________________
१३६
तत्त्वार्थवार्तिके
[२२२४-२५ एवमेतेषु संसारिषु द्वि भेदेषु इन्द्रियभेदात् पञ्चविधेषु ये पञ्चेन्द्रियास्तद्भेदस्यानुक्तस्य प्रतिपत्त्यर्थमाह
संज्ञिनः समनस्काः ॥ २४ ॥ मनो व्याख्यातम्, सह तेन ये वर्तन्ते ते संज्ञिन । अत्र चोद्यते
समनस्कविशेषणमनर्थकं संज्ञिशब्देन गतत्वात् ।। संज्ञिन इत्यनेनैव विशेषणेन गतत्वात् 'समनस्काः ' इति विशेषणमनर्थकम् । कथमिति चेत् ? उच्यते--
हिताहितप्राप्तिपरिहारयोर्गुणदोषविचारणात्मिका संज्ञा ।२। 'इदं हितमिदमहितम्, अस्य प्राप्तौ परिहारे चायं गुणोऽयं दोषः' इति च विचारणात्मिका संज्ञेत्युच्यते ।
ब्रोह्यादिपाठादिनि सिद्धेः ।३। तस्मात् संज्ञाशब्दाद् ब्रीहयादिपाठादिनि सति 'संज्ञिनः' १० इति सिध्यति ।
___ न वा शब्दार्थव्यभिचारात्॥४॥ न वैष दोषः । किं कारणम् ? शब्दार्थव्यभिचारात् । संज्ञा'शब्दोऽर्थ हि व्यभिचरति । तत्र' को दोषः ?
संज्ञा नाम इति चेत्; निवाभावः ।५। यदि संज्ञा' रूढिर्नामेत्युच्यते ; सा सर्वेषां प्राणिनां प्रतिनियता अस्तीत्यसंज्ञिनामभावात् निवाभावः स्यात् ।
संज्ञानं संज्ञा ज्ञानमिति चेत्; तुल्यः ।६। कः ? निवाभावः ? सर्वेषां प्राणिनां ज्ञानात्मकत्वात् ।
आहारादिसंज्ञेति चत्, न; अनिष्टत्वात् ।७। स्यादेतत्-आहार-भय-मैथुन-परिग्रहविषया संज्ञेति ? तन्न; किं कारणम् ? अनिष्टत्वात् । सर्वे हि संसारिण आहार-भय-मैथुन-परिग्रह
संज्ञासन्निधानात् संज्ञिनः स्युः । अनिष्टं चैतत् । तस्मात् समनस्का इति विशेषणमर्थवत् । एवं २० च कृत्वा गर्भाण्ड-मूच्छित-सुषुप्ताद्यवस्थासु हिताहितपरीक्षाभावेऽपि मनःसन्निधानात् संज्ञित्वमुपपन्नं भवति ।
यद्यस्य संसारिणो हिताहितप्राप्तिनिवृत्तिहेतुः परिस्पन्दो "मनस्करणसन्निधाने सति भवति, अथाभिनवशरीरं प्रत्यागूणस्य विशीर्णपूर्वमूर्तेरात्मनो निर्मनस्कस्य यत्कर्म तत्कुतः इति ? अत्रोच्यते--
विग्रहतौ कर्मयोगः ॥ २५ ॥ अथवा, यदि संप्रधार्य समनस्काः प्राणिनः क्रियाः प्रारभन्ते भिन्नदेहस्याऽसति मनसि उपपादक्षेत्र प्रत्याभिमुख्येन या प्रवृत्तिविग्रहार्था सा कुतो भवति ? अत आह 'विग्रहगतौ कर्मयोगः' इति।
विग्रहो देहस्तदर्था गतिविग्रहगतिः ।१। औदारिकादिशरीरनामोदयात् तन्निर्वृत्तिसम२० र्थान् विविधान् पुद्गलान् गृह्णाति, विगृह्यते वासौ संसारिणेति विग्रहो देहः, विग्रहाय
१-सिद्धिः प्रा०, ब०, द०, मु०, ता०। २-रात् संज्ञा-पा०, ब०, द०, मु०। ३-शब्दार्थों हि मु०, मू०। ४ तथा सति । ५ -रूढित्वमि- प्रा०, ब०, ८०, मु०। ६ प्रयोजनान्तरमप्याह एवमित्यादिना। ७ मनःकारण मु०। ८ व्यापारः। विचार्य । १० शरीररहितस्य । ११ उत्पत्तिक्षत्रम् । १२ -- गृ-प्रा०, ब०, द०, मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org