________________
રા]
द्वितीयोऽध्यायः
कारणधर्मस्य कार्येऽनुवृत्तेः । कार्यं हि लोके कारणमनुवर्तमानं दृष्टं यथा घटाकारपरिणतं विज्ञानं घट इति, तथेन्द्रियनिमित्त उपयोगोऽपि इन्द्रियमिति व्यपदिश्यते ।
शब्दार्थ संभवाच्च ॥ ४॥ यः शब्दार्थः ' इन्द्रस्य लिङ्गमिन्द्रेण सृष्टम्' इति वा स उपयोगे प्राधान्येन विद्यत इतीन्द्रियव्यपदेशो युक्तः ।
उक्तानां पञ्चानामिन्द्रियाणां संज्ञानुपूर्व्यविशेष प्रतिपादनार्थमाह-
१३१
स्पर्शनरसनघ्राणचक्षुः श्रोत्राणि ॥ १६ ॥
'स्पर्शनादीनां करणसाधनत्वं पारतन्त्र्यात् कर्तृ साधनत्वं च स्वातन्त्र्याद् बहुलवचनात् ॥ १॥ इमानि 'स्पर्शनादीनि करणसाधनानि । कुतः ? पारतन्त्र्यात् । इन्द्रियाणां हि लोके पारतन्त्र्येण विवक्षा विद्यते, आत्मनः स्वातन्त्र्यविवक्षायां यथा 'अनेनाऽक्ष्णा सुष्ठु पश्यामि, अनेन कर्णेन सुष्ठु शृणोमि' इति । ततो वीर्यान्तरायप्रतिनियतेन्द्रियावरणक्षयोपशमाङ्गोपाङ्गना- १० लाभावष्टम्भात् स्पर्शत्यनेनात्मेति स्पर्शनम्, रसयत्यनेनात्मेति रसनम् जिघूत्यनेनात्मेति घ्राणम्, चष्टेरनेकार्थत्वाद्दर्शनार्थविवक्षायां चष्टेऽर्थान् पश्यत्यनेनात्मेति चक्षुः शृणोत्यनेनात्मेति श्रोत्रम् | कर्तृ साधनत्वं च भवति स्वातन्त्र्यविवक्षायाम् । इन्द्रियाणां हि लोके स्वातन्त्र्येण विवक्षा, यथा 'इदं मेऽक्षि सुष्ठु पश्यति, अयं मे कर्णः सुष्ठु शृणोति' इति । ततः पूर्वोक्तहेतुसन्निधाने सति स्पृशत्यात्मैवेति स्पर्शनम् । कथम् ? कर्तरि युट् बहुलवचनात् । १५ रसयतीति रसनम्, जिघूतीति घ्राणम्, चष्टे इति चक्षुः शृणोतीति श्रोत्रमिति ।
अत्र 'इन्द्रियाणि' इति केषाञ्चित् पाठः । नासौ युक्तः । कुतः ?
अधिकृतत्वात् 'इन्द्रियाणि' इत्यवचनम् |२| 'पञ्चेन्द्रियाणि' इत्यत इन्द्रियग्रहणमनुवर्तते तेनेह 'इन्द्रियाणि' इति वचनमनर्थकम् ।
स्पर्शनग्रहणमादौ शरीरव्यापित्वात् ॥ ३॥ यतो वितत्य शरीरमवतिष्ठते स्पर्शनमतोऽस्य २० ग्रहणमादौ क्रियते ।
वनस्पत्यन्तानामेकमिति च स्पर्शनस्य तत्र व्यापारात् ॥४॥ वक्ष्यते *" वनस्पत्यन्तानामेकम् " [त० सू० २।२१] इति तत्र, स्पर्शनस्य ग्रहणार्थञ्चादौ वचनम् । .
सर्वसंसारिषूपलब्धेश्च ॥५॥ सर्वेषु संसारिषु स्पर्शनमस्त्यतो नानाजीवापेक्षया व्यापित्वाच्चादौ ग्रहणं क्रियते ।
१ कर्मणा । २ स्पर्शावी - ता०, ५०, मू० । ३०, ६०, मू० । ५- त्यनेनेति श्र० ता०, भू० ।
८ प्रमाण- प्रा०, ब०, ६०, मु० ।
Jain Education International
ततो रसनघाणचक्षुषां क्रमवचनम् उत्तरोत्तराल्पत्वात् । ६ । ततः पश्चाद्रसनादीनां त्रयाणां क्रमवचनं क्रियते । कुतः ? उत्तरोत्तराल्पत्वात् । तद्यथा - सर्वतः स्तोकाश्चक्षुः प्रदेशाः, श्रोत्रेन्द्रियप्रदेशाः संख्ये यगुणाः, घ्राणेन्द्रिये विशेषाधिकाः, जिह्वायामसंख्येयगुणाः, स्पर्शनेऽनन्तगुणा इति । यद्येवं चक्षुषोऽन्ते ग्रहणं कर्तव्यं सर्वेभ्योऽल्पीयस्त्वात् ? सत्यम्, एवमेतत्; तथापि - श्रोत्रस्यान्ते वचनं बहुपकारित्वात् ॥७॥ यतः श्रोत्र बलाधानादुपदेशं श्रुत्वा हिताहितप्राप्ति- ३० परिहारार्थमाद्रियन्ते । अतः श्रोत्रं बहूपकारीति अन्ते गृहयते ।
सनमपि वक्तृत्वनेति चेत्; न; अभ्युपगमात् ॥७॥ स्यादेतत्-रसनमपि बहूपकारि । कथम् ? वक्तृत्वेन । यतो रसनमभ्युदयनिःश्रेयसार्थोच्चारणाऽध्ययनादिषु प्रवणमतो रसनमेवान्ते
५
३ स्पर्शादा- मू० श्र० । ४ -त्वात्तद्द- प्रा०, ६ तेन पू- प्रा०, ब०, मु० । ७ व्याप्य ।
For Private & Personal Use Only
२५
www.jainelibrary.org