________________
१३३
२२२०]
द्वितीयोऽध्यायः स्पर्शः, रसनं रसः, गन्धनं गन्धः, वर्णनं वर्णः, शब्दनं शब्द इति । यद्येवं सूक्ष्मेषु परमाण्वादिष स्पर्शादिव्यवहारो न प्राप्नोति ? नैष दोषः, सक्ष्मेष्वपि ते स्पर्शादयः सन्ति तत्कार्येष स्थूलेषु दर्शनादनुमीयमानाः, न यत्यन्तमसतां प्रादुर्भावोऽस्तीति, किन्त्वन्द्रियग्रहणयोग्या न भवन्ति, अयोग्यत्वेऽपि तेषु स्पर्शादिव्यवहारो रूढिवशाद्भवति ।
तदर्था इति कोऽयं शब्दः ? तेषामर्यास्तदर्या इति । तेषां केषाम् ? इन्द्रियाणाम् । यद्येवं ५
तदर्था इति वृत्त्यनुपपत्तिरसमर्थत्वात् ।२। तदर्था इति वृत्तिर्नोपपद्यते । कुतः ? असमर्थत्वात् । समर्थायवयवानां हि वृत्त्या भवितव्यम् । न चात्र सामर्थ्यमस्ति । कुतः ? *"सापेक्षमसमर्थ भवति" [पात० महाभा० २।१।१] इति । इन्द्रियाणि हयत्रापेक्ष्यन्ते ।
न वा; गमकत्वान्नित्यसापेक्षेषु संबन्धिशब्दवत् ।३। न वैष दोषः; किं कारणम् ? गमकत्वादत्र वृत्तिर्भवति । गमकत्वं च नित्यसापेक्षेषु । कथम् ? संबन्धिशब्दवत्। यथा संबन्धि- १० शब्देषु 'देवदत्तस्य गुरुकुलं देवदत्तस्य गुरुपुत्रः' इत्येवमादिषु वृत्तिर्भवति, गुरुशब्दो हि नित्यं शिष्यमपेक्षत इति, एवमिहापि तच्छन्दः सामान्यवच'नोऽवश्यं विशेषाकाङ्क्षी सन् प्रकृतानीन्द्रियाण्यपेक्षमाणोऽपि वृत्ति लभते ।
स्पर्शादीनामानुपूर्येण निर्देश इन्द्रियक्रमाभिसंबन्धार्थः ।४। 'स्पर्शश्च रसश्च गन्धश्च वर्णश्च शब्दश्च स्पर्शरसगन्धवर्णशब्दाः' इत्यानुपूर्येण निर्देशः स्पर्शनादिभिरिन्द्रियः क्रमेणाभि- १५ संबन्धो यथा स्यात् इति । एते पुद्गलद्रव्यस्य गुणा अविशेषेण वेदितव्याः ।।
अत्र केचिद्विशेषेण एतान् कल्पयन्ति-*"रूपरसगन्धस्पर्शवती पृथिवी। रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च । तेजो रूपस्पर्शवत् । वायुः स्पर्शवान्' [वैशे० सू० २।१।२-४] इति; तदयुक्तम् रूपादिमान् वायुः स्पर्शवत्त्वाद् घटवत् । तेजोऽपि रसगन्धवत्, रूपवत्त्वाद् गुडवत् । आपोऽपि गन्धवत्यः रसवत्त्वात् आमफलवत् । __ किञ्च, अबादिषु गन्धादीनां साक्षादुपलब्धेश्च । पार्थिवपरमाणुसंयोगात्तदुपलब्धिरिति चेत् नः विशेषहेत्वभावात् । नात्र विशेषहेतुरस्ति-पार्थिवपरमाणूनामेते गुणाः संसर्गात्त्वन्यत्रो पलभ्यन्ते नत्वबादीनामिति । वयं तु ब्रूमहे-तद्गुणत्वात् तत्रोपलब्धिरिति । यदि हि संयोगादुपलब्धिः 'कल्प्यते रसाधुपलब्धिरपि संयोगादेव कल्प्यताम् ।
___ नच पृथिव्यादीनां जातिभेदोऽस्ति, पुद्गलजातिमजहतः परमाणुस्कन्धविशेषा निमित्त- २५ वशाद्विश्वरूपतामापद्यन्त इति दर्शनात् । दृश्यते हि पृथिव्याः कारणवशाद् द्रवता, द्रवाणां चापी करकाश्मभावेन धनभावो दृष्टः, 'पुनश्च द्रवभावः । तेजसोऽपि मषीभावः।
__वायोरपि अदृष्टा रूपादयः कथं गम्यन्त इति चेत् ? परमाणुषु तेषां रूपादीनां कयं गतिः ? तत्कार्येषु दर्शनादनुमानमिति चेत्। इहापि तत एव वेदितव्यम् ।
तेषां च स्वतस्तद्वतश्च कत्वं पृथक्त्वं प्रत्यनेकान्तः ।५। तेषां च स्पर्शादीनां स्वतस्तद्वत- ३. श्चकत्वपृथक्त्वं प्रत्यनेकान्तो वेदितव्यः-स्यादेकत्वं स्यात् पृथक्त्वमित्यादि ।
२०
१-जो विशेषा-पा०, 40, 40, मु० । २-विशिष्य तान् मा०, ब०, २०, मु० । वै काः -स०। ३ जलाविषु । ४ वयं ब्रूमहे तद्गुणः तत्रोपलब्धरिति प्रा०, ब०, ब०, मु०॥ तदयुषत्वं तत्रोपलम्धेरिति म०, ता०। तद्गुणस्तत्रोपलग्धेरिति वा पाठः-१० टि०। ५ कथ्यते प्रा०,०० मु०। ६ घनश्च-पा०, मु०१० घनस्यचद्र-ब०। ७ वायावदृष्टाः मू०, ता०। बायोपिवृषाः पा०,१०, २०, मु०॥ द्रव्यतः। ९चारिन्द्रियमेकमपि यतः शक्लकृष्णाचनकरूपाणि खानात्यतो नानात्वोपलब्धिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org