________________
२।२३]
द्वितीयोऽध्यायः
१३५ क्वचिदवसाने वर्तते, यथा संसारान्तं गतः-संसारावसानं गत इति । तत्रेह विवक्षातोऽवसानगतिर्वेदितव्या । वनस्पत्यन्तानां वनस्पत्यवसानानामिति ।
___ सामीप्यवचने हि वायुत्रससंप्रत्ययप्रसङगः ।२। वनस्पत्यन्तानां वनस्पतिसमीपानामित्यर्थे गृहयमाणे वायुकायिकानां त्रसानां च संप्रत्ययः प्रसज्येत ।
___ अन्तशब्दस्य संबन्धिशब्दत्वादादिसंप्रत्ययः।३। अयमन्तशब्दः संबन्धिशब्दत्वात् कांश्चित् ५ पूर्वानपेक्ष्य वर्तते, ततोऽर्थादादिसंप्रत्ययो भवति । तस्मादयमर्थो गम्यते-पृथिव्यादीनां वनस्पत्यन्तानामेकमिन्द्रियमिति। अत्राह--
अविशिष्ट केन्द्रियप्रसङगोऽविशेषात् ।४। पृथिव्यादीनां वनस्पत्यन्तानां स्पर्शनादिषु' अविशिष्टेमकमिन्द्रियं प्राप्नोति । कुतः ? अविशेषात् । न हि कश्चिद्विशेषोऽस्ति 'अनेनैवैकेन भवितव्यम्' इति । संख्यावाची ययमेकशब्दः ।। ___न वा; प्राथम्यवचने स्पर्शनसंप्रत्ययात् ५। न वैष दोषः । किं कारणम् ? प्राथम्यवचने स्पर्शनसंप्रत्ययात् । अयमेकशब्दः प्राथम्यवचनः, सूत्रपाठे च प्राथम्यमाश्रितम्, ततः स्पर्शनस्य संप्रत्ययो भवति । अस्ति च लोके प्राथम्यवचनः, एको गोत्रे-प्रथमो गोत्र इति ।
__तस्योत्पत्तिकारणमुच्यते-वीर्यान्तरायस्पर्शनेन्द्रियावरणक्षयोपशमे शेषेन्द्रियसर्वघातिस्पर्धकोदये च शरीराङ्गोपाङ्गलाभोपष्टम्भे एकेन्द्रियजातिनामोदयवशवर्तितायां च सत्यां १५ स्पर्शनमकमिन्द्रियमाविर्भवति । इतरेषामिन्द्रियाणां स्वामित्वप्रदर्शनार्यमाह
कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥२३॥ एकैकमिति वीप्सानिर्देशः ।। एककमितिशब्दो वीप्सायां द्रष्टव्यः ।
बहुत्वनिर्देशः सर्वेन्द्रियापेक्षः ।२। सर्वाणीन्द्रियाण्यपेक्ष्य बहुत्वनिर्देशः कृतः । एकैकं २० वृद्धमेषां तानीमान्येकैकवृद्धानीति । 'तत्र किं पूर्वमुत्तरम्' इति सन्देहः ?
__ असन्दिग्धं "स्पर्शनमेकैकेन बुद्धमित्यादिविशेषणात् ।। 'स्पर्शनम्' इत्यनुवर्तते, तदारभ्यकैकेन' वृद्धिमित्यादि विशेषणात् नास्ति सन्देहः । तत्कथम् ?
वाक्यान्तरोपप्लवात् ।। अस्मानिबन्धनस्थानाद्वाक्यात् वाक्यान्तराण्युपप्लवन्ते । यथा-'अक्षः' इत्येतस्मात् 'अक्षो भक्ष्यताम्, अक्षो भज्यताम्, “अक्षो दीव्यताम्' इति २५ वाक्यान्तरोपप्लवः क्रियते, एवमिहापि 'स्पर्शनं रसनवृद्धं कृम्यादीनाम्, स्पर्शनरसने घ्राणवृद्धे पिपीलिकादीनाम्, स्पर्शनरसनघाणानि चक्षुर्वृद्धानि भूमरादीनाम्, तानि श्रोत्रवृद्धानि मनुष्यादीनाम्' इति वाक्यान्तराण्युपप्लवन्ते ।
आदिशब्दः प्रकारे व्यवस्थायां वा ५। अयमादिशब्दः प्रकारे व्यवस्थायां वा वेदितव्यः । यदागमो नापेक्षितस्तदा प्रकारे कृमिप्रकाराः कृम्यादय इति । यदा त्वागमोऽपेक्ष्यते तदा ३० व्यवस्थायाम्, आगमे हि ते 'व्यवस्थिता इति ।
तेषां निष्पत्तिः स्पर्शनोत्पत्त्या व्याख्याता उत्तरोत्तरसर्वघातिस्पर्धकोदयेन ।
१-शब्दः का- ५०, मू०, भा०। २-चावि-मा०, ब०, २०, मु०, ता०। ३ तान्यकप्रा०, ब०, द०, मु०, ता०। ४ स्पर्शनमेकेन ब०, मू०।५-रभ्यंकेन १०, म्०, ता०। ६ विभीतकः। ७ अत्र जूते । ८ वा वेदितव्यः प्रा०,०, २०, मु०। ९कृमिपिपीलिमादीनां क्रमेण वृद्धानि इत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org