________________
.३०
तत्त्वार्थवार्तिके
[२०१६-१८ द्विविधानि ॥१६॥ विधशब्दस्य प्रकारवाचिनो ग्रहणम् ।। अयं विधशब्दः प्रकारवाची गृहयते, विधयुक्तगतप्रकाराः समानार्था इति । द्वौ विधौ येषां तानि द्विविधानि द्वि प्रकाराणीत्यर्थः । कौ च द्वौ प्रकारौ ? द्रव्येन्द्रियं भावेन्द्रियमिति । तत्र द्रव्येन्द्रियस्वरूपनि नार्थ माह
निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥१७॥ निर्वर्त्यत इति निर्वृत्तिः ।। कर्मणा या निर्वय॑त निष्पाद्यते सा निर्वृत्तिरित्युपदिश्यते। सा द्वधा बाह्याभ्यन्तरभेदात् ।। सा निर्वृत्तिर्द्वधा । कुतः ? बाह्याभ्यन्तरभेदात् । तत्र
विशुद्धात्मप्रदेशवृत्तिराभ्यन्तरा।३। उत्सेधाङगुलस्याऽसंख्येयभागप्रमितानां विशुद्धाना१० मात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानमानावमानावसिथितानां वृत्तिराभ्यन्तरा निर्वृत्तिः ।
तत्र नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयो बाया ।४। तेष्वात्मप्रदेशेष्विन्द्रियव्यपदेशभाक् यः प्रतिनियतसंस्थानो नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयः स बाह्या निर्वृत्तिः।
उपक्रियतेऽनेनेत्युपकरणम् ॥५॥ येन निवृत्तेरुपकारः क्रियते तदुपकरणम् ।
तद् द्विविधं पूर्ववत् ।६। तदुपकरणं द्विविध पूर्ववत् बाह्याभ्यन्तरभेदात् । तत्राभ्यन्तरं शुक्लकृष्णमण्डलम्, बाहयमक्षिपत्रपक्ष्मद्वयादि। एवं शेषेष्वपीन्द्रियेषु ज्ञेयम् । भावेन्द्रियमुच्यते
लब्ध्युपयोगौ भावेन्द्रियम् ॥१८॥ लब्धिरिति कोऽयं शब्दः ? लाभो लब्धिः । यद्येवं षित्वादङ प्राप्नोति ; *"अनुबन्धकृतमनित्यम्" [ ] इति न भवति यथा *"वर्णानुपलब्धौ चातदर्थगतेः' [पात० महा० प्रत्याहा० ५] इत्येवमादिषु । अथवा *"स्त्रियां क्तिः, "लभादिभ्यश्च" [श० च० २।३।८०, ८१] इति क्तिर्भवति, इष्टाचाबादय इति । अथ कोऽस्यार्थः ?
इन्द्रियनिर्वृत्तिहेतुः क्षयोपशमविशेषो लब्धिः।। यत्सन्निधानादात्मा द्रव्येन्द्रियनिति २५ प्रति व्याप्रियते स ज्ञानावरणक्षयोपशमविशेषो लब्धिरिति विज्ञायते ।
तनिमित्तः परिणामविशेष उपयोगः ॥२॥ तदुक्तं निमित्तं प्रतीत्य उत्पद्यमान आत्मनः परिणाम उपयोग इत्युपदिश्यते । तदेतदुभयं 'भावेन्द्रियमिति ।
‘उपयोगस्य फलत्वादिन्द्रियव्यपदेशानुपपत्तिरिति चेत्, न; कारणधर्मस्य कार्येऽनुवृत्तः।। स्यान्मतम्-इन्द्रियफलमुपयोगः स 'कथमिव इन्द्रियव्यपदेशमापद्यत इति ? तन्न; किं कारणम्?
१-त् तत्र वि-पा०, ब०, द०, मु०।२षिचिचन्ति पजि कथिकम्बि चय॑न्तर्धेऽङ (शा० ४॥४॥८२) इति । डुलभष लाभे इति षकारान्तत्वात् -सम्पा० । ३ वा तद-प्रा०, ब०, द०, मु०, ता० । ४ लभादिभ्यश्चेति शाकटायनम् । रवादिभ्यश्च ता०, श्र०, मू०। ५ कोऽर्थः। ६ चेतनात्मकत्वात् । तत्र भावेन्द्रियमेव मुख्यं प्रमाणं स्वार्थप्रमितो साधकतमत्वात् द्रव्येन्द्रियस्य उपचारत एवं प्रामाण्योपगमात् । ७ कार्ये च वृत्तेः मू० । कार्यानुवत्तेः प्रा०, ब०, ८०, मु०। ८ कथमिहेन्द्रिय-प्रा०, ब०, २०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org