________________
१३४ तत्त्वार्थवार्तिके
[२२२१-२२ अत्रान्ये एकत्वं पृथक्त्वं चैकान्तेनाध्यवस्यन्ति; तदयुक्तम्; कथम् ? यद्येकान्तेनैकत्वं स्यात्; स्पर्शनेन स्पर्शोपलब्धौ रसादीनामप्युपलब्धिः स्यात् । तद्वतोऽपि तेषामपृथक्त्वे तदेव वा स्यात्, त एव वेति ? 'तदेव चेत्, लक्षणाभावाल्लक्ष्याभावः । अथ 'त एव; निराधारत्वात्तेषामप्यभावः । अथैकान्तेन पृथक्त्वम्; घटरूपोपलब्धौ ‘पटादिरूपानुपलब्धिवत् स्पर्शोपलब्धौ रूपादीनामनुपलब्धेः 'स्पृष्टो घटोऽयम्' इति न ज्ञायेत स्पर्शाद्यनात्मकत्वात् । तस्य तद्वतोऽप्यत्यन्तपृथक्त्वे उभयेषामभावः स्यात् । 'ग्रहणभेदात् स्पर्शादीनामन्यत्वमिति चेत्; न; ग्रहणाभेदेपि नानात्वोपलब्धः । शुक्लकृष्णादिषु संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वकर्मसत्तागुणत्वानां रूपिसमवायाच्चाक्षुषाणां नानात्वोपलब्धेश्च । संज्ञा ‘स्वतत्त्वमिति लक्षणभेदानानात्वमिति चेत् नः तदभेदेऽपि द्रव्यगुणकर्मणां नानात्वोपलब्धेः । स्पर्शादीनां व्यतिरेकेणानुपलब्धेरनानात्वमिति चेत्, न; प्रतिज्ञातविरोधात् । यदि हयेवं स्यात्, महदादिपरिणतानां सत्त्वरजस्तमसा व्यतिरेकेणानुपलभ्यमानानामपि प्रतिज्ञातमन्यत्वं हीयते । यदि हि तत्राप्यनन्यत्वमेव स्यात्। १ व्यक्ताव्यक्तलक्षणभेदकल्पनाऽनथिका स्यात् । तस्मात् स्यादेकत्वं स्यात्पृथक्त्वं चाभ्युपगन्तव्यम्-द्रव्यार्पणादेकत्वं पर्यायार्पणान्नानात्वमिति ।
__अत्राह-यन्मनोऽनवस्थानादिन्द्रियं न भवतीति प्रत्याख्यातं तत्किमुपयोगस्योपकारकम्, १५ उत नेति ? तदप्युपकार्येव; तेन विनेन्द्रियाणां विषयेषु स्वप्रयोजनवृत्त्यभावात् । किमस्यैषां सहकारित्वमात्रमेव प्रयोजनम्, उतान्यदपीति ? अत आह--
श्रुतमनिन्द्रियस्य ॥२॥ श्रुतज्ञानविषयोऽर्थः श्रुतम्, स विषयोऽनिन्द्रियस्य । परिप्राप्तश्रुतज्ञानावरणक्षयोपशमस्यात्मनः श्रुतार्थेऽनिन्द्रियालम्बनज्ञानप्रवृत्तेः । अथवा श्रुतज्ञानं श्रुतं तदनिन्द्रियस्यार्थः प्रयो२० जनमिति यावत्, तत्पूर्वकत्वात्तस्य इति । अयमनिन्द्रियस्येन्द्रियव्यापारनिर्मुक्तोऽर्थः ।
श्रुतं श्रोत्रेन्द्रियस्य विषय इति चेत्, न; श्रोत्रेन्द्रियग्रहणे श्रुतस्य मतिज्ञानव्यपदेशात् ।। स्यान्मतम्-न श्रुतमनिन्द्रियस्य विषयः । कस्य तहि ? श्रोत्रेन्द्रियस्येति; तन्नः किं कारणम् ? श्रोत्रेन्द्रियग्रहणे श्रुतस्य मतिज्ञानमिति व्यपदेशात् । यदा हि श्रोत्रेण गृहयते तदा तन्मतिज्ञान
मवग्रहादि व्याख्यातम्, तत उत्तरकालं यत्तत्पूर्वकं जीवादिपदार्थस्वरूपविषयं तत् श्रुत२५ मनिन्द्रियस्येत्यवसेयम् ।
उक्तानामिन्द्रियाणां प्रतिनियतविषयाणां स्वामित्वनिर्देशे कर्तव्ये यत्प्रथमं गृहीतं स्पर्शनं तस्य तावत्स्वामित्वावधारणार्थमाह--
वनस्पत्यन्तानामेकम् ॥२२॥ अन्तशब्दस्याऽनेकार्थत्वे विवक्षातोऽवसानगतिः ।। अयमन्तशब्दोऽनेकार्थः । क्वचिद३० वयवे, यथा वस्त्रान्तः वसनान्तः । क्वचित्सामीप्ये, यथोदकान्तं गतः-उदकसमीपे गत इति ।
१ अथ सांख्यमतमाशाक्य प्राचार्यः प्राह । २ वैशिषिका:-सम्पा० । ३ द्रव्यमेव । ४ रूपादयः । ५ घटानुरूपानुप- प्रा०, ब०, ८०, मु०। ६ इन्द्रियभेदात् । ७ रूपसम- प्रा०, ब०, २०, मु०। ५ स्वरूपम् । ९ प्रत्येकम् । पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसीति नव द्रव्याणि तत्रेदमपि द्रव्यम् इवमपि द्रव्यमिति लक्षणाभेदेऽपि पृथिव्यादि द्रव्यं प्रति नानात्वोपलब्धिः, एवं गणादिष्वपि योज्यम् । १० महदादि व्यक्तं कार्यमित्यर्थः, प्रधानञ्च अव्यक्तं कारणमिति-सम्पा० । ११ -णात श्रुतस्य मतिज्ञानमिति व्य-मा०,०, २०, मु०, ता० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org