________________
१३२ तस्वार्थवार्तिके
[રાર वाच्यमिति ? तन्न; किं कारणम् ? अभ्युपगमात् । अभ्युपगम्य श्रोत्रस्य बहूपकारित्वं रसनस्यापि बहूपकारित्वं वर्णयता भवता तदभ्युपगतमिति अवसितोऽभिमतवादः । अनभ्युपगमे वा प्रसङ्गनिवृत्तिः 'रसनमपि बहूपकारि' इति। किञ्च,
श्रोत्रप्रणालिकापादितोपदेशात् ।९। श्रोत्रप्रणालिकयोपदेशमुपश्रुत्य रसनं वक्तृत्वं प्रति. ५ व्याप्रियते अतः श्रोत्रमेव बहूपकारि।
सर्वज्ञे तदभाव इति चेत् न; इन्द्रियाधिकारात् ।१०। स्यान्मतम्-न हि सर्वज्ञः श्रोत्रेन्द्रियबलाधानात् परत उपश्रुत्य वक्तृत्वमास्कन्दतीति किन्तु सकलज्ञानावरण संक्षयाविभूतातीन्द्रियकेवलज्ञानः रसनोपष्टम्भमात्रादेव वक्तृत्वेन परिणतः सकलान् श्रुतविषयानर्थानुपदिशति, अतो रसनमेव बहूपकारीति ? तन्नः किं कारणम् ? इन्द्रियाधिकारात्। इन्द्रियाधिकारोऽयम्, अतो "येष्विन्द्रियकृतो हिताहितोपदेशः साकल्येनास्ति तान् प्रत्येतदुक्तं न सर्वज्ञं प्रतीति नास्ति दोषः ।
एककवृद्धिक्रमज्ञापनार्थ च स्पर्शनादिवचनम् ।११। कृमिपिपीलिकाभूमरमनुष्यादीनामेकैकवृद्धानि' ति० सू० २।२३] इति वक्ष्यते, तत्र वृद्धिक्रमज्ञापनार्थ च स्पर्शनादीनामानुपूर्व्य वेदितव्यम् ।
एषां च स्वतस्तद्वतश्चकत्वपृथकत्वं प्रत्यनेकान्तः ॥१२॥ एषां च स्पर्शनादीनामिन्द्रियाणां स्वतस्तद्वतश्चैकत्वपृथक्त्वं प्रत्यनेकान्तो वेदितव्यः-स्यादेकत्वं स्यात् पृथक्त्वमित्यादि । तद्यथा स्वतस्तावत्-ज्ञानावरणक्षयोपशमशक्तेरभेदविवक्षायां स्पर्शनादीनां स्यादेकत्वम्, समुदायम्पतिरेकाभावात समदायिनां समदायस्यैकत्वादवयवानामप्येकत्वमिति वा स्यादेकत्वम् । प्रतिनियतक्षयोपशमलब्धिविशेषापेक्षया स्यान्नानात्वम्, अवयवभेदविवक्षायां वा स्यान्नानात्वम् । इन्द्रियबद्धभिधानानवत्तिव्यावतेनापणाभदाद्वा स्यादकत्व स्यात् पृथक्त्व च। तद्वतोऽपि चैतन्यापरित्यागेनोभयपरिणामकारणापेक्षस्य इन्द्रियपर्यायात्मलाभे सति 'निष्टप्तायःपिण्डवत् तथापरिणामात् तद्वयतिरेकेणेन्द्रियस्यानुपलिब्धरिति स्यादिन्द्रियेन्द्रियवतोरेकत्वम् । इतरथा एकान्तान्यत्वे अनिन्द्रिय आत्मा स्यात् घटवत् । तथा अन्यतमेन्द्रियनिवृत्तौ तद्वतोऽवस्थानात्
स्यान्नानात्वम्, पर्यायिपर्यायभेदाच्च स्यानानात्वम् । 'संज्ञादिभेदाभेदविवक्षोपपत्तेश्च स्यादेकत्वं २५ स्यान्नानात्वं वाऽवसेयम् । पूर्ववदुत्तरे च भङगा नेतव्याः । तेषामिन्द्रियाणां विषयप्रदर्शनार्थमाह
स्पर्शरसगन्धवर्णशब्दास्तदर्थाः ॥२०॥ स्पर्शादीनां कर्मभावसापनत्वं ब्रव्यपर्यायविवक्षोपपत्तेः ।। स्पर्शादीनां कर्मसाधनत्वं भावसाधनत्वं च भवति । कुतः ? द्रव्यपर्यायविवक्षोपपत्तेः । यदा द्रव्यं प्राधान्येन विवक्षितं तदे१. न्द्रियेण द्रव्यमेव सन्निकृष्यते ततो न व्यतिरिक्ताः स्पर्शादयः केचन सन्तीति, एतस्यां
विवक्षायां कर्मसाधनत्वं स्पर्शादीनामवसीयते-स्पृश्यत इति स्पर्शः, रस्यत इति रस:, गन्ध्यत इति गन्धः, वर्ण्यत इति वर्णः, शब्द्यत इति शब्दः । यदा तु पर्यायः प्राधान्येन विवक्षितस्तदा भेदोपपत्तेः औदासीन्यावस्थितभावकथनाद् भावसाधनत्वं स्पर्शादीनां युज्यते । ततः स्पर्शनं
१ रसनेनोच्चरितं शब्दम् । २ अवसितो वादः प्रा०, श्र०, ता०, मू० । अवसितोऽभिमतो वा-मा०, ब, २० म०। ३ श्रुतिवि-पा०, ब०,०, मु०। ४ जीवेषु । ५ प्रात्मनः। ६ निसो ना सेवायां । अवसानक्रियायां ष्टुत्वम् । ७- त्वेन इन्द्रि-श्र०।८ संज्ञाभेदाभेदा-प्रा०,०, २०, मु०।९ पर्यायीणाम् ।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org