________________
२।१५]
द्वितीयोऽध्यायः कति पुनरेषां प्राणाः? द्वीन्द्रियस्य तावत् षट्प्राणा:-स्पर्शनरसनेन्द्रियप्राणौ वाक्कायबलप्राणो उच्छवासनिश्वासप्राणः आयुःप्राणश्चेति। त्रीन्द्रियस्य सप्त-त एव प्राणाः घाणाधिकाः । चतुरिन्द्रियस्याष्टौ-त एव चक्षुरधिकाः । पञ्चेन्द्रियस्य तिरश्चोऽसंज्ञिनो नव प्राणाः त एव श्रोत्राधिकाः । संज्ञिपञ्चेन्द्रियतियंङमनुष्यदेवनारकाणां दश प्राणा मनोबलाधिकास्त एव ।
आदिशब्देन निर्दिष्टानामिन्द्रियाणामनितिसंख्यानामियत्तावधारणार्थमाह
पञ्चेन्द्रियाणि ॥१५॥
अथवा स्वां प्रक्रियाम् आचिख्यासवः केचित् पञ्च षडेकादश चेन्द्रियाणि इत्यध्यवस्यन्ति तत्रानिष्टनिवृत्त्यर्थं नियमयन्नाह-पञ्चेन्द्रियाणि नाधिकानीति ।।
इन्द्रस्यात्मनो लिङगमिन्द्रियम् ।। उपभोक्तुरात्मनोऽनिवृत्तकर्मबन्धस्यापि परमेश्वरत्व- १० शक्तियोगाद् इन्द्र'व्यपदेशमर्हतः स्वयमर्थान् गृहीतुमसमर्थस्योपयोगोपकरणं लिङ्गमिन्द्रियमित्युच्यते ।
इन्द्रेण कर्मणा सृष्टमिति वा ॥२॥ अथवा स्वकृतकर्मविपाकवशादात्मा देवेन्द्रादिषु तिर्यगादिषु चेष्टानिष्टमनुभवतीति कर्मैव तत्रेन्द्रः, तेन सृष्टमिन्द्रियमित्याख्यायते ।
तद्भेदाः स्पर्शनादयः पञ्च वक्ष्यमाणाः।
मनोऽपोन्द्रियमिति चेत्, न; अनवस्थानात् ।३। स्यान्मतम्-मनोऽपीन्द्रियमित्युपसंख्येयम्, कर्ममलीमसस्यात्मनोऽसहायस्य स्वयमेवार्थचिन्तनं प्रत्यसहिष्णोर्बलाधानं भवति मनः कर्मकृतं चेति ? तन्न; किं कारणम् ? अनवस्थानात् । यथा चक्षुरादीनि प्रतिनियतदेशावस्थानानि न तथा मन इत्यनिन्द्रियं तत् ।
इन्द्रियपरिणामाच्च प्राक् तद्व्यापारात् ।४। चक्षुरादीनां रूपादिविषयोपयोगपरिणा- २० मात् प्राक् मनसो व्यापारः । कथम् ? शुक्लादिरूपं दिदृक्षुः प्रथमं मनसोपयोगं करोति 'एवंविषं रूपं पश्यामि रसमास्वादयामि' इति, ततस्तद्वलाधानीकृत्य चक्षुरादीनि विषयेषु व्याप्रियन्ते । ततश्चास्याऽनिन्द्रियत्वम् । ___कर्मेन्द्रियोपसंख्यानमिति चेत्, न; उपयोगप्रकरणात् ५। स्यादेतत्-कर्मेन्द्रियाणि 'वागादीनि वचनादिक्रियानिमित्तानि सन्ति तेषामिहोपसंख्यानं कर्तव्यमिति ? तन्न; किं कारणम् ? २५ उपयोगप्रकरणात् । उपयोगोऽत्र प्रकृतः, तदुपकरणानि इह इन्द्रियाणि गृह्यन्ते, तेन कर्मेन्द्रियाणामप्रसङ्गः।
अनिन्द्रियत्वं वा तेषामनवस्थानात् ।। न वागादीनामिन्द्रियत्वमस्ति, उपयोगसाधनेषु हीन्द्रियव्यपदेशो युक्तो न क्रियासाधनेषु । यदि च क्रियासाधनेष्वपि स्याद् अनवस्था प्रसज्येत, सर्वाणि हयङ्गोपाङ्गादीनि मूर्धादीनि क्रियासाधनानीति ।
'इष्टानिष्टविषयोपलब्धार्यानि भोक्तुरात्मनो यान्यम्नीन्द्रियाणि तेषामुक्तसामर्थ्यविशेषादुप'निपतितभेदानां प्रत्येक भेदप्रतिपत्त्यर्थमाह
१ सांख्याः। २ इंदु परमैश्वर्य इति धातोरर्यः शक्त्या संभवतीत्यर्थः। ३ अनियतवृत्तित्वात् । ४ वाक्पाणिपादपायपस्थानि कर्मेन्द्रियं पारवादि इत्यभिधानात् । पायुर्नाम मलद्वारम् गुदं त्वपानं पायर्नाम, भगमेहनादिकम् उपस्थः। ५ इष्टानिष्टविषयेषु लब्धोऽर्थो यस्तानि । ६ -पनियतभे-मु०।
१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org