूर्वपातनिकापेक्षया प्रयमभिप्रायः। ७ उत्तरपातनिकापेक्षया।८गमनम । विग्रहगतावित्यत्र। १०-ते किप्रा०, ब०, २०, मु०। ११ -स्थानशयनादयः प्रा०, ब०, द०, मु०, ता० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org